________________
१२
शब्दकौस्तुभे
श्वारणविषयैव तर्हि शानचः शित्वमनुबन्धकार्येष्वपि कचिदनविधाविति निषेधज्ञापनार्थमिति पचमानेति सिद्धम् ।
केचित्तु यासुटो ङित्वं सामान्यतो ज्ञापयति लाश्रयमनुबन्धकार्यमादेशानां नेति । तेन पचमाना करिष्यमाणा ब्राह्मणीत्यत्र टिल्लक्षण उगिल्लक्षणश्च ङीमेत्याहुः । पठिता विद्येत्यत्र तु न ङीप् । इटष्टित्वस्यादेशविधौ चरितार्थतया प्रत्यया विशेषकत्वेन टिदन्तस्य टितो वा प्रातिपदिकस्याभावात्
यदुक्तं वृत्तिकृता ट्युट्युलोष्टित्करणं ज्ञापकं आगमटित्वं न ङीपं प्रवर्त्तयतीति । अन्यथा हि तुटष्टित्वेन सिद्धे किं तेनेति । तच्चिन्त्यम् । पुराणमोक्तेष्विति लिङ्गात्तुडभावपक्षे ङीपा तस्य चरितार्थत्वात् । न च बहादित्वात्तत्र ङीषेव, पुनः पुनर्जायमाना पुराणीत्यादावन्तोदात्तत्वदर्शनादिति वाच्यम् । बह्नादिभ्यश्चेत्यत्र वेत्यनुवृत्त्या पक्षे ङीपो दुर्वारत्वादिति हरदत्तः । अत्रेदं वक्तव्यम् । पुराणशब्दो घृतादित्वादन्तोदात्तः । अयं पन्था अनुवित्तः पुराणः पुराणमोकः सरव्यमित्यादावन्तोदात्तताया निर्विवा दत्वात् । ततश्च ङीषा मुक्ते टावेव न तु ङीप् । अन्यथा गौरादिष्वेव पठेत् । अन्तोदात्तान्ङीपूङीषोरविशेषात् । तस्माद् वृत्तिकारोक्तं ज्ञापकं सम्भवत्येव । किन्त्वस्मदुक्तरीत्या निष्फलं तदिति दिकू ।
टष्टित्वात् स्तनन्धयी । पेटष्टित्वं चेरैव ङीपं प्रवर्त्तयति । न तूक्तं रावुलाद्यन्त इति नासिकास्तनयोरिति हरदत्तादयः । अत्र च सम्प्रदाय एव शरणम् । द । सौपर्णेवी । यद्यपि ढक्ढञोः सानुबन्धकत्वं तथापि निरनुबन्धकस्यासम्भवात्तयोरेवेह ग्रहणम् । शिलाया ढ इति हि डे शिलेय