________________
शब्दकौस्तुभे ।
मन्त्रः । षित्वान्ङीष् । सामिधेनी । हलस्तद्धितस्येति यलोपः । इह ययाग्निः समिध्यते सा समित् । संपदादित्वात् करणे किप् । ततः कर्मणि षष्ठयन्तादाधानकरणे तद्धितः । पाय्यसान्नाय्यति सूत्रे सामिधेनीष्विति निपातनादेतत्सिद्धम् ।
रथाद्यत् ॥ २६४ ॥ अणोऽपवादः । रथाद्रथाङ्गे इति वार्तिकम् । रथस्येदं रथ्यं चक्रं युगं वा । कथं तर्हि रथस्य वोढा रथ्य इति तद्वहतीति । यद्येवं । अयमेव तद्वोढर्यपीष्यताम् । तद्वहतीत्यत्र तु रथग्रहणं मा कारि । मैवम् । द्वौ रथौ वहति द्विरथ्य इत्यत्र द्विगोलुंगनपत्य इति प्राग्दीव्यतीयलुप्रसङ्गात् । यत्तु द्वयो रथयोरङ्ग तत्र द्विरथ इत्येव भवति । रथसीताहलेभ्यो यद्विधाविति तदन्तविधेरुपसंख्यानात् । अत एव परमरथ्यमिति सिद्धम् । ननु द्विगोलुंगनपत्य इत्यत्राचीत्यस्यापकर्षपक्षे कथमत्र यतो लुगिति चेत् सत्यम् । तद्वहतीत्यत्रस्थग्रहणमेव ज्ञापकमे. तस्य यतो हलादेरपि लुग्भवतीति अन्यथा तत्र रथग्रहणं व्यर्थमेव स्यादिति ।
पत्रपूर्वाद ॥ २६५ ॥ रथादित्येव । पूर्वस्य यतोऽपवादः । पतन्त्यनेन पत्रं वाहनम् । दाम्नीत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः तस्यास्याङ्गमाश्वरथम् ।
पत्राध्वर्युपरिषदश्च ॥ २६६ ॥ एभ्योऽञ् स्यादणोऽपवादः । पत्राद्वाह्य इति वार्चिकम् । अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् । पारिषदम् । इह पत्रेत्यर्थग्रहणे इतरयोस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम् ।