________________
शब्दकौस्तुभे।
अतश्च ॥ १७७ ॥ तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । दरत् । कथं । माद्रीसुतौ फलेपुष्पे समृद्ध इति । मद्रीति पठनीयमिति हरदत्तः । स्यादेतत् । अता तद्राजो विशेष्यताम् । तथाच विशेषणेन तदन्तविधौ ज्यण्यादीनामपि लुगस्तु । व्याप्तिन्यायात् । मैवम् । अवन्तिकरुभ्यो लुग्वचनवैयापत्तेः । तस्मादत इति विशेष्यमेव । तेन कौसल्या सिद्धा । अत इति तपरकरणं तु स्पष्टार्थम् । अस्येत्युक्ते हि संदेहः स्यात् । इन एवायं संनिहितत्वादिदमा निर्देशः । किं वा वर्णमात्रस्येति ।
न प्राच्यभर्गादियौधेयादिभ्यः ॥ १७८ ॥
एभ्यस्तद्राजस्य न लुक् स्यात् । अतश्चेति प्राप्तो निषिध्यते । प्राच्येभ्यः क्षत्रियेभ्यस्तावत् । पाश्चाली । वैदर्भी । आङ्गी । वाडी । मागधी । एते शरावत्याः पाश्चो जनपदाः । भर्गादिग्रहणमप्रागर्थ भार्गी । कारुशी । कैकेयीत्यादि । कथं तर्हि पाकेकयीत इति भट्टिः । जन्यजनकभावेऽपि पुंयोगलक्षणो डीए । शाखादिङीन् गौरादिङीष् वा इत्युक्तं पुंयोगादिति मूत्रे। भृनो गः। भर्गः। कुन उः । करुः तं वष्टि । मूलविभुजादित्वात्कः । करूशः चिनोतेः कय आदेश्च कः । बहुलवचनादित्संज्ञाभावः। केकयः। कशेर्मीरः। साल्वशब्दो निरुक्तः शोभनानि स्थानान्यस्य सुस्थानः। उरसा शेते उरशः।डा। कुरुनादिभ्यो रायः।
कौरव्यः । इति भर्गादिः। यौधेयी । शौकेयी । शौभ्रेयी । युधायाः शुक्रायाः शुभ्रायाश्चापत्यम् । द्वयच इति ढक् । शुभ्रशब्दाच्छुभ्रादिभ्यश्चेति । ततः स्वार्थे पर्वादियौधेयादिभ्योऽणबावित्यञ् । शाहरवाद्यन इति डीनि आ