Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
Catalog link: https://jainqq.org/explore/004383/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ UPLELEEL श्री शंखेश्वरपार्श्वनाथाय नमः वाचकवर्य-उमास्वातिजी-रचिता श्रावकप्रज्ञप्तिः। [ हरिभद्रसूरिकृत दिक्प्रदा-टीकयालंकृता ] संपादकः मुनिश्री-राजेन्द्रविजयः। प्रकाशक: सं स्का र साहित्य सदन डीसा [ बनासकांठा] BIFFFFF Page #2 -------------------------------------------------------------------------- ________________ B E 5. --------------- वाचकवर्य-उमास्वातिजी-प्रणीता श्रावकप्रज्ञप्तिः। [हरिभद्रसूरीश्वरजी विरचित 'दिक्प्रदा व्याख्या-समलंकृता] कः 더더더더더더더더더더더더더더더더더 . संपादकः . पूज्याचार्य-शान्तिचन्द्रसूरीश्वर-शिष्य-पूज्यपंन्यासप्रवर सुज्ञानविजयजी गणिवर्य .. शिष्याणुः मुनिश्री-राजेन्द्रविजयः। [साहित्याचार्यों भाषारत्नश्च .. प्रकाशक : संस्कार सा हि त्य सदन डीसा [बनासकांठा] Page #3 -------------------------------------------------------------------------- ________________ પ્રકાશક સંસ્કાર સાહિત્ય સદન મંત્રી પુનમચંદ ના. દેશી સદર બજાર, ડીસા [ બનાસકાંઠા) મૂલ્ય: ચાર રૂપિયા. સંસ્કૃત પ્રાચીન ગ્રંથોના પ્રકાશનમાં સંસ્થા એ કદમ ઉઠાવ્યું છે. અસહ્ય મોંઘવારીમાં આવાં કાર્યો સામાન્ય વ્યક્તિ કરી શકે તેમ નથી. આપણા પ્રાચીન ગ્રંથનું પુનર્મુદ્રણ જરૂરી છે. સહુને સહકાર ભવિષ્યમાં મળતો રહે તેવી આશા... પુ. ના. દેશી - ડીસા સં. 2028 પ્રથમવૃત્તિ નકલ 1000 મુદ્રકઃ કાંતિલાલ ડી. શાહ . ભરત પ્રિન્ટરી, દાણાપીઠ પાછળ, પાલીતાણા , Page #4 -------------------------------------------------------------------------- ________________ સુકૃતના સહભાગી ગત સાલ પાટણું જવાનું થયું. ત્યાં પૂ. પં. મ. શ્રી ચિદાનંદવિજયજી ગણિવર્ય બરાજમાન હતા. તત્વજ્ઞ મુનિશ્રી નંદીઘોષવિજયજી મહારાજ શ્રાવકપ્રજ્ઞપ્તિ ગ્રંથ વાંચતા હતા. સુશ્રાવક નંદલાલભાઈ પણ ત્યાં જ હતા. (જેઓ સંસ્કૃતિના સારા અભ્યાસી તેમજ શાસનને વફાદાર છે.) જીર્ણ થયેલ ગ્રંથને પુનરુદ્ધાર કરવાની સૂચના કરી. પૂજ્ય પંન્યાસજી મ. ની પ્રેરણા તથા સુશ્રાવક નંદલાલભાઈની શુભ ભાવના આજે સાકાર બની છે. શ્રાવકોનાં વ્રતોનું સુંદર સ્વરૂપ આ ગ્રંથમાં અનેખી રીતે જ જોવા મળશે. તજો મનનપૂર્વક આ ગ્રંથને ભણે અને યોગ્ય ઉપયોગ કરે. પ્રાચીન ગ્રંથોના ઉદ્ધારની ખૂબ જ જરૂર છે. સુકૃતના સહભાગી જેનાથી જેટલા બનાય તેટલા બનવું આવશ્યક છે. ગ્રંથ પૂર્વાચાને છે. એટલે એ વિષે એ ગ્રંથ વાંચનથીજ ગ્રંથની ગંભીરતા સમજાશે. પ્રેસ યા દષ્ટિદોષથી જે કંઈ ક્ષતિ રહી હોય તેની ક્ષમા. અસાઢ શુ. 11 શનિવાર રર-૭-૭ર ભાભર છે રાજેન્દ્રવિજય. લિ Page #5 -------------------------------------------------------------------------- ________________ શ્રાવકપ્રજ્ઞપ્તિ' ગ્રંથના દ્રવ્ય સહાયકે. 1000) સરિયદ જેન સંઘ જ્ઞાન ખાતામાંથી હા. સરિયદ સંઘ. 500) શ્રી કેશરભાઈ જ્ઞાન મંદિર-પાટણ સંચાલિત શેઠ લહેરૂભાઈ ભોગીલાલ સ્મારક ગ્રંથાવલી પાટણ 500) પૂ. પં. શ્રી ભુવનવિજ્યજી ગણના શિષ્યરત્ન મુનિરાજ શ્રી મહિમાવિજયજી મહારાજના સદુ પદેશથી શ્રી માંડેલી નગર જૈન સંઘ તરફથી. પ૦૦) નવા ડીસા જૈન સંઘ નવા ડીસા ગ્રાહક તરીકે 50 નકલ પૂ૦ ઉપાધ્યાયજી મ. શ્રી ભુવનવિજયજી મ. (ડહેલાવાળા) જ્ઞાનમંદિર પાટણ સર્વ સહાયકોને અંતરથી આભાર... - પ્રકાશક, Page #6 -------------------------------------------------------------------------- ________________ श्री-शंखेश्वर-पार्श्वनाथाय नमः। उमास्वातिवाचककृतश्रावकप्रज्ञप्त्याख्यप्रकरणम् / हरिभद्रसरिविरचितव्याख्यासमेतम् // स्मरणं यस्य सत्वानां तीव्रपापौघशान्तये / उत्कृष्टगुणरूपाय तस्मै श्रीशान्तये नमः॥१॥ स्वपरोपकाराय श्रावकप्रज्ञप्त्याख्यप्रकरणस्य व्याख्या प्रस्तूयते / तत्र चादावेवाचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थ चेदं गाथासूत्रमुपन्यस्तवान् / अरहते वंदित्ता सावगधम्म दुवालसविहं पि / वोच्छामि समासेणं गुरूवएसाणुसारेणं // 1 // [ अर्हतो वन्दित्वा श्रावकधर्म द्वादशविधमपि / वक्ष्ये समासेन गुरूपदेशानुसारेण // 1 // ] इह हि शिष्टानामयं समयो यदुत शिष्टाः कचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्त इत्ययमप्याचार्यों न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय, तथा श्रेयांसि बहुविनानि भवन्तीति (उक्तं च Page #7 -------------------------------------------------------------------------- ________________ [2] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / श्रेयांसि बहुविघ्नानि भवन्ति महतामपि / अश्रेयसि प्रवृत्तानां क्वापि यान्ति धिनायकाः॥ . . इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्योभूतं वर्तते अतो माभूद्विघ्न इति विघ्नविनायकोपशान्तये, तथा प्रेक्षापूर्वकारिणः प्रयोजनादिविरहेण न क्वचिप्रवर्तन्त इयतः प्रयोजनादिप्रतिपादनार्थ च, तत्र अरहन्ते वंदित्ता इत्यनेनेष्टदेवतानमस्कारमाह अयमेव विघ्नविनायकोपशमहेतुः सावगधम्ममित्यादिना तु प्रयोजनादित्रयं इति गाथासमुदायार्थः // ___अवयवार्थस्तु अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीयहन्तस्तीर्थंकरास्तानर्हतः / वंदित्वा अभिवन्ध / श्रावका वक्ष्यमाणशब्दार्थाः तेषां धर्मस्तं किंभूतं द्वादश विधाः प्रकारा अस्येति द्वादशविधस्तं द्वादशविधमपि संपूर्ण नाणुव्रतायेकदेशप्रतिबद्धमिति / वक्ष्येऽभिधास्ये ततश्च यथोदितश्रावकधर्माभिधानमेव प्रयोजनं, स एवाभिधीयमानोऽभिधेयं, साध्यसाधनलक्षणश्च संबन्धः तत्र साध्यः प्रकरणार्थः साधनमिदमेव वचनरूपापन्नमिति // आह यद्येवं नार्थोऽनेन पूर्वाचार्यैरेव यथोदितश्रावकधर्मस्य ग्रन्थान्तरेष्वभिहितत्वात् , उच्यते,-सत्यमभिहितः प्रपञ्चेन, इह तु संक्षेपरुचिसत्त्वानुग्रहार्थ समासेणं संक्षेपेन वक्ष्ये / किं स्वमनीषिकया, नेत्याह, गुरूपदेशानुसारेण गृणाति शास्त्रार्थमिति गुरुस्तस्मादुपदेशो गुरूपदेशस्तदनुसारेण तनीत्येत्यर्थः॥ Page #8 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [3] श्रावकधर्मस्य प्रक्रान्तत्वात्तस्य *श्रावकानुष्ठातृकत्वाच्छावकशब्दार्थ मेव प्रतिपादयतिसंपत्तदंसणाई पइदियहं जइजणा सुणेई य / सामायारि परमं जो खलु तं सावगं विन्ति // 2 // [संप्राप्तदर्शनादिः प्रतिदिवसं यतिजनाच्छृणोत्येव / सामाचारी परमां यः खलु तं श्रावकं ब्रुवते // 2 // ] संप्राप्तं दर्शनादि येनासौ संप्राप्तदर्शनादिः। दर्शनग्रहणात्सम्यग्दृष्टिरादिशब्दादणुव्रतादिपरिग्रहः / अनेन मिथ्यादृष्टेयुदासः। स इत्थंभूतः प्रतिदिवसं प्रत्यहं यतिजनात्साधुलोकात् शृणोत्येव किं सामाचारी परमां / तत्र समाचरणं समाचारः शिष्टाचरितः क्रियाकलापः तस्य भावो गुणवचनब्राह्मणादिभ्यः कर्मणि व्यञ् सामाचार्य पुनः स्त्रीविवक्षायां षिद्गौरादिभ्यश्चेति ङीपू (टाप्') यस्येत्यकारलोपः यस्य हल इत्यनेन तद्वितयकारलोपः परगमनं सामाचारी तां सामाचारी परमां प्रधानां साधुश्रावकसंबद्धामित्यर्थः। यः खलु य एव शृणोति तं श्रावकं ब्रुवते तं श्रावकं प्रतिपादयन्ति भगवन्तस्तीर्थकरगणधराः॥ ततश्चायं पिण्डार्थः / अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि * श्रावकानुगतत्वात् / Page #9 -------------------------------------------------------------------------- ________________ [4] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / प्रतिदिवसं यतिभ्यः सकाशात्साधूनामगारिणां च सामाचारी शृणोतीति श्रावकः इति / सांप्रतं श्रवणगुणान् प्रतिपादयतिनवनवसंवेगो खलु नाणावरणखओवसमभावो / तत्ताहिगमो यतहा जिणवयणायनणस्स गुणा // 3 // [ नवनवसंवेगः खलु . ज्ञानावरणक्षयोपशमभावः / तत्त्वाधिगमश्च तथा जिनवचनाकर्णमस्य गुणाः॥३॥] नवनवसंवेगः प्रत्यग्रः प्रत्यग्रः संवेगः आर्द्रातःकरणता मोक्षसुखाभिलाष इत्यन्ये / खलुशब्दः पूरणार्थः संवेगस्य शेषगुणनिबंधनत्वेन प्राधान्यख्यापनार्थों वा। तथा ज्ञानावरणक्षयोपशमभावः ज्ञानावरणक्षयोपशमसत्ता संवेगादेव / तत्वाधिगमश्च तत्वातत्त्वपरिच्छेदश्च तथा जिनवचनाकर्णनस्य तीर्थकरभाषितश्रवणस्यैते गुणा इति // तीर्थकरभाषिता चासो सामाचारीति // किं च देहस्वजनवित्तप्रतिबद्धः कश्चिदहृदयो न शृणोतीत्येषामसारताख्यापनाय जिनवचनश्रवणस्य सारतामुपदशयन्नाहनवितं करेइ देहो न य सयणो नेय वित्तसंघाओ। जिणवयणसवणजणिया जं संवेगाइयां लोए॥