________________
४ अध्याये १ पाद १ आहिकम् स्येव सूत्रयेत् । ततः अन्यतरस्याम् । मन इतीह निवृत्तम् । अनो बहुव्रीहेर्वा डाप् स्यात् । पूर्वेण सिद्धे डीपा सह विकल्पं लन्धुमिदमिति । न चैवमन उपधेत्यादेर्वैयर्थ्यम् । अनो योऽसौ विकल्पः स उपधालोपिन एवेति नियमार्थ तदारम्भात् । वथा च तस्य निषेधार्थतया सुपर्वेत्यादिरनुपधालोपी उदाहरणम् । एषा तावत् सूत्रमते बहुधीवर्या गतिः । भाष्ये तु सूत्रभङ्गेनापि समाहितम् । अनो बहुत्रीहेरित्यस्मादनन्तरमुपधालोपिनो वेत्येवास्तु । प्रदेशान्तरस्थं तु अन उपधेत्यादिसूत्रं मा. स्त्विति । तस्मादधीवानौ बहुधीवे बहुधीवर्याविति रूपत्रयं स्थितम् । वनो न हश इति वक्तव्यम् । विहितविशेषणं चेदम् । इशन्तादातोर्वहितो यो वन्. तदन्तात्तदन्तान्ताच, प्रातिपदिकान्डीब् नेत्यर्थः । तेन शर्वरीत्यत्र प्रतिषेधाभावः । ओण अपनयने । वनिप् । विड्वनोरित्यात्वम् । हशन्ताद्विहितत्वान्न डीबी । अवावा ब्रामणीति हरदत्तः । प्रायिको ऽयं निषेधस्तेनावावरीति न्यासकारः । बहुलं छन्दसीति ङीब्रौ वक्तव्यौ । अधिना यज्वरी रिसः। वनो न हश इत्युदाहृतनिषेधश्च ङीषोऽपि बोध्यः । तेन राजयुध्वा स्त्रीत्यत्र ऋन्नेभ्य इति न ङीप् ॥ ६ ॥
पादोऽन्यतरस्याम् ॥ ७ ॥ पाच्छब्दः कृतसमासान्तः । तदन्तात् प्रातिपदिकादा डीप् स्यात् । द्विपदी । द्विपात् ॥ ७ ॥
टाबृचि ॥ ८ ॥ ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । डीपो ऽपवादः । द्विपदा ऋक् । एकपदा । ननु पदशब्दः पादसमानार्थको ऽस्ति । तस्याः सप्ताक्षरमेकं पदं एक पाद इति ज्याप्सूत्रे