________________
शब्दकौस्तुभे ।
अशब्दे यत्वात्रन्यतरस्याम् ॥ २०८ ॥ पूर्वेण पक्षे छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः ।
१७२
कर्णललाटात्कनलङ्कारे ॥ २०९ ॥
यतोऽपवादः । कर्णिका । ललाटिका । अलङ्कारे किम् । कर्ण्यम् । ललाट्यम् |
तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ॥ २१० ॥
इति शब्दो वाक्यार्थे परामृशति तत्समीपे चकारस्तत्र भव इति वाक्यार्थमाक्षिपति । व्याख्यातव्यस्य ग्रन्थस्य नाम प्रतिपादकम् । तच्च शक्त्या लक्षणया वेत्यत्र नाग्रहः । तस्मात्षठ्यन्ताद्व्याख्यानकरणे सप्तम्यन्तात्तु भवार्थे प्रत्ययाः स्युः । यद्यपि तस्येदं तत्र भव इति सूत्राभ्यां गतार्थता तथापि ठञादिकानपवादान्वक्तुमिमावर्थौ निर्देष्टव्यावेव प्रसङ्गास्वणादिकं विधीयते । सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्त्तः । सुप्सु भवं सौपम् । व्याख्यातव्यनाम्नः किम् । पाटलिपुत्रस्य व्याख्यानी सुकोसला । पाटलिपुत्रं हि तया व्याख्यायते इदृक्सन्निवेशविशिष्टमिति । नत्विदं व्याख्यातव्यस्य नाम ग्रन्थेष्वेव व्याख्येयत्वस्य सुप्रसिद्धत्वात् । नामग्रहणस्य च प्रसिद्ध्युपसंग्रहार्थत्वात् ।
बह्वचोन्तोऽदात्ताट्ठञ् ॥ २११ ॥
अणोऽपवादः । षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वं तस्य व्याख्यानस्तत्र भवो वा पात्वणत्विकः । बह्वचः किम् । व्यचष्ठकं वक्ष्यति । एकाच् प्रत्युदाहार्यः । सौपम् । तैङम् । अन्तोदात्तात्किम् । संहितायाः । सांहितम् । गति