४॥ Page #10 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [5] [ नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः। जिनवचनश्रवणजनिता यत्संवेगादयो लोके // 4 // ] नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः जिनवचनश्रवणजनिता यत्संवेगादयो लोके कुर्वन्ति / तथा ह्यशाश्वतः प्रतिक्षणभङ्गुरो देहः शोकायासकारणं क्षणिकसंगमश्च स्वजनः अनिष्टितायासव्यवसोयास्पदंश च वित्तसंघात इत्यसारता / तीर्थकरभाषिताकर्णनोद्भवाश्च संवेगादयो जातिजरामरणरोगशोकायुपद्रवत्रातरहितापवर्गहेतव इति सारता / अतः श्रोतव्यं जिनवचनमिति // अथवाहोइ दढं अणुराओं जिणवयणे परमनिव्वुइकरम्मि। सवणाइगोयरो तह सम्मदिट्ठिस्स जीवस्स // 5 // [ भवति दृढमनुरागो जिनवचने परमनिवृतिकरे / श्रवणादिगोचरः तथा सम्यग्दृष्टेर्जीवस्य // 5 // ] यद्वा किमनेन निसर्गत एव भवति जायते दृढमत्यर्थमनुरागः प्रीतिविशेषः क्व जिनवचने तीर्थकरभाषिते किविशिष्टे परमनिर्वृतिकरे उत्कृष्टसमाधिकरणशीले किंगोचरोऽनुरागो भवतीत्यत्राह / श्रवणादिगोचरः श्रवणश्रद्धानानुष्ठानविषय इत्यर्थः / तथा तेन प्रकारेण कस्येत्येत्राह सम्यग्दृष्टेर्जीवस्य प्रक्रान्तत्वाच्छावकस्येत्यर्थः / अतोऽसौ श्रवणे प्रवर्तत एव ततश्च * अनिष्टितासयवसायास्पदं / Page #11 -------------------------------------------------------------------------- ________________ [6] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / शृणोतीति श्रावक इति युक्तं इति गाथाभिप्रायः // निरूपितः श्रावकशब्दार्थः / सांप्रतं द्वादशविधं श्रावकधर्ममुपन्यस्यन्नाह / / पञ्चेव अणुव्वयाइं गुणव्वाइं च हुति तिन्नेव / सिक्खावयाइं चउरो सावगधम्मो दुवालसहा // 6 // [पञ्चैवाणुव्रतानि गुणव्रतानि च भवन्ति त्रीण्येव / शिक्षाव्रतानि चत्वारि श्रावकधर्मों द्वादशधा // 6 // ] पञ्चेति सङ्ख्या / एवकारोऽवधारणे / पञ्चैव न चत्वारि षड् वा / अणूनि च तानि व्रतानि चाणुव्रतानि महाव्रतापेक्षया चाणुत्वमिति स्थूरमाणातिपातादिविनिवृत्तिरूपाणीत्यर्थः / / गुणव्रतानि च भवन्ति त्रीण्येव न न्यूनाधिकानि वा। अणुव्रतानामेवोत्तरगुणभूतानि व्रतानि गुणवतानि दिग्व्रतभोगोपभोगपरिमाणकरणानर्थदण्ड विरतिलक्षणानि एतानि च भवन्ति त्रीण्येव / शिक्षापदानि च शिक्षाव्रतानि वा तत्र शिक्षा अभ्यासः स च चारित्रनिबन्धनविशिष्टक्रियाकलापविषयस्तस्य पदानि स्थानानि तद्विषयाणि वा व्रतानि शिक्षाव्रतानि एतानि च चत्वारि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि / एवं श्रावकधर्मों द्वादशधा द्वादशप्रकार इति गाथासमासार्थः। अवयवार्थ तु महता प्रपञ्चेन - ग्रन्थकार एव वक्ष्यति // तथा चाह Page #12 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [7] एयस्स मूलवत्थू सम्मत्तं तं च गंठिभेयम्मि / खयउवसमाइ तिविहं सुहायपरिणामरूवं तु / / [एतस्य मूलवस्तु सम्यक्त्वं तच्च ग्रन्थिभेदे / क्षायोपशमिकादि त्रिविधं शुभात्मपरिणामरूपं तु // 7 // ] एतस्यानन्तरोपन्यस्तस्य श्रावकधर्मस्य मूलवस्तु सम्यक्त्वं / वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु / मूलभूतं च तद्वस्तु च मूलवस्तु किं तत्सम्यक्त्वम् / उक्तं च मूलं द्वारं प्रतिष्ठानमाधारी भाजनं निधिः / विषट्कस्यास्य धर्मस्य सम्यक्त्वं परिकीर्तितम् // 1 // तच्च सम्यक्त्वं ग्रन्थिभेदे वक्ष्यमाणलक्षणकर्मग्रन्थिभेदे (31-33) सति भवति नान्यथेति भावः / तच्च क्षायोपशमिकादिभेदात् त्रिविधं क्षायोपशमिकमौपशमिकं क्षायिकं च / यद्वा कारकादिशुभात्मपरिणामरूपं तु शुभः संकलेशवर्जित आत्मपरिणामो जीवधर्मों रूपं यस्य तच्छुभात्मपरिणामरूपं तुरवधारणे शुभात्मपरिणामरूपमेव / अनेन तद्व्यतिरिक्तलिङ्गादिधर्मव्यवच्छेदमाह / व्यतिरिक्तधर्मत्वे तत उपकारायोगादिति // जं जीवकम्मजोए जुज्जइ एयं अओ तयं पुवि / वोच्छं तओ कमेणं पच्छा तिविहं पि सम्मत्तं // 8 // Page #13 -------------------------------------------------------------------------- ________________ [8] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [यतो जीवकर्मयोगे युज्यते एतदतः तकं पूर्वम् / वक्ष्ये ततः क्रमेण पश्चात् त्रिविधमपि सम्यक्त्वम् // 8 // ] यतो यस्मात्कारणाज्जीवकर्मयोगे जीवकर्मसंबन्धे सति युज्यते एतत् घटते इदं सम्यक्त्वं कर्मक्षयोपशमादिरूपत्वात् अतोऽस्मात्कारणातकं जीवकर्मयोगं पूर्वमादौ वक्ष्येऽभिधास्ये / ततस्तदुत्तरकालं क्रमेण परिपाट्या पश्चात्रिविधमपि क्षायोपशमिकादि सम्यक्त्वं वक्ष्य इति // तत्राहजीवो अणाइनिहणो नाणावरणाइकम्मसंजुत्तो। मिच्छत्ताइनिमित्तं कम्मं पुण होइ अट्ठविहं॥९॥ [जीवो ऽनादिनिधनो ज्ञानावरणादिकर्मसंयुक्तः / मिथ्यात्वादिनिमित्तं कर्म पुनर्भवत्यष्टविधम् // 9 // ] _जीवतीति जीवः / असौ अनादिनिधनः अनाद्यपर्यवसित इत्यर्थः / स च ज्ञानावरणादिकर्मणा समेकीभावेनान्योन्यव्याप्त्या युक्त संबद्धो ज्ञानावरणादिकर्मसंयुक्तः। मिथ्यात्वादिनिमित्तं मिथ्यात्वादिकारणं मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतव इति वचनात् (तत्वार्थाधिगमसूत्रम् 8-1) कर्म पुनर्ज्ञानावरणादि भवत्यष्टविधमष्टप्रकारमिति // तथा चाहपढमं नाणावरणं बीयं पुण होइ दंसणावरणं / तइयं च वेयणीयं तहा चउत्थं च मोहणियं // 10 // Page #14 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [9] [प्रथमं ज्ञानावरणं द्वितीयं पुनर्भवति दर्शनावरणम् / .. तृतीयं च वेदनीयं तथा चतुर्थं च मोहनीयम् // 10 // ] प्रथममायं ज्ञानावरणं आप्रियतेऽनेनावृणोतीति वावरणं ज्ञानस्यावरणं ज्ञानावरणं ज्ञानं मतिज्ञानादि। द्वितीयं पुनभवति दर्शनावरणं पुनःशब्दो विशेषणार्थः सामान्यावबोधावारकत्वात् दर्शनं चक्षुर्दर्शनादि / तृतीयं च वेदनीयं सातासातरूपेण वेद्यत इति वेदनीयं रूढशब्दात्पङ्कजादिवत् / तथा चतुर्थ कर्म किं अत आह मोहनीयं मोहयतीति मोहनीयं मिथ्यात्वादिरूपत्वादिति / आऊअ नामं गोयं चरमं पुण अंतराइयं होइ / मूलपयडीउ एया उत्तरपयडी अओ वुच्छं // 11 // [आयुष्कं नाम गोत्रं चरमं पुनरन्तरायिकं भवति / मूलप्रकृतय एता उत्तरप्रकृतीरतो वक्ष्ये // 11 // ] आयुष्कं नाम गोत्रं / तत्रैति याति वेत्यायुरननुभूतमेत्यनुभूतं च यातीत्यर्थः सर्वमपि कमैंवंभूतं तथापि प्रक्रान्तभवप्रबन्धाविच्छेदादायुष्कमेव गृह्यते अस्ति च विच्छेदो मिथ्यात्वादिषु। तथा गत्यादिशुभाशुभनमनान्नामयतीति नाम / तथा गां वाचं वायत इति गोत्रं रूढिषु हि क्रिया कर्मव्युत्पत्यर्थी नार्थक्रियार्था इत्युच्चैर्भावादिनिबन्धनमदुष्टमित्यर्थः / चरमं पुनः पर्यन्तवति तत्पुनरन्तरायं भवति दाना Page #15 -------------------------------------------------------------------------- ________________ [10] सटीकश्रावकज्ञप्त्याख्यप्रकरणं / दिविघ्नोऽन्तरायस्तत्कारणमन्तरायमिति / मूलप्रकृतय एताः सामान्यप्रकृतय इत्यर्थः उत्तरप्रकृतीरेतद्विशेषरूपा अतो वक्ष्ये अत ऊर्ध्वमभिधास्य इति // क्रमप्रयोजनं प्रथमगुणघातादि यथा फर्मप्रकृतिसंग्रहण्यामुक्तं तथैव द्रष्टव्यं ग्रन्थविस्तरभयावस्तुतोऽप्रक्रान्तत्वाच्च न लिखितमिति / तथापढमं पंचवियप्पं मइसुयओहिमणकेवलावरणं / बीयं च नववियप्पं निदापण दंसणचउक // 12 // [प्रथमं पञ्चविकल्पं मतिश्रुतावधिमन केवलावरणम् / द्वितीयं च नवविकल्पं निद्रापञ्चकं दर्शनचतुष्कम् // 12 // ] इह सूत्रक्रमप्रामाण्यात्प्रथममायं ज्ञानावरणं पञ्चविकल्पमिति पश्चभेदं / तानेव भेदानाह / मतिश्रुतावधिमन केवलावरणं मतिज्ञानाद्यावरणमित्यर्थः। द्वितीयं च दर्शनावरणं नवविकल्पं निद्रापञ्चकं दर्शनचतुष्कं चेति / निद्रापञ्चकमाहनिदा निदानिदा पयला तह होइ पयलपयला य। थीणद्धी असुरुद्दा निदापणगंजिणाभिहियं // 13 // [निद्रा निद्रानिद्रा प्रचला तथा भवति प्रचलाप्रचला च / स्त्यानर्द्धिश्च सुरुद्रा निद्रापञ्चकं जिनाभिहितम् // 13 // ] निद्रादीनां स्वरूपम् सुहपडिबोहा निद्दा दुहपडिबोहा य निद्दनिद्दा य / पयला होइ ठियस्स उ पयलापयला य चंक्कमओ // Page #16 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [11] अइसंकिलिट्टकम्माणुवेयणे होइ थीणगिद्धी उ / महनिद्दा दिणचिन्तियवावारपसाहणी पायम् / अत्रेत्थंभूतनिद्रादिकारणं कर्म अनन्तरं दर्शनविघातित्वादर्शनावरणं ग्राह्यमिति / दर्शनचतुष्टयमाहनयणेयरोहिकेवल