________________
२००
शब्दकौस्तुभे।
रू । वृद्धदारु । त्रिकण्टक । कण्टकार । रजतादिष्वनुदात्तादीनां पुनः पाठो मयबाधाय ।
___जितश्च तत्प्रत्ययात् ॥ २९६ ॥ विद्या विकारावयवप्रत्ययस्तदन्ताद स्यात् तयोरेवार्थयोः । मयटोऽपवादः । ओरञ् । शम्याः प्लञ् । प्राणिरजतादिभ्योऽञ् । उष्ट्रान् वुन् । एण्या ढञ् । कंसीयपरशव्ययोर्यजत्रौ । दैवदारवस्य विकारोऽवयवो वा दैवदारवम् । दाधित्थम् । शामीलस्य शामीलम् । इत्यादिनितः । बै. वयमिति वृत्तिकाराः । भाष्ये तु विकारावयत्रप्रत्ययान्तात्पुनस्तत्प्रत्ययो ऽनभिधानान्नेत्याश्रित्य सूत्रं प्रत्याख्यातम् । द्रुवयात्फललान्चेष्यते द्रौवयं मानम् । कापित्थो रसः । कपि. स्थशब्दानुदात्तादेश्चैत्यनः फले लुक् । पुनरञ् । सूत्रारम्भे हि वैल्वस्य विकार इत्यत्रापि मयट् स्यात् । किश्च औष्ट्रकस्य चर्मणो विकार औष्ट्रिकोपानदित्यत्र ठिड्ढामबिति ङीप् स्यात् । न चेष्यते तथा च सौनागाः पठन्ति वुबश्वाञ् कृतप्रसङ्ग इति तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्दो अभेदोपचाराद्वर्त्तत इत्येव शरणमिति सिद्धान्तितम् । त. स्माद् वृत्तिग्रन्थः सूत्रकाराभिप्रायवर्णनमात्रपरतया नेयः ।
क्रीतवत् परिमाणात् ॥ २९७ ॥ पश्चमे प्राग्वतेष्ठनित्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्तेऽणादीनामपवादः । संख्योन्माने अपि परिमाणग्रहणेन गृह्येते न तु रूढिपरिमाणमेव । निष्केण क्रीतं नैकिकम् । एवं नि