________________
शब्दकौस्तुभे ।
तिपदिकाधिकारादेवेह धातुप्रत्यययोर्लुङ् न ।।
इति श्रीशब्द कौस्तुभे चतुर्थस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम् । पादश्च समाप्तः ।
२०४
प्राग् हतेष्ठक् ॥
१ ॥
तद्वहतीत्यतः प्राक् ठगधिक्रियते । तदाहेति माशब्दादिभ्य उपसङ्ख्यानम् । वाक्यादयं प्रत्ययविधिः । माशब्दिकः । माशब्दः कारीति यो निषेधति स एवमुच्यते । आहौ प्रभूतादिभ्य उपसङ्ख्यानम् । प्रभूतमाह प्राभूतिकः । पार्याप्तिकः । क्रियाविशेषणात्प्रत्ययः । आहेतिपदे एकदेशस्य प्रकृतिभागस्योच्चारणार्थेनेकारेणाहाविति निर्देशः । पृच्छतौ सुस्नातादिभ्यः । सुस्नातं पृच्छति सौस्नातिकः । सौख - शायनिकः । अनुशतिकादिः । गच्छतौ परदारादिभ्यः । परदारान् गच्छति पारदारिकः । गौरुतल्पिकः ।
तेन दीव्यति खनति जयति जितम् ॥ २ ॥
अक्षैर्दीव्यति आक्षिकः । अभ्या खनति आभ्रिकः । कौालिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् । दीव्यतीत्यादौ कालपुरुषसङ्ख्या अविवक्षिताः । अदेवीत् देविष्यति वा आक्षिकः । एवं देविष्यसि देविष्यामि वा । दीव्यन्ति दीव्यथ दीव्यामो वा आक्षिकाः । कारकन्तु विवक्षितमेव । अत एव जयति जितमिति कर्तृकर्मणोः पृथगुपादानम् ।