दंसणवरणं चउब्विहं होइ। सायासाय दुभेयं च वेयणिज्ज मुणेयव् // 14 // [नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति / सातासातद्विभेदं च वेदनीयं मुणितव्यम् // 14 // ] नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति / आवरणशब्दः प्रत्येकमभिसंवध्यते / नयनं लोचनं चक्षुरिति पर्यायाः ततश्च नयनदर्शनावरणं चक्षुर्दर्शनावरणं वेति चक्षुःसामान्योपयोगावरणमित्यर्थः। इतरग्रहणादचक्षुर्दर्शनावरणं शेषेन्द्रियदर्शनावरणमिति / एवमवधिकेवलयोरपि योजनीयं // सातासातद्विभेदं च वेदनीयं मुणितव्यं / सातवेदनीयमसातवेदनीय च / आल्हादरूपेण यद्वद्यते तत्सातवेदनीयं / परितापरूपेण यद्वद्यते तदसातवेदनीय / मुणितव्यं ज्ञातव्यमिति // दुविहं च मोहणियं दंसणमोहं चरित्तमोहं च / दंसणमोहं तिविहं सम्मेयरमीसवेयणियं // 15 // [द्विविधं च मोहनीयं दर्शनमोहनीयं चारित्रमोहनीयं च / दर्शनमोहनीयं त्रिविधं सम्यक्त्वेतरमिश्रवेदनीयम् // 15 // ] Page #17 -------------------------------------------------------------------------- ________________ [12] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / द्वे विधेऽस्य तद्विविधं द्विप्रकारं / चः समुच्चये / मोहनीयं प्राकनिरूपितब्दार्थ / द्वैविध्यमेवाह / दर्शनमोहनीयं चारित्रमोहनीयं च / तत्र दर्शन सम्यग्दर्शनं तन्मोहयतीति दर्शनमोहनीयं / चारित्रं विरतिरूपं तन्मोहयतीति चारित्रमोहनीयं / तत्र दर्शनमोहनीयं त्रिविधं त्रिप्रकारं सम्यक्त्वेतरमिश्रवेदनीयं / सम्यक्त्वरूपेण वेद्यते यत्तत्सम्यक्त्ववेदनीयं / इतरग्रहणान्मिथ्यात्वरूपेण वेद्यते यत्तन्मिथ्यात्ववेदनीयं / मिश्रग्रहणात्सम्यग्मिथ्यात्वरूपेण वेद्यते यत्तत्सम्यक्त्वमिथ्यात्ववेदनीयं / एवमयं वेदनीयशब्दः प्रत्येकमभिसंबध्यते / इदं च बन्धं प्रत्येकविधमेव सत्कर्मतया त्रिविधमिति // आहसम्यक्त्ववेदनीयं कथं दर्शनमोहनीयं न हि तदर्शनं मोहयति तस्यैव दर्शनत्वात् / उच्यते मिथ्यात्वप्रकृतित्वादतिचारसंभवादौपशमिकादिमोहनाच्च दर्शनमोहनीयमिति // दुविहं चरित्तमोहं कसाय तह नोकसाय वेयणियं / सोलसनवभेयं पुण जहासंखं मुणेयब्वं // 16 // द्विविधं चारित्रमोहनीयं कषायवेदनीयं तथा नोकषायवेदनीयं / षोडशनवभेदं पुनर्यथासंख्यं मुणितव्यम् // 16 // ] द्विविधं द्विप्रकारं चारित्रमोहनीयं प्राङ्निरूपितशब्दार्थ / कषायवेदनीयं तथा नोकषायवेदनीयं चेति / .वेदनीयशब्दः प्रत्येकमभिसंबध्यते / तत्र क्रोधादिकषायरूपेण यद्वेद्यते तत्क Page #18 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [13] पायवेदनीय। तथा स्त्रीवेदादिनोकपायरूपेण यद्वद्यते तन्नोकपायवेदनीय / अस्यैव भेदानाह // षोडश नवभेदं पुनर्यथासङ्ख्येन मुणितव्यं / षोडशमेदं कषायवेदनीयं / नवभेदं नोकषायवेदनीयं / भेदाननन्तरं वक्ष्यत्येवेति // तत्र कषायभेदानाहअण अप्पञ्चक्खाणा पञ्चक्खाणावरणा य संजलणा। कोहमणमायलोहा पत्तेयं चउवियप्पत्ति // 17 // [अनन्तानुबन्धिनोऽप्रत्याख्यानाः प्रत्याख्यानावरणाः च संज्वलनाः। क्रोधमानमायालोभाः प्रत्येकं चतुर्विकल्पा इति // 97 // ] अण इति सूचनात्सूत्रं इति कृत्वा अनन्तानुबन्धिनो गृह्यन्ते इह पारंपर्येणानन्तं भवमनुबद्धं शीलं येषामिति अनन्तानुवन्धिनः उदयस्थाः सम्यक्त्वविघातिन इति कृत्वा // अविद्यमानप्रत्याख्याना अप्रत्याख्याना देशप्रत्याख्यानं सर्वप्रत्याख्यानं च नैपामुदये लभ्यते इत्यर्थः // प्रत्याख्यानमावृण्वन्ति मर्यादया ईपद्वेति प्रत्याख्यानावरणाः आमर्यादायामीषदर्थे वा मर्यादायां सर्वविरतिमावृण्वन्ति न देशविरति ईषदर्थेऽपि ईषद्वण्वन्ति सर्वविरतिमेव न देशविरतिं देशविरतिश्च भूयसी स्तोकादपि विरतस्य देशविरतिभावात् // चः समुच्चये / ईषत्परीषहादिसन्निपातज्वलनात्संज्वलनाः सम् शब्द Page #19 -------------------------------------------------------------------------- ________________ [14] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ईषदर्थे इति // एवं क्रोधमानमायालोभाः प्रतीतस्वरूपाः प्रत्येकं चतुर्विकल्पा इति / क्रोधोऽनन्तानुबन्ध्यादिभेदाच्चतुर्विकल्पः॥एवं मानादयोऽपीति। स्वरूपं चैतेषामित्थमाहुः जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो। .. तिणिसलयाकट्टट्ठियसेलत्थंभोवमो माणो // 1 // मायावलेहिगोमुत्तिमिंदसिंगघणवंसमूलसमा / लोहो हलिहखंजणकद्दमकिमिरागसारित्थो // 2 // * [कर्मग्रंथ. 1-19-20] पक्खचउम्मासवच्छरजावजीवाणुगामिणो कमसो / देवनर तिरियनारयगतिसाहणहेयवो भणिया // 3 // इति अधुना नोकषायभेदानाहइत्थीपुरिसनपुंसगवेयतिगं चेव होइ नायव्वं / हास रइ अरइ भयं सोग दुगंछा य छक्कति // 18 // [स्त्रीपुरुषनपुसंकवेद त्रिकं चैव भवति ज्ञातव्यम् / हास्यं रतिररतिभयं शोको जुगुप्सा चैव षट्कमिति // 18 // ] स्त्रीपुरुषनपुंसकवेदत्रिकं चैव भवति ज्ञातव्यं नोकषायवेद्यतयेति भावः / तत्र वेद्यत इति वेदः। स्त्रियः स्त्रीवेदोदयात्पुरुषाभिलाषः। पुरुषस्य पुरुषवेदोदयात्स्यभिलाषः / नपुंसकस्य तु नपुंसकवेदोदयादुभयाभिलाषः। हास्यं रतिः अरतिभयं शोको जुगुप्सा चैव षट्कमिति / तत्र सनिमित्त. * नोकषायभेदतयेति / Page #20 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं [15] मनिमित्तं वा हास्यं प्रतीतमेव / बाह्याभ्यन्तरेषु वस्तुषु प्रीतिः रतिः / एतेष्वेवाग्रीतिररतिः / भयं त्रासः। परिदेवनादिलिङ्गं शोकः / चेतनाचेतनेषु वस्तुषु व्यलीककरणं जुगुप्सा / यदुदयादेते हास्यादयो भवन्ति ते नोकषायाख्या मोहनीयकर्मभेदा इति भावः। नोकषायता चैतेषामायकषायत्रयविकल्पानुवर्तित्वेन / तथाहि न क्षीणेषु द्वादशस्वमीषां भाव इति // आउं च एत्थ कम्मं चउब्विहं नवरं होइ नायव्वं / नारयतिरियनरामरगइभेयविभागओ भणि॥१९॥ [आयुष्कं च अत्र कर्म चतुर्विधं नवरं भवति ज्ञातव्यम् / नारकतिर्यनरामरगतिभेदविभागतो भणितम् // 19 // ] आयुष्कं च प्रानिरूपितशब्दार्थ अत्र प्रक्रमे क्रियत इति कर्म चतुर्विध चतुःप्रकारं भवति ज्ञातव्यं / नवरमिति निपातः स्वगतानेकभेदप्रदर्शनार्थः / चातुर्विध्यमेवाह / नारकतिर्यङ्नरामरगतिभेदविभागतो गतिभेद विभागेन भणितमुक्तं तीर्थकरगणधरैः तद्यथा नारकायुष्कं तिर्यगायुष्कं मनुष्यायुष्कं देवायुष्कमिति // नाम दुचत्तभेयं गइजाइसरीरअंगुवंगे य। बंधणसंघायणसंघयणसंठाणनामं च // 20 // [नाम द्विचत्वारिंशभेदं गतिजातिशरीराङ्गोपाङ्गानि च / बन्धनसंघातनसंहननसंस्थाननाम च // 20 // ] Page #21 -------------------------------------------------------------------------- ________________ [16] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / .. नाम प्रागभिहितशब्दार्थ द्विचत्वारिंशत्प्रकारं / भेदानाह / गतिनाम यदुदयानरकादिगतिगमनं / जातिनाम यदुदयादेकेन्द्रियादिजात्युत्पत्तिः आह स्पर्शनादीन्द्रियावरणक्ष. योपशमसभावादेकेन्द्रियादित्वं नाम चौदयिको भावः तत्कथमेतदिति उच्यते तदुपयोगादिहेतुः क्षयोपशम एकेन्द्रियादिसंज्ञानिबन्धनं च नामेति न दोषः। शरीरनाम यदुदयादौदारिकादिशरीरभावः / अङ्गोपाङ्गनाम यदुदयादङ्गोपाङ्गनिवृत्तिः शिरःप्रभतीन्यङ्गानि श्रोत्रादीन्यङ्गोपाङ्गानि / उक्तं च सीसमुरोदरपिट्ठी दो बाहू उरुभया य अटुंगा। अंगुलिमाइ उवंगा अंगोवंगाई सेसाइं // 1 // बन्धननाम यत्सर्वात्मप्रदेशैगृहीतानां गृह्यमाणानां च पुद्गलानां संबन्धजनकं अन्यशरीरपुद्गलैर्वा जतुकल्पमिति / संघातननाम यदुदयादौदारिकादिशरीरपुद्गलग्रहणे शरीररचना भवति / संहनननाम वज्रऋषभनाराचादिसंहनननिमित्तं / संस्थाननाम समचतुरस्रादिसंस्थानकारणं / चः समुच्चय इति गाथार्थः // तह वनगंधरसफासनामगुरुलहू य बोद्धव्व। उवधायपराघायाणुपुब्विऊसासनामं च // 21 // [तथा वर्णगन्धरसस्पर्शनामागुरुलघु च बोद्धव्यम् / उपघातपराघातानुपूर्युच्छासनाम च // 21 // ] Page #22 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [17] तथा वर्णनाम यदुदयात्कृष्णादिवर्णनिवृत्तिः एवं गन्धरसस्पर्शेष्वपि स्वभेदापेक्षया भावनीयमिति / अगुरुलघु च बोद्धव्यं अत्रानुस्वारदीर्घत्वेऽलाक्षणिके सुखोचारणार्थे तूपन्यस्ते तत्रागुरुलघुनाम यदुदयान गुरु पि लघुर्भवति देह इति एकान्ततदभावेसदा निमज्जनोर्ध्वगमनप्रसंगः। उपघातनाम यदुदयादुपहन्यते / पराघातनाम यदुदयात्परानाहन्ति / आनुपूर्वीनाम यदुदयादपान्तरालगतौ नियतदेशमनुश्रेणिगमनं, नियत एवाङ्गविन्यास इत्यन्ये / उच्छ्वासनाम