________________
४ अध्याये २ पादे १ आह्निकम् । १२३ शतशब्दात् षष्ठिशब्दाच परो यः पथिन्शब्दस्तदन्तात् षिक. न् स्यात् । षो ङीषर्थः । शतपथिकः । शतपथिकी। षष्ठिपथिकः । षष्ठिपथिकी। अत्र वृत्तिकारो बहुलग्रहणं कृत्वा शातपथ इत्यणमप्युदाजहार तत्तु भाष्यादौ नास्ति । इकन् बहुलं पथोत्तरपदादित्युक्थायन्तर्गणसूत्रमिति न्यासकारः ।
क्रमादिभ्यो वुन् ॥ ६१॥ अणोऽपवादः । क्रमकः । पदकः । क्रम पद शिक्षा मीमांसा ।
अनुब्राह्मणादिनिः ॥ ६२ ॥ ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते वेत्ति वा अनुब्राह्मणी । यथार्थे यदव्ययमिति सादृश्ये ऽव्ययीभावादिनिः। म. त्वर्थीयेन सिद्धे अध्येतवेदितोरणं बाधितुं सूत्रम् ॥
वसन्तादिभ्यष्ठक् ॥६३ ॥ यत्र वसन्तो वर्ण्यते यो वा वसन्ते ऽध्येयः स उपचाराद्वसन्तः तमधीते वेनि वासन्तिकः ! उक्थादिषु वसन्तादयः पाठ्याः । ते वा वसन्तादिषु । तथा तु न कृतमित्येव । अथर्वनशब्दो ऽत्र पठ्यते । स उपचारादथर्वणा प्रोक्त ग्रन्थे वर्तते । शैषिकप्रकरणान्ते भाष्यकारास्तु इत्थमाहुः । तेन प्रोक्तमिति प्र. कृत्य ऋषिभ्यो लुग्वक्तव्यः। वसिष्ठः । विश्वामित्रः । अ. नुवाकः । अथर्वणो वा अथर्वा आथर्वण इति । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायनसूत्रे निपातनाहिलोपो न । वसन्त वर्षा शरत् हेमन्त शिशिर प्रथम अ. नुगुण अथर्वन् आथर्वण ।