________________
४ अध्याये १ पादे २ आह्निकम् ।
डाबुभाभ्यामन्यतरस्याम ॥ १२ ॥ सूत्रद्वयोपात्ताभ्यां प्रकृतिभ्यां डाब् वा स्यात् । इह योगविभागादिकं वनो रचेत्यत्रैव व्युत्पादितम् । सीमा । सीमे । सीमाः। सुपर्वे । सुपर्वाः । इहानन्तस्य बहुव्रीहेः प्राप्तो डीबुपधालोपिन एवति नियमान्नेत्युक्तम् । भाष्यकारस्त्वाह । अनो बहुव्रीहेरित्यस्मादनन्तरं उपधालोपिनो वेति कर्त्तव्यम् । एवश्वान इति न कर्त्तव्यम् । डाप्सूत्रे चान्यतरस्यां ग्रहणं त्याज्यमिति । बहुराजे बहुराइयौ बहुराजानावित्यत्रोभयथापि रूपत्रयं निर्विवादम् ॥ १२ ॥
अनुपसर्जनात् ॥ १३ ॥ अधिकारोऽयम् । यदिह वक्तव्यं तत् सर्वादिसूत्र एवोक्तम्॥१३॥ इति श्रीशब्दकौस्तुभे चतुर्थस्याध्यायस्य प्रथमे
पादे प्रथममाह्निकम् । टिड्ढाणञ्चयसज्र्धनञ्मात्रच्तयप्ठक्
, ठकवरपः ॥ १४ ॥ अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां डीप स्यात् । कुरुचरी । उपसर्जनत्वान्नेह । बहुकुरुचरा । इहानेकं वाक्यम् । तत्राण यो ऽकार इति व्याख्यानानेह आपिशलमधीते आपिशला ब्राह्मणीति प्रोक्तार्थे अण् उपसर्जनम् । अध्येत्रण तु लुप्त इति टाबेष भवति । तदनुबन्धकग्रहणे नातदनुबन्धकस्य । तेनेह न पचमाना। ल्युडन्तासुटित्वसामर्थ्याद्भवत्येव । गोदनी । लटस्तु टित्वं टेरेत्वे चरितार्थम् । यदि तु तदनुबन्धकेसि परिभाषा विशिष्टरूपो