यदुदयादुच्छ्वासनिःश्वासौ भवतः। आह यद्येवं पर्याप्तिनाम्नः क्वोपयोग इति उच्यते पर्याप्तिः करणशक्तिः उच्छ्वासनामवत एव तन्निवृत्तौ सहकारिकारणं इषुक्षेपणशक्तिमतो धनुर्ग्रहणशक्तिवत् / एवमन्यत्रापि भिन्नविषयता सूक्ष्मधियावसेया। चः समुच्चये इति / आयवउज्जोयविहायगई य तसथावराभिहाणं च / बायरसुहुमं पज्जत्तापज्जत्तं च नायव्वं // 22 // [आतपोद्योतविहायोगतिश्च त्रसस्थावराभिधानं च / बादरसूक्ष्मपर्याप्तापर्याप्तं च ज्ञातव्यं // 22 // ] आतपनाम यदुदयादातपवान्भवति पृथिवीकाये आदित्यमण्डलादिवत् / उद्योतनाम यदुदयादुद्योतवान्भवति खद्योतका___ * एकान्ततद्भावे / Page #23 -------------------------------------------------------------------------- ________________ [18] सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं / - दिवत् / विहायोगतिनाम यदुदयाचंक्रमणं इदं च द्विविधं प्रशस्ताप्रशस्तभेदात् प्रशस्तं हंसगजादीनां अप्रशस्तमुष्ट्रादीना. मिति / त्रसनास यदुदयाचलनं स्पन्दनं च भवति त्रसत्वमेवान्ये / स्थावराभिधानं चेति स्थावरनाम यदुदयादस्पन्दनो भवति स्थावर एवान्ये / चः समुच्चये / बादरनाम यदुदयाबादरो भवति स्थूर इत्यर्थः इन्द्रियगम्य इत्यन्ये / सूखमनाम यदुदयात्सूक्ष्मो भवति अत्यन्तश्लक्ष्णः अतीन्द्रिय इत्यर्थः / पर्याप्तकनाम यदुदयादिन्द्रियादिनिष्पत्तिर्भवति / अपर्याप्तकनाम उक्तविपरीतं यदुदयात्संपूर्णपर्याप्त्यनिवृत्तिनं त्वाहारशरीरेन्द्रियपर्याप्त्यनिवृत्तिरपि यस्मादागामिभवायुष्कं बद्ध्वा नियंते सर्व एव देहिनः तच्चाहारशरीरेन्द्रियपर्याप्त्या पर्याप्तानामेव बध्यत इति / पत्तेयं साहारण-थिरमथिरसुहासुहं च नायव्व। सभगदूभगनाम सूसर तह दूसरं चेव // 23 // [प्रत्येकं साधारण स्थिरमस्थिरं शुभाशुभं च झातव्यम् / सुभगदुर्भगनाम सुस्वरं तथा दुःस्वरं चैव // 23 // ] प्रत्येकनाम यदुदयादेको जीव एव एकमेव शरीरं निवतयति / साधारणनाम यदुदयाद् बहवो जीवा एकं शरीरं निवर्तयंति / स्थिरनाम यदुदयाच्छरीरावयवानां शिरोऽस्थिदन्तादीनां स्थिरता भवति / अस्थिरनाम यदुदयात्तदवयवानामेव चलता भवति कर्णजिह्वादीनां / शुभाशुभं च ज्ञातव्यं / Page #24 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरण / [19] तत्र शुभनाम यदुदयाच्छरीरावयवानां शुभता यथा शिरसः विपरीतमशुभनाम यथा पादयोस्तथा शिरसा स्पृष्टस्तुष्यति पादाहतस्तु रुष्यति, कामिनीव्यवहारे व्यभिचार इति चेत् न, तस्य मोहनीयनिबन्धनत्वात् वस्तुस्थितिश्चेह चिन्त्यत इति / सुभगनाम यदुदयात्काम्यो भवति / तद्विपरीतं च दुर्भगनामेति / सुस्वरनाम यदुदयात्सोस्वयं भवति श्रोतुः प्रीतिहेतुः / तथा दुःस्वरं चैवेति सुस्वरनामोक्तविपरीतमिति // आइज्जमणाइज्जंजसकित्तीनाममजसकित्ती य। निम्माणनाममउंलं चरमं तित्थयरनामं च // 24 // [ आदेयमनादेयं यशःकीर्तिनाम अयश कीर्ति च / निर्माणनाम अतुलं चरमं तीर्थकरनाम च // 24 // ] आदेयनाम यदुदयादादेयो भवति यच्चेष्टते भाषते वा तत्सर्व लोकः प्रमाणीकरोति+ तद्विपरीतमनादेयं / यशः कीर्तिनाम यदुदयाद्यशःकीर्तिभावः यशःकीयोविशेषः दानपुण्यफला कीर्तिः पराक्रमकृतं यशः / अयश:कीर्तिनाम चोक्तविपरीतं / निर्माणनाम यदुदयात्सर्वजीवानां जातौ अङ्गोपाङ्गनिवेशो भवति जातिलिङ्गाकृतिव्यवस्थानियम इत्यन्ये अतुलं प्रधानं / चरमं प्रधानत्वात्सूत्रक्रमप्रामाण्याच्चेति तीर्थकरनाम + प्रमाणं करोति Page #25 -------------------------------------------------------------------------- ________________ [20] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / यदुदयात्सदेवमनुष्यासुरस्य जगतः पूज्यो . भवति / चः समुच्चये इति // गोयं च दुविहभेयं उच्चागोयं तहेव नीयं च / चरमं च पंचभेअं पन्नत्तं वीयरागेहि // 25 // [गोत्रं च द्विविधभेदमुच्चैर्गोत्रं तथैव नीचं च / चरमं च पञ्चभेदं प्रज्ञप्तं वीतरागैः // 25 // ] गोत्रं प्राइनिरूपितशब्दार्थ भवति द्विविधं द्विप्रकारं उच्चैगोत्रं तथैव नीचं चेति नीचैर्गोत्रं च / तत्रोच्चैर्गोत्रं यदुदयादज्ञानी विरूपोऽपि सत्कुलमात्रादेव पूज्यते / नीचे! तु यदुदयाज्ज्ञानादियुक्तोऽपि निंद्यते // चरमं च पर्यन्तवति च सूत्रक्रमप्रामाण्यात्पञ्चभेदं पञ्चप्रकारं प्रज्ञप्तं प्ररूपितं वीतरागैरहद्भिरिति // तं दाणलाभभोगोवभोगविरियंतराइयं जाण / चित्तं पोग्गलरूव विन्नेयं सव्वमेवेयं // 26 // [तदानलाभभोगोपभोगवीर्यान्तरायिकं जानीहि / चित्रं पुद्गलरूपं विज्ञेयं सर्वमेवेदम् // 26 // ] तदानलाभभोगोपभोगवीर्यान्तरायं जानीहि / तत्र दानातरायं यदुदयात्सति दातव्ये प्रतिग्राहके च.पात्रविशेषे दानफलं च जाननोत्सहते दातुं / लाभान्तरायं तु यदुदयात्सत्यपि Page #26 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [21] प्रसिद्धे दातरि तस्यापि लभ्यस्य भावे याञ्चाकुशलोऽपि न लभते / भोगान्तरायं तु यदुदयात्सति विभवे अन्तरेण विरतिपरिणामं न भुक्ते भोगान् / एवमुपभोगान्तरायमपि / नवरं भोगोपभोगयोरेवं विशेषः सद्भुज्यत इति भोगः आहारमाल्यादिः पुनः पुनरुपभुज्यत इत्युपभोगः भवनवलयादिः। उक्तं च सइ भुज्जइत्ति भोगो सो उण आहारफुल्लमाईसु / उपभोगो उ पुणो पुण उवभुज्जइ भुवणवलयाई // वीर्यान्तरायं तु यदुदयान्निरुजो वयस्थश्वाल्पवीर्यों भवति / चित्रं पुद्गलरूपं विज्ञेयं सर्वमेवेदं चित्रमनेकरूपं चित्रफलहेतुत्वात् , पुद्गलरूपं परमाण्वात्मकं न वासनादिरूपममूर्तमिति, विज्ञेयं ज्ञातव्यं भिन्नालम्बनं पुनः क्रियाभिधानमदुष्टमेव, सर्वेदं ज्ञानावरणादि कर्मेति // .. एयस्स एगपरिणामसंचियस्स उ ठिई समक्खाया। उक्कोसेयरभेया तमहं वुच्छं समासेणं // 27 // [ एतस्यैकपरिणामसंचितस्य तु स्थितिः समाख्याता / उत्कृष्टेतरभेदात्तामहं वक्ष्ये समासेन // 27 // ] . ' एतस्य चानन्तरोदितस्य कर्मणः एकपरिणामसंचितस्य तुशब्दस्य विशेषणार्थत्वात्प्रायः कलिष्टेकपरिणामोपात्तस्येत्यर्थः स्थितिः समाख्याता सांसारिकाशुभफलदातृत्वेनावस्थानं उक्त Page #27 -------------------------------------------------------------------------- ________________ [ 22 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / मागम इति गम्यते / उत्कृष्टेतरभेदादुत्कृष्टा जघन्या च समाख्यातेति भावः तां स्थितिमहं वक्ष्येऽहमित्यात्मनिर्देशे, वक्ष्येऽभिधास्ये, समासेन संक्षेपेण न तूत्तरप्रकृतिभेदस्थितिप्रतिपादनप्रपश्चनेति / आइल्लाणं तिन्हं चरमस्स य तीस कोडिकोडीओ। अयराण मोहणिज्जस्स सत्तरी होइ विनेया॥२८॥ [ आद्यानां त्रयाणां चरमस्य च त्रिंशत्कोटिकोट्यः / / अतराणां मोहनीयस्य सप्ततिर्भवति विज्ञेया // 28 // ] आद्यानां त्रयाणां ज्ञानावरणदर्शनावरणवेदनीयानां चरमस्य च सूत्रक्रमप्रामाण्यात्पर्यन्तवर्तिनोऽन्तरायस्येति त्रिंशत्सागरोपमकोटिकोटयः अतराणामिति सागरोपमानां मोहनीयस्य सप्ततिर्भवति विज्ञेया सागरोपमकोटिकोट्य इति // नामस्स य गोयस्स य वीसंउक्कोसिया ठिई भणिया। तित्तीससागराइं परमा आउस्स बोद्धव्वा // 29 // [ नाम्नः च गोत्रस्य च विंशतिरुत्कृष्टा स्थितिर्भणिता / त्रयस्त्रिंशत्सागराणि परमा आयुषो बोद्धव्या // 29 // ] नाम्नश्च गोत्रस्य च विंशतिः सागरोपमकोटिकोट्य इति गम्यते उत्कृष्टा स्थितिर्भणिता सर्वोत्तमा स्थितिः प्रतिपादिता Page #28 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [23] तीर्थकरगणधरैरिति / त्रयस्त्रिंशत्सागरोपमानि परमा प्रधानायुः कर्मणो बोद्धव्येति // अधुना जघन्यामाह / वेणिस्स य बारस नामग्गोयाण अट्ट उ मुहत्ता। सेसाण जहन्नठिई भिन्नमुहत्तं विणिहिट्ठा // 30 // [वेदनीयस्य च द्वादश नामगोत्रयोरष्ट मुहूर्ताः / शेषाणां जघन्या स्थितिभिन्नमुहूर्त विनिर्दिष्टा // 30 // ] वेदनीयस्य कर्मणो जघन्या स्थितिरिति योगः द्वादशमुहर्ता नामगोत्रकर्मणोरष्टौ मुहूर्ता इत्थं मुहर्तशब्दः प्रत्येकममिसंबध्यते / द्विघटिको मुहूर्तः। शेषाणां ज्ञानावरणादीनां जघन्या स्थितिभिन्नमुहर्त विनिर्दिष्टान्तर्मुहूर्त प्रतिपादितेति / प्रकृतयोजनायाहएवं ठिइयस्स जया घसणघोलणनिमित्तओ कहवि। खविया कोडाकोडी सव्वा इक्क पमुत्तणं // 31 // [एवं स्थितिकस्य यदा घर्षणघूर्णननिमित्ततः कथमपि / क्षपिताः कोटिकोट्यः सर्वा एका प्रमुच्य // 31 // ] एवं स्थितेरस्य कर्मणः यदा यस्मिन्काले घर्षणघूर्णननिमित्ततो नानायोनिषु चित्रसुखदुःखानुभवनेनेत्यर्थः कथमपि केनचित्प्रकारेण क्षपिताः प्रलयं नीताः कोटिकोट्यः सर्वा Page #29 -------------------------------------------------------------------------- ________________ [24] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ज्ञानावरणादिसंबन्धिन्यः एका विमुच्य विहायेति। तीइ वि य थोवमित्ते खविए इत्थंतरम्मि जीवस्स। हवइ हु अभिन्नपुब्वो गंठी एवं जिणा विति // 32 // [तस्या अपि च स्तोकमात्रे क्षपितेत्रान्तरे जीवस्य / भवति हु अभिन्नपूर्वो ग्रन्थिरेवं जिना ब्रुवते // 32 // ] तस्या अपि च सागरोपमकोटिकोट्याः स्तोकभात्रे पल्योपमोसङ्ख्ययभागे क्षपितेऽपनीते अत्रान्तरे ऽस्मिन्भागे जीवस्यात्मनः भवति अभिन्नपूर्वो हुशब्दस्यावधारणार्थत्वाद्वयवहितोपन्यासाच्चाभिन्नपूर्व एव ग्रन्थिखि ग्रन्थिदुःखेनोद्वेष्टयमानत्वादेवं जिना ब्रुवत एवं तीर्थकराः प्रतिपादयन्तीति / उक्तं च तत्समयज्ञैः। गंठित्ति सुदुब्भेओ कक्खडघणरूढगूढगठिव्व / जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो // 1 // इति।। भिन्न मि तंमि लाभो जायइ परमपयहेउणो नियमा। सम्मत्तस्स पुणो तं बंधेण न बोलइ कयाइ // 33 // [भिन्ने तस्मिन् लाभो जायते परमपदहेतोनियमात् / सम्यक्त्वस्य पुनस्तं बन्धेन न व्यवलीयते कदाचित् // 33 // ] . भिन्नेऽपूर्वकरणेन विदारिते तस्मिन् ग्रन्थावात्मनि लाभः प्राप्तिर्जायते संपद्यते परमपदहेतोर्मोक्षकारणस्य नियमानिय Page #30 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [25] मेनावश्यंभावंतयेत्यर्थः कस्य सम्यक्त्वस्य वक्ष्यमाणस्वरूपस्य / पुनस्तं ग्रन्थिमवाप्तसम्यग्दर्शनः सन् बन्धेन कर्मबन्धेन न व्यवलीयते नातिकामयति कदाचित्कस्मिंश्चित्काले न ह्यसावुत्कृष्टस्थितीनि कर्माणि बध्नाति तथाविधपरिणामाभावादिति // अत्राहतंजाविह संपत्ती न जुज्जए तस्स निग्गुणत्तणओ। बहुतरबंधाओ खलु सुत्तविरोहा जओ भणिय // 34 // [तं यावदिह संप्राप्तिन युज्यते तस्य निर्गुणत्वात् / बहुतरबन्धात्खलु सूत्रविरोधात् यतो भणितम् // 34 // ] तं ग्रान्थ यावदिह विचारे संप्राप्तिन युज्यते न घटते / कुतस्तस्य निर्गुणत्वात्तस्य जीवस्प सम्यग्यदर्शनादिगुणरहितत्वात् / निर्गुणस्य च बहुतरबन्धात् खलुशब्दोऽवधारणे बहुतरबन्धादेव / इत्थं चैतदङ्गीकर्तव्यं / सूत्रविरोधादन्यथा सूत्रविरोध इत्यर्थः / कथमिति / आह / यतो भणितं यस्मादुक्तमिति / किमुक्तमिति / आहपल्ले महइमहल्ले कुभं पक्खिवइ सोहए नालिं। अस्संजए अविरए वह बंधइ निज्जरे थोव // 65 // [पल्लेऽतिशयमहति कुम्भं प्रक्षिपति सोधयति नालिम् / असंयतोऽविरतो बहु बध्नाति निर्जरयति स्तोकं // 35 // ] Page #31 -------------------------------------------------------------------------- ________________ [26] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / पल्लवत्पल्यस्तस्मिन् पल्ये महति महल्ले अतिशयमहति कुम्भं लाटदेशप्रसिद्धमानरूपं धान्यस्येति गम्यते प्रक्षिपति स्थापयति सोधयति नालिं गृह्णाति सेतिकाम् / एष दृष्टान्तो ऽयमपिनयः। योऽसंयतः सकलसम्यक्त्वादिगुणस्थानेष्व. संयतत्वान्मिथ्यादृष्टिः परिगृह्यते अविरतः काकमांसादेरप्य. निवृत्तो बहु बनाति निर्जरयति स्तोकं स्तोकतरं क्षपयति निर्गुणत्वात् / गुणनिबन्धना हि विशिष्टनिर्जरेति // पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवे नालिं / जे संजए पमत्ते बहु निज्जरे बंधए थोव // 36 // [पल्लेऽतिशयमहति कुम्भं सोधयति. प्रक्षिपति नालिम् / यः संयतः प्रमत्तो बहु निर्जरयति बध्नाति स्तोकम् // 36 // ] पल्ले अतिशयमहति कुम्भं सोधयति प्रक्षिपति नालिं / एष दृष्टान्तोऽयमर्थोपनयः / य: संयतः सम्यग्दृष्टिरीपत्प्रमादवान् प्रमत्तसंयत एव नान्ये बहु निर्जरयति बध्नाति स्तोकं सगुणत्वादिति // पल्ले महइमहल्ले कुभं सोहेइ पक्खिवइ न किंचि। जे संजए अपमत्ते बह निज्जरे बंघइ न किंचि // 37 // [पल्लेऽतिशयमहति कुम्भं सोधयति प्रक्षिपति न किंचित् / यः संयतोऽप्रमत्तो बहु निर्जरयति बध्नाति न किंचित् 37] Page #32 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [27] पल्ले ऽतिशयमहति कुम्भं सोधयति प्रक्षिपति न किंचित् / एष दृष्टान्तो ऽयमपिनयः / यः संयतोऽप्रमत्तः प्रमादरहितः साधुरित्यर्थः बहु निर्जरयति बनाति न किंचिद्विशिष्टतरगुणत्वात् बन्धकारणाभोवादिति / गुरुराहएयमिह ओहविसयं भणियं सवे न एवमेवंति / अस्संजओ उ एवं पडुच्च ओसन्नभावं तु // 38 // [एतदिह ओषविषयं भणितं सर्वे न एवमेवेति / असंयतस्त्वेवं प्रतीत्य ओसन्नभावं तु // 38 // ] एतदिति पल्ले महइमहले इत्यादि इहास्मिन्विचारे ओघविषयं सामान्यविषयं भणितमुक्तं / सर्वे न एवमेवेति सर्वे नैवमेव बध्नन्ति अस्यैव विषयमुपदर्शयति / असंयतस्त्वेवं मिथ्यादृष्टिरेव एवं वनाति नान्य इति / असावपि प्रतीत्याङ्गीकृत्य ओसन्नभावं बाहुल्यभावं तुरवधारणे ओसन्नभावमेव न तु नियममिति / नियमे दोषमाह / / पावइ बंधाभावो उ अन्नहा पोग्गलाणभावाओ। इय वुढिगहणओते सब्वे जीवेहि जुज्जति॥३९॥ [प्रामोति बन्धाभावस्तु अन्यथा पुद्गलानामभावात् / इति वृद्धिग्रहणतः ते सर्वे जीवेयुज्यन्ते // 39 // ] प्राप्नोति आपद्यते बन्धाभावस्तु बन्धाभाव एवान्यथान्येन Page #33 -------------------------------------------------------------------------- ________________ [28] सटीकश्रावकप्राप्त्याख्यप्रकरणं / प्रकारेण सर्वे असंयता एवं बध्नन्तीत्येवंलक्षणेन / किमित्यत्रोपपत्तिमाह / पुद्गलानामभावाद् बध्यमानानां कर्मपुद्गलानामसंभवात् / तेषामेवाभावे उपपत्तिमाह / इति वृद्धिग्रहणतः एवमनन्तगुणरूपतया वृद्धिग्रहणेन ते कर्मपुद्गलाः सर्वे जीवयुज्यन्ते कालान्तरेण सर्वे जीवैः संबध्यन्ते प्रभूततरग्रहणादल्प. तरमोक्षाच्च / सहस्रमिव प्रतिदिवसं पश्चरूपकग्रहणे एकरूपकमोक्षे च दिवसत्रयान्तः पुरुषशतेनेति / आह चोदकःमोक्खोऽसंखिज्जाओ कालाओते अजं जिएहितो। भणिया गंतगुणा खलु न एस दोसो तओ जुत्तो॥ [ मोक्षोऽसङ्ख्येयाकालात् ते च अतो जीवेभ्यः / भणिता अनन्तगुणाः खलु नैष दोषः ततो युक्तः // 40 // ] मोक्षः परित्यागः असङ्ख्येयाकालादसङ्घयेयेन कालेन उत्कृष्टतस्तेषां कर्मपुद्गलानां / तत ऊवं कर्मस्थितेः प्रतिषिद्धत्वात् / ते च कर्माणवः यतो यस्माज्जीवेभ्यः सर्वेभ्य एव भणिताः प्रतिपादिता अनन्तगुणाः खलुशब्दस्यावधारणार्थत्वादनन्तगुणा एव / नैष दोषोऽनन्तरोदितो बन्धाभावप्राप्तिकाललक्षणः ततो युक्तो बहुतरबन्धः प्रभूततरग्रहणेऽल्पतरमोक्षे च सत्यपि तेषामनन्तत्वात् स्तोककालाच्च मोक्षादिति / न हि शीर्षप्रहेलिकान्तस्य राशेः प्रतिदिवसं पञ्चरूपकग्रहणे एकरूपकमोक्षे च सति वर्षशतेनापि पुरुषशतेन यागो भवति प्रभूतत्वात् / Page #34 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [29] एवं दार्टान्तिके भावनीयमिति / इत्थं चोदकेनोक्ते सति गुरुराहगहणमणंताण न कि जायइ समएणता कहमदोसो। आगम-संसाराओ न तहाणंताण गहणं तु // 41 // [ ग्रहणमनन्तानां न किं जायते समयेन तत्कथमदोषः / आगमसंसारान्न तथानन्तानां ग्रहणं तु // 41 // ] ग्रहणं कर्मपुद्गलानामादानमनन्तानामत्यन्तप्रभूतानां न किमिति गाथाभङ्गभयाद्वयत्ययः किं न जायते समयेन, जायत एवेत्यर्थः, समयः परमनिकृष्टः काल उच्यते / यतचैव तत्कथमदोषो दोष एव शीर्षग्रहेलिकान्तस्यापि राशेः प्रतिदिवसं शतभागमात्रमहाराशिहाणेऽल्पतरमोक्षे च वर्षशतादारत एव पुरुषशतेन योगोपपत्तेः, एवं दार्टान्तिकेऽपि भावना कार्या / स्यादेतदागमसंसारान्न तथानन्तानां ग्रहणं तु / आगमस्तावत् “जाव णं अयं जीवे एयइ वेयइ चलइ फंदइ ता वणं अट्टविहबन्ध एवा सत्तविहबंध एवा छविहबंध एवा एगविहबंध एवा" इत्यादि संसारस्तु प्रतिसमयबन्धकसचसंसृतिरूपःx प्रतीत एव / एवमागमात्संसाराच न तथानन्तानां ग्रहणमेव भवति यथावध्यमानकर्मपुद्लाभावाद्वन्धाभाव एवेति / एवं पराभिप्रायमाशङ्कयाहx प्रतिसमयबन्धकर्मत्वसंमृतिरूपः Page #35 -------------------------------------------------------------------------- ________________ [30] सटीकश्रावकज्ञप्त्याख्यप्रकरणं / आगम मुक्खाउ ण कि विसेसविसयत्तणेण सुत्तस्स / तं जाविह संपत्ती न घडइ तम्हा अदोसो उ॥४२॥ [आगममोक्षान्न किं विशेषविषयत्वेन सूत्रस्य / ' तं यावदिह संप्राप्तिन घटते तस्माददोषस्तु // 42 // ] आगममोक्षाकि न विशेषविपयत्वेन सूत्रस्य पल्ले इत्या. दिलक्षणस्य (35-37) तं ग्रन्थिं यावदिह विचारे संप्राप्तिन घटते / द्वौ प्रतिषेधौ प्रकृतमर्थं गमयत इति कृत्वा घटत एव / तस्माददोषस्तु यस्मादेवं तस्मादेष दोष एव न भवति य उक्तस्तं यावदिह संप्राप्तिन युज्यते (34) इत्यादि / अत्रागमस्तावत् " सम्मत्तंमि उ लद्धे " इत्यादि / मोक्षस्तु प्रकृष्टगुणानुष्ठानपूर्वकः प्रसिद्ध एव / अतो यथोक्तविशेष विषयमेव तत्सूत्रमिति इत्थं चैतदङ्गीकर्तव्यम् / अन्यथा तदधिकारोक्तमेव "पक्खिवे न किंचि" (37) इत्येतद्विरुध्यते / अप्रमत्तसंयतस्यापि बन्धकत्वात् / यथोक्तं "अपमत्तसंजयाणं बंधद्विती होइ अट्ठमुहुत्ता / उक्कोसा उ जहन्ना भिन्नमुहुत्तं नु विनेया // 1 // इत्यादि तस्मादोपविषयमेवैतदिति // अवसितमानुषङ्गिकम् / अधुना प्रकृतं सम्यक्त्वमाहसंमत्तं पि य तिविहं खओवसमियं तहोवसमियं च। खइयं च कारगाइ व पन्नत्तं वीयरागेहिं॥४३॥ Page #36 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [31] [ सम्यक्त्वमपि च त्रिविधं क्षायोपशमिकं तथौपशमिकम् / . क्षायिकं च कारकादि वा प्रज्ञप्तं वीतरागैः // 43 // ] सम्यकशब्दः प्रशंसार्थः अविरोधार्थों वा तद्भावः सम्यक्त्वं प्रशस्तः मोक्षाविरोधी वात्मधर्म इत्यर्थः / अपि तत्रिविधं एतच्चोपाधिभेदान्त्रिप्रकारं। अपिशब्दाच्छावकधर्मस्य प्रकृतत्वात्तच्चारित्रमप्योघतोऽणुव्रतगुणवतशिक्षापदभेदात्रिविधमेव / चशब्दः स्वगतानेकभेदसमुच्चयार्थः। उक्तं च"तं च पँचहा सम्मत्तं उवसमं सासायणं खओवसमं वेदयं खइयं"। त्रैविध्यमुपदर्शयति क्षायोपशमिकं तथौपशमिकं क्षायिकं च / कारकादि वा कारकं आदिशब्दाद्रोचकव्य अपरिग्रहः / एतच्च वक्ष्यत्येवेति न प्रतन्यते / इदं च प्रज्ञप्तं प्ररूपितं वीतरागैरर्हद्भिरिति // ___ सांप्रतं क्षायोपशमिकं सम्यक्त्वमभिधिनसुराहमिच्छत्तं जसुदिन्नं तं खीणं अणुइयं च उपसंतं। मीसीभावपरिणयं वेयिज्जंतं खओवसमं // 44 // [मिथ्यात्वं यदुदीण तत्क्षीणं अनुदितं चोपशान्तम् / मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् // 44 // ] मिथ्यात्वं नाम मिथ्यात्वमोहनीयं कर्म / तत् यदुदीर्ण यदुद्भुतशक्ति उदयावलिकायां व्यवस्थितमित्यर्थः तत्क्षीणं प्रलयमुपगतं अनुदितं च अनुदीर्ण चोपशान्तं / उपशान्तं Page #37 -------------------------------------------------------------------------- ________________ [32] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / नाम विष्कम्भितोदयमपनीतमिथ्यात्वस्वभावं च विष्कम्भितोदयं शेषमिथ्यात्वमपनीतमिथ्यात्वस्वभावं मदनकोद्रवोदाहरणत्रिपुजिन्यायशोधितं सम्यक्त्वमेव // आहेह विष्कम्भितोदयस्य मिथ्यात्वस्यानुदीर्णता युक्ता, न पुनः सम्यक्त्वस्य, विपाकेन वेदनात् / उच्यते। सत्यमेतत् , किं त्वपनीतमिथ्यात्वस्वभावत्वात्स्वरूपेणानुदयात्तस्याप्यनुदीर्णोपचार इति // यद्वानुदी. र्णत्वं मिथ्यात्वस्यैव युज्यते न तु सम्यक्त्वस्य / कथं / मिथ्यात्वं यदुदीर्णं तत् क्षीणं अनुदीर्णमुपशान्तं चेति / चशब्दस्य व्यवहितप्रयोगः / ततश्चानुदीर्ण. मिथ्यात्वमुपशान्तं च सम्यक्त्वं परिगृह्यते / भावार्थः पूर्ववत् / तदेवं मिश्रीभावपरिणतं क्षयोपशमस्वभावमापन्नं वेद्यमानमनुभूयमानं मिथ्यात्वं प्रदेशानुभवेन सम्यक्त्वं विपाकेन क्षयोपशमाम्यां निवृत्तमिति कृत्वा क्षायोपशमिकं सम्यक्त्वमुच्यते / आहेदं सम्यक्त्वमौदयिको भावः मोहनीयोदयभेदत्वात् अतोऽयुक्त मस्य क्षायोपशमिकत्वं, न अभिप्रायापरिज्ञानात्सम्यक्त्वं हि सांसिद्धिकमात्मपरिणामरूपं ज्ञानवत् न तु क्रोधादिवत् कर्माणुसंपर्कजं तथाहि तावति मिथ्यात्वधनपटले क्षीणे तथानुभवतोऽपि स्वच्छाभ्रकल्पान् सम्यक्त्वपरमाणून् तथाविधसवितृप्रकाशवत् सहज एवासौ तत्परिणाम इति क्षायोपशमनिष्पनश्चायं तमन्तरेणाभावात् न घुदीर्णक्षयादनुदीर्णोपशमव्यतिरेकेणास्य भावः क्रोधादिपरिणामः पुनरुपधानसामर्थ्यापादित Page #38 -------------------------------------------------------------------------- ________________ सटीकाधकप्रज्ञप्त्याख्यप्रकरणं / [33] स्फटिकमणिरक्ततावदसहज इति / आह यदि परिणामः सम्यक्वं ततो मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकमित्येतद्विरुध्यते मोहनीयभेदयोरेव मिश्रीभावपरिणतयोर्वेद्यमानत्वात् , न विरुध्यते तथाविधपरिणामहेतुत्वेन तयोरेव सम्यक्त्वोपचारात् / कृतं विस्तरेणेति / क्षायोपशमिकानन्तरमौपशमिकमाहउवसमगसेढिगयस्स होइ उवसामियं तु सम्मत्तं / जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं॥ [ उपशमकश्रेणिगतस्य भवत्यौपशमिकं तु सम्यक्त्वम् / यो वा अकृतत्रिपुञोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् ] उपशमकश्रेणिगतस्य औपशमिकी श्रेणिमनुप्रविष्टस्य भवत्यौपशमिकमेव सम्यक्त्वं तुरवधारणे अनन्तानुबन्धिनां दर्शनमोहनीयम्य चोपशमेन निवृत्तमिति कृत्वा औपशमिकं / यो वा अकृतत्रिपुञ्जस्तथाविधपरिणामोपेतत्वात्सम्यङ्गिथ्यात्वोभयानिवर्तितत्रिपुञ्ज एव अक्षपितमिथ्यात्वोऽक्षीणमिथ्यात्वदर्शनः क्षायिकव्यवच्छेदार्थमेतत् लभते प्रामोति सम्यक्त्वं तदप्यौपशमिकमेवेति / अमुमेवार्थ स्पष्टयन्नाहखीणमि उइन्न मि अ अणुइज्जते अ सेसमिच्छत्ते / अंतोमुहुत्तमित्तं उवसमसम्मं लहइ जीवो // 46 // Page #39 -------------------------------------------------------------------------- ________________ [34] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [क्षीणे उदीर्णे ऽनुदीर्यमाणे च शेषमिथ्यात्वे / / अन्तर्मुहूर्तमानं औपशमिकं सम्यक्त्वं लभते जीवः 46] क्षीण एवोदीर्णे अनुभवेनैव भुक्त इत्यर्थः अनुदीर्यमाणे च मन्दपरिणामतयो उदयमगच्छति सति कस्मिन् शेषमिथ्यात्वे विष्कम्भितोदय इत्यर्थः अन्तर्मुहूर्तमानं कालं तत ऊर्ध्व नियामकाभावेन नियमेन मिथ्यात्वप्राप्तेरेतावन्तमेव कालमिति किं औपशमिकं सम्यक्त्वं लभते जीव इति // इदमेव दृष्टान्तेन स्पष्टतरमभिधित्सुराहऊसरदेसं दढिल्लयं व विज्झाइ वणदवो पप्प / इय मिच्छस्साणुदए उवसमसम्म लहइ जीवो 47 [ ऊपरदेशं दग्धं वा विध्यायति वनदवः प्राप्य / इय मिथ्यात्वस्यानुदये औपशमिकं सम्यक्त्वं लभते जीवः] __ऊपरदेशं ऊपरविभागं ऊपरं नाम यत्र तृणादेरसंभवः दग्धं वा पूर्वमेवाग्निना विध्यायति वनदवो दावानलः प्राप्य / कुतस्तत्र दाह्याभावात् / एष दृष्टान्तोऽयमर्थोपनयः इय एवं तथाविधपरिणामान्मिथ्यात्वस्यानुदये सति औपशमिकं सम्यक्त्वं लभते जीव इति / वनदवकल्पं ह्यत्र मिथ्यात्वं ऊपरादिदेशस्थानीयं तथाविधपरिणामकण्डकमिति॥आह क्षायोपशमिकादस्य को विशेष इति / उच्यते / तत्रोपशान्तस्यापि मिथ्यात्वस्य प्रदेशानुभवोऽस्ति न त्वौपशमिके। अन्ये तु Page #40 -------------------------------------------------------------------------- ________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [35] व्याचक्षते / श्रेणिमध्यवर्तिन्येवोपशमिके प्रदेशानुभवो नास्ति न तु द्वितीये तथापि तत्र सम्यक्त्वाण्वनुभवाभाव एव विशेष इति / __ औपशमिकानन्तरं क्षायिकमाहखीणे दंसणमोहे तिविहंमि वि भवनियाणभूयंमि / निप्पच्चवायमउलं सम्मत्तं खाइयं होइ // 48 // [क्षीणे दर्शनमोहनीये त्रिविधेऽपि भवनिदानभूते / निःप्रत्यपायमतुलं सम्यक्त्वं क्षायिकं भवति // 48 // ] क्षपकश्रेणिमनुप्रविष्टस्य सतः क्षीणे दर्शनमोहनीये एकान्तेनैव प्रलयमुपगते त्रिविधेऽपि मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वभेदभिन्ने कि विशिष्टे भवनिदानभूते भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः संसारस्तत्कारणभूते निःप्रत्यपायं अतिचारापायरहितं अतुलमनन्यसदृशं आसन्नतया मोक्षकारणत्वात् सम्यक्त्वं प्रानिरूपितशब्दार्थ क्षायिकं भवति मिथ्यात्वक्षयनिबन्धनत्वात् इति / क्षायिकानन्तरं कारकाद्याहजंजह भणियंतं तह करेइ सइ जंमि कारगंतंतु। रोयगसम्मत्तं पुण रुइमित्तकरं मुणेयव्वं // 49 // * निर्कर्तनत्वानिकर्त्तत्वात् / Page #41 -------------------------------------------------------------------------- ________________ [36] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ यद्यथा भणितं तत्तथा करोति सति यस्मिन् कारकं तत्त / रोचकसम्यक्त्वं पुनः रुचिमात्रकरं मुणितव्यं // 49 // ] यद्यथा भणितं सूत्रेऽनुष्ठानं तत्तथा करोति सति यस्मिन्सम्यग्दर्शने परमशुद्धिरूपे कारकं तत्तु / कारयतीति कारकं // रोचकसम्यक्त्वं पुनः रुचिमोत्रकरं मुणितव्यं विहितानुष्ठाने तथाविधशुद्धथभावात् , रोचयतीति रोचकम् // सयमिह मिच्छदिट्ठी धम्मकहाईहि दीवइ परस्स। सम्मत्तमिणं दीवग कारणफलभावओ नेयं // 50 // [स्वयमिह मिथ्यादृष्टिः धर्मकथादिभिर्दीपयति परस्य / सम्यक्त्वमिदं दीपकं कारणफलभावतो ज्ञेयं // 50 // ] स्वयमिह मिथ्यादृष्टिरभव्यो भव्यो वा कश्चिदङ्गारमर्दकवत् / अथ च धर्मकथादिभिधर्मकथया मातृस्थानानुष्ठानेनातिशयेन वा केनचिद्दीपयतीति प्रकाशयति परस्य श्रोतुः सम्यक्त्वमिदं व्याकम् / आह मिथ्यादृष्टेः सम्यक्त्वमिति विरोधः सत्यं किन्तु कारणफलभावतो ज्ञेयं तस्य हि मिथ्यादृष्टेरपि यः परिणामः स खलु प्रतिपत्तृसम्यक्त्वस्य कारणभावं प्रतिपद्यते तद्भावभावित्वात्तस्य, अतः कारणे . एव कार्योपचारात्सम्यक्त्वाविरोध: यथायुघृतमिति / / समस्तस्यैव भावार्थमुपदर्शयति Page #42 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 37] तविहखओवसमओ तेसिमणणं अभावओ चेव। एवं विचित्तरूवं सनिबन्धणमो मुणेयब्वं // 51 // [तद्विधक्षयोपशमतस्तेषामणूनां अभावतश्चैव / एवं विचित्ररूपं सनिबन्धनमेव मुणितव्यं // 51 // ] तद्विधक्षयोपशमतस्तेषामणूनां मिथ्यात्वाणूनामित्यर्थः अभावतश्चैव तेषामेवेति वर्तते एवं विचित्ररूपं क्षायोपशमिकादिभेदेनेति भावः / सनिवन्धनमेव सकारणं मुणितव्यं / तथाहि त एव मिथ्यात्वपरमाणवस्तथाविधात्मपरिणामेन क्वचितथा शुद्धिमापद्यते यथा क्षायोपशमिकं सम्यक्त्वं भवति तत्रापि क्वचित्सातिचारं कालापेक्षया क्वचिनिरतिचारं, अपरे तथा यथौपशमिकं, क्षयादेव क्षायिकमिति // ___ अपरेऽप्यस्य भेदाः संभवन्तीति कृत्वा तानपि सूचयन्नाह // कि चेहुवाहिभेया दसहावीमं परूवियं समए / आहेण तंपिमेसि भेयाणमभिन्नरूवं तु // 52 // [किं चेहोपाधिभेदात् दशधापीदं प्ररूपितं समये / ओघेन तदपि अमीषां भेदानामभिन्नरूपं तु // 52 // ] किं चेहोपाधिभेदादाज्ञादिविशेषणभेदादित्यर्थः दशधापीदं दशप्रकारमप्येतत्सम्यक्त्वं प्ररूपितं समये आगमे / यथोक्तं प्रज्ञापनायां Page #43 -------------------------------------------------------------------------- ________________ [38] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / निसग्गुवएसरुई आणरुई सुत्तबीयरुइमेव / अभिगमवित्थाररुई किरियासंखेवधम्मरुई // 1 // आह तदेवेह कस्मान्नोक्तमिति उच्यते ओधेन सामान्येन तदपि दशप्रकारममीषां भेदानां क्षायोपशमिकादीनामभिन्नरूपमेव एतेषामेव केनचिद्भेदेन भेदात् / संक्षेपारम्भश्चायं अतो न तेषामभिधानमिति // इदं च सम्यक्त्वमात्मपरिणामरूपत्वाच्छद्मस्थेन दुर्लक्ष्यमिति लक्षणमाहतं उवसमसंवेगाइएहि लक्खिज्जई उवाएहिं। आयपरिणामरूव बज्झेहिं पसत्थजोगेहिं // 53 // [ तदुपशमसंवेगादिकैलक्ष्यते उपायैः। आत्मपरिणामरूपं बायैः प्रशस्तयोगैः // 53 // ] तत्सम्यक्त्वमुपशमसंवेगादिभिरिति उपशान्तिरुपशमः संवेगो मोक्षाभिलाषः आदिशब्दान्निर्वेदानुकम्पास्तिक्यपरिग्रहः लक्ष्यते चिहन्यते एभिरुपशमादिभिर्वायैः प्रशस्तयोगैरिति संबन्धः बाद्यवस्तुविषयत्वाबाह्याः प्रशस्तयोगाः शोभनव्यापारास्तैः किं विशिष्टं तत्सम्यक्त्वं आत्मपरिणामरूपं जीवधर्मरूपमिति // तथा चाहइत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ कि मलकलंकमुक्ककणगं भुवि +सामलं होइ 54 + ञामलं. Page #44 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [39] [अत्र च परिणामः खलु जीवस्य शुभ एव भवति विज्ञेयः / - किं मलकलङ्कमुक्तं कनकं भुवि ध्यामलं भवति // 54 // ] अत्र च सम्यक्त्वे सति किं, परिणामोऽध्यवसायः खलुशब्दोऽवधारणार्थः जीवस्य शुभ एव भवति विज्ञेयो न त्वशुभः अथवा किमत्र चित्रमिति / प्रतिवस्तूपमामाह। किं मलकलङ्करहितं कनकं भुवि ध्यामलं भवति न भवतीत्यर्थः। एवमत्रापि मलकलंकस्थानीयं प्रभूतं कलिष्टं कर्म ध्यामलत्वतुल्यस्त्वशुभपरिणामः स प्रभूते कलिष्टे कर्मणि क्षीणे जीवस्य न भवति // प्रशमादीनामेव बाह्ययोगत्वमुपदर्शयन्नाहपयईइ व कम्माणं वियाणिउं वा विवागमसुहं ति। अवरद्ध वि न कुप्पइ उवसमओ सव्वकालं पि / 55) [प्रकृत्या वा कर्मणां विज्ञाय वा विपाकमशुभमिति / अपराद्धयेऽपि न कुप्यति उपशमतःसर्वकालमपि // 55 // ] प्रकृत्या वा सम्यक्त्वाणुवेदकजीवस्वभावेन वा कर्मणां कषायनिबन्धनानां विज्ञाय वा विपाकमशुभमिति / तथाहि कषायाविष्टोऽन्तमुहूर्तेन यत्कर्म बन्नाति तदनेकाभिः सागरोपमकोटाकोटिभिरपि दुःखेन वेदयतीत्यशुभो विपाकः / एतत् ज्ञात्वा किं / अपराद्धयेऽपि न कुप्यति अपराध्यत इति अप Page #45 -------------------------------------------------------------------------- ________________ [40] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / राद्धयः प्रतिकूलकारी तस्मिन्नपि कोपं न गच्छत्युपशमतः उपशमेन हेतुना सर्वकालमपि यावत्सम्यक्त्वपरिणाम इति // तथा नरविबुहेसरसुक्खंदुक्खं चिय भावओ य मन्नतो। संवेगओ न मुक्खं मुत्तणं किचि पत्थेइ // 56 // [ नरविबुधेश्वरसौख्यं दुःखमेव भावतः च मन्यमानः / संवेगतः न मोक्षं मुक्त्वा किंचित् प्रार्थयते // 56 // ] नरविबुधेश्वरसौख्यं चक्रवर्तीन्द्रसौख्यमित्यर्थः अस्वाभाविकत्वात् कर्मजनितत्वात्सावसानत्वाच्च दुःखमेव भावतः परमार्थतो मन्यमानः संवेगतः संवेगेन हेतुना न मोक्षं स्वाभाविकजीवरूपमकर्मजमपर्यवसानं मुक्त्वा किंचित्प्रार्थयतेऽभिलषतीति / नारयतिरियनरामरभवेसु निव्वेयओवसइ दुक्खं। अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि 57 [ नारकतिर्यङ्नरामरभवेषु निर्वेदतो वसति दुःखम् / अकृतपरलोकमार्गः ममत्वविषवेगरहितोऽपि // 57 // ] नारकतियङ्गरामरभवेषु सर्वेष्वेव निर्वेदतो निदेन कारणेन वसति दुःखं / किविशिष्टः सन् अकृतपरलोकमार्गः अकृतसदनुष्ठान इत्यर्थः / अयं हि जीवलोके परलोकानुष्ठान मन्तरेण सर्वमेवासारं मन्यते इति / ममत्व विषवेगरहितोऽपि तथा ह्ययं प्रकृत्या निर्ममत्व एव भवति विदिततत्त्वत्वादिति / तथा Page #46 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [41 ] दट्ठण पाणिनिवहं भीमे भवसागरंमि दुक्खत्तं / अविसेसओ णुकंपं दुहावि सामत्थओ कुणइ 58 [ दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तम् / अविशेषतः अनुकम्पां द्विधापि सामर्थ्यतः करोति 58 ] __ दृष्ट्वा प्राणिनिवहं जीवसंघातं व भीमे भयानके भवसागरे संसारसमुद्रे दुःखात शारीरमानसैदुःखैरभिभूतमित्यर्थः अविशेषतः सामान्येनात्मीयेतरविचाराभावेनेत्यर्थः / अनुकम्पां दयां द्विधापि द्रव्यतो भावतश्च द्रव्यतः प्राशुकपिण्डादिदानेन भावतो मार्गयोजनयां सामर्थ्यतः स्वशक्त्यनुरूपं करोतीति // मन्नइ तमेव सच्च निस्संकं जं जिणेहिं पन्नत्तं / सुहपरिणामो सव्व कंखाइविसुत्तियारहिओ 59 [ मन्यते तदेव सत्यं निःशङ्क यज्जिनैः प्रज्ञप्तम् / शुभपरिणामः सर्व कांक्षादिविश्रोतसिकारहितः 59] मन्यते प्रतिपद्यते तदेव सत्यं निःशङ्क शङ्कारहितं यज्जिनः प्रज्ञप्तं यत्तीर्थकरैः प्रतिपादितं शुभपरिणामः सन् साकल्येनानन्तरोदितसमस्तगुणान्वितः। सर्व समस्तं मन्यते न तु किंचिन्मन्यते किंचिन्नति भगवत्यविश्वासायोगात् / पुनरपि स एव विशिष्यते। किंविशिष्टः सन् / कांक्षादिविश्रोतसिकारहितः कांक्षा अन्योन्यदर्शनग्राह इत्युच्यते आदिशब्दा Page #47 -------------------------------------------------------------------------- ________________ [ 42] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / द्विचिकित्सापरिग्रहः विश्रोतसिका तु संयमशस्यमङ्गीकृत्याध्यवसायसलिलस्य विश्रोतो गमनमिति, उपसंहरनाह // एवंविहपरिणामो सम्मदिट्ठी जिणेहि पन्नत्तो। एसो य भवसमुद्दलंघइ थोवेण कालेण // 6 // [ एवंविधपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः / एष च भवसमुद्रं लङ्घयति स्तोकेन कालेन // 60 // ] एवंविधपरिणाम इत्यनन्तरोदितप्रशमादिपरिणामः सम्यग्दृष्टिजिनः प्रज्ञप्त इति प्रकटार्थः अस्यैव फलमाह / एष च भवसमुद्रं लंघयति अतिक्रामति स्तोकेन कालेन / प्राप्तवीजत्वादुत्कृष्टतोऽप्युपार्धपुद्गलपरावर्तान्तः सिद्धिप्राप्तेरिति / एवंविधमेव सम्यक्त्वं इत्येतत्प्रतिपादयन्नाहजं मोणं तं सम्मं जं सम्मं तमिह होइ मोणं ति / निच्छयओ इयरस्स उ सम्म सम्मत्तहेऊ वि॥६१॥ [ यन्मौनं तत्सम्यक् यत्सम्यक् तदिह भवति मौनमिति / निश्चयतः इतरस्य तु सम्यक्त्वं सम्यक्त्वहेतुरपि // 61 // ] मन्यते जगतस्त्रिकालावस्थामिति मुनिः तपस्वी तद्भावो मौनं अविकलं मुनिवृत्तमित्यर्थः। यन्मौनं तत्सम्यक सम्यक्त्वं यत्सम्यक् सम्यक्त्वं तदिह भवति मौनमिति। उक्तं चाचाराङ्गे Page #48 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 43 ] जं मोणंति पासहा ते सम्मति पासहा / . जं सम्मति पासहा तं मोणंति पासहा // इत्यादि निश्चयतः परमार्थन निश्चयनयमतेनैव एतदेवमिति / जो जहवायं न कुणइ मिच्छद्दिट्टी तभो हु को अन्नो। वड्ढेइ य मिच्छत्तं परस्स संकं जणेमाणो // इत्यादि वचनप्रामाण्यात् / इतरस्य तु व्यवहारनयस्य सम्यक्त्वं सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादि कारणे कार्योपचारात् / एतदपि शुद्धचेतसां पारम्पर्येणापवर्गहेतुरिति / उक्तं च जइ मिणमयं पवज्जह ता मा ववहारनिच्छए मुयह / ववहारनयउच्छेए तित्थुच्छेओ जओऽवस्सं // इत्यादीनि वाचकमुख्येनोक्तं " तत्वार्थश्रद्धानं सम्यगदर्शन" (तत्त्वार्थाधिगमसूत्रम् 1-2) / तदपि प्रशमादिलिङ्गमेवेति दर्शयन्नाहतत्तत्थसदहाणं सम्मत्तं तंमि पसममाईया। पढमकसाओवसमादविक्खया हुँति नियमेण / 62 / [ तत्वार्थश्रद्धानं सम्यक्त्वं तस्मिन्प्रशमादयः / प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियमेन // 6 // ] तत्त्वार्थश्रद्धानं सम्यक्त्वं / तस्मिन्प्रशमादयोऽनन्तरोदिताः प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियमेन / अयमत्र भावार्थः / Page #49 -------------------------------------------------------------------------- ________________ [44] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं न ह्यनन्तानुबन्धिक्षयोपशमादिमन्तरेण तत्वार्थश्रद्धानं भवति / सति च तत्क्षयोपशमे तदुदयवद्भ्यः सकाशादपेक्षयास्य प्रशमादयो विद्यन्त एवेति तत्वार्थश्रद्धानं सम्यक्त्वमित्युक्तं / .. के एते तत्वार्था इत्येतदभिधित्सयाह / जीवाजीवासवबंधसंवरा निज्जरा य मुक्खो य। तत्तत्था इत्थं पुण दुविहा जीवा समक्खाया॥६३॥ [ जीवाजीवास्रवबन्धसंवरा निर्जरा च मोक्षश्च। तत्वार्था अत्र पुनः द्विविधा जीवाः समाख्याताः॥६३॥] जीवाजीवास्रवबन्धसंबरा निर्जरा च मोक्षश्च तत्वार्था इति / एषां स्वरूपं वक्ष्यत्येव / असमासकरणं गाथाभंगभयार्थ निर्जरामोक्षयोः फलत्वेन प्राधान्यख्यापनार्थ चेति / अत्र पुनस्तत्वार्थचिन्तायां द्विविधा जीवाः समाख्यातास्तीर्थकरगणधरैरिति / द्वैविध्यमाहसंसारिणो य मुत्ता संसारी छविहा समासेण / पुढवीकाइअमादि तसकायंता पुढोभेया // 64 // [ संसारिणः च मुक्ताः संसारिणः षडूविधाः समासेन / पृथिवीकायिकादयस्त्रसकायान्ताः पृथग्भेदाः // 64 // ] चशब्दस्य व्यवहित उपन्यासः / संसारिणो मुक्ताश्चेति / Page #50 -------------------------------------------------------------------------- ________________ [45 सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तत्र संसारिणः षविधाः षट्प्रकाराः समासेन जातिसंक्षेपेणेति भावः / षड्विधत्वमेवाह / पृथिवीकायिकादयस्त्रसकायान्ताः / यथोक्तं "पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया" पृथग्भेदा इति स्वातन्व्येण पृथग्भिन्नस्वरूपाः न तु परमपुरुषविकारा इति // संसारिण एव प्रतिपादयन्द्वारगाथामाहभव्वाहारगपज्जत्तसुक्कसोवकमाउया चेव / सप्पडिपक्खा एए भणिया कम्मट्टमहणेहिं // 65 // [ भव्याहारकपर्याप्तशुक्लसोपक्रमायुषश्चैव / सप्रतिपक्षा एते भणिता अष्टकर्ममथनैः // 65 / / ] भव्या आहारकाः पर्याप्ताः शुक्ला इति शुक्लपाक्षिकाः सोपक्रमायुपश्चैव सप्रतिपक्षा एते भणिताः / तद्यथा / भव्याश्रामव्याश्चाहारकाश्चेत्यादि / कैर्भणिता इत्याह / अष्टकर्ममथनः तीर्थकरैरिति गाथाक्षरार्थः॥ भावार्थं तु स्वयमेव वक्ष्यति / तत्राद्यद्वारमाह भव्वा जिणेहि भणियाइहखलुजेसिद्धिगमणजोगाउ ते पुण अणाइपरिणामभावओ हुति नायव्वा 66 Page #51 -------------------------------------------------------------------------- ________________ [46 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ भव्या जिनैणितो इह खलु ये सिद्धिगमनयोग्यास्तु / ते पुनरनादिपरिणामभावतो भवन्ति ज्ञातव्याः // 66 // ] भव्या जिनर्भणिता इह खलु ये सिद्धिगमनयोग्यास्तु / इह लोके य एव सिद्धिगमनयोग्याः खलुशब्दस्यावधारणार्थत्वात् तुशब्दोऽप्येवकारार्थः योग्या एव / न तु सर्वे सिद्धिगामिन एव / यथोक्तं " भन्वा वि न सिज्जिस्सन्ति केइ" इत्यादि / भव्यत्वे निबन्धनमाह / ते पुनरनादिपरिणामभावतो भवन्ति ज्ञातव्याः। अनादिपारिणामिकभव्यभावयोगा द्भव्या इति // विवरिया उ अभव्वा न कयाइ भवन्नवस्स ते पारं। गच्छिसु जति व तहा तत्त चिंय भावओ नवरं। [विपरीतास्त्वभव्या न कदाचिद्भवार्णवस्य ते पारं। गतवन्तो यान्ति वा तथा तत एव भावात् नवरं // 67 // ] विपरीतास्त्वभव्याः / तदेव विपरीतत्वमाह / न कदाचिद्भवार्णवस्य संसारसमुद्रस्य ते पारं पर्यन्तं गतवन्तो यान्ति वा वाशब्दस्य विकल्पार्थत्वात् यास्यन्ति वा / तथेति कुतो निमित्तादिति आह / तत एव भावात् तस्मादेव अनादिपारिणामिकादभव्यत्वभावादिति भावः / नवरमिति साभिप्रायकं अभिप्रायश्च नवरमेतावता वैपरीत्यमिति / भव्यद्वारानन्तरमाहारकद्वारमाह Page #52 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [47 ] विग्गहगइमावन्ना केवलिणो समुहया अजोगी य / सिद्धा य अणाहारा सेसा आहारगा जीवा // 6 // [विग्रहगतिमापन्नाः केवलिनः समवहता अयोगिनश्च / सिद्धाश्चानाहारकाः शेषा आहारका जीवाः // 6 // ] विग्रहगतिमापन्ना अपान्तरालगतिवृत्तय इत्यर्थः। केवलिनः समवहताः समुद्घातं गताः। अयोगिनश्च केवलिन एव शैलेश्यवस्थायामिति / सिद्धाश्च मुक्तिभाजः। एतेऽनाहारका ओजाद्याहाराणामन्यतमेनाप्यमी नाहारयन्तीत्यर्थः / शेषा उक्तविलक्षणा आहारका जीवा ओजलोमप्रक्षेपाहाराणां यथासंभवं येन केनचिदाहारेणेति / तेऽपि यावन्तं कालमनाहारकाः तांस्तथाभिधातुकाम आहएगाइ तिनिसमया तिन्नेवऽन्तोमुत्तमित्तं च / साई अपज्जवसियं कालमणाहारगा कमसो॥६९॥ [ एकाद्यांस्त्रीन्समयान् त्रीनेव अन्तर्मुहूर्तमानं च। साद्यपर्यवसितं कालमनाहारकाः क्रमशः // 69 // ] एकाद्यांस्त्रीन्समयान् विग्रहगतिमापना अनाहारकाः / उक्तं च "एकं द्वौ वानाहारकः" इति (तत्त्वार्थाधिगमः सूत्रं 2-31) वाशब्दात्रिसमयग्रहः / त्रीनेव समयाननाहा रकाः समुद्घाते केवलिनः / यथोक्तम् Page #53 -------------------------------------------------------------------------- ________________ [ 48 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / कार्मणशरीरयोगी चतुर्थक पञ्चमे तृतीये च / समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् // 1 // (प्रशमरति 275-276) अन्तर्मुहूतं चानाहारका अयोगिकेवलिनः तत ऊर्ध्वमयोगिकेवलित्वाभावादपवर्गप्राप्तेः। साद्यपर्यवसितं कालमनाहारकाः सिद्धा व्यक्त्यपेक्षया तेषां सादित्वादपर्यवसितत्वाच्च / अत एवाह क्रमश एवंभूतेनैव क्रमेणेति गाथार्थः / व्याख्यातमाहारकद्वारं सांप्रतं पर्याप्तकद्वारमाह / नारयदेवा तिरिमणुय गब्भया जे असंखवासाऊ। एए य अपज्जत्ता उववाए चेव बोद्धव्वा // 7 // [ नारकदेवाः तिर्यङ्मनुष्या गर्भजा येऽसंख्येयवर्षायुषः / एते चापर्याप्ता उपपात एव बोद्धव्याः // 70 // ] नारकाश्च देवाश्च नारकदेवास्तथा तिर्यमनुष्याः तिर्यश्वश्च मनुष्याश्चेति विग्रहः गर्भजा गर्भव्युत्क्रान्तिकाः, संमूर्च्छिमव्यवच्छेदार्थमेतत् / ते च सङ्खयेयवर्षायुषोऽपि भवन्ति तद्व्यवच्छेदार्थमाह / येऽसङ्ख्येयवर्षायुष इति / एते चापर्याप्ता आहारशरीरेन्द्रियप्राणापानभाषामनःपर्याप्तिभी रहिता -उपपात एव उत्पद्यमानावस्थायामेव बोद्धव्या विज्ञेया न तूत्तरकालं पर्याप्ता लन्धितोऽपीति / Page #54 -------------------------------------------------------------------------- ________________ सटीकधीवकप्रज्ञप्त्याख्यप्रकरणं / [19] सेसा उ तिरियमणया लद्धिं पप्पोववायकाले य / उभओ वि अ भइअव्वा पज्जत्तियरेत्तिजिणवयणं॥ [ शेषास्तु तिर्यङ्मनुष्या लब्धि प्राप्योपपातकाले च / उभयतोऽपि भाज्याः पर्याप्तेतरे इति जिनवचनम् // 71 // ] शेषास्तु तिर्यङ्मनुष्याः संमूर्छनजाः सङ्खथेयवर्षायुषश्च गर्भजाः / किं लब्धि प्राप्य पर्याप्तकलब्धिमधिकृत्य उपपातकाले चोत्पद्यमानावस्थायां च / किं / उभयतोऽपि भाज्या विकल्पनीयाः पर्याप्तका इतरे वापर्याप्तकाः। एतदुक्तं भवति / लब्धितोऽपि पर्याप्ता अपर्याप्तका अपि भवन्ति / उपपातावस्थायां त्वपर्याप्तका एव / इति जिनवचनं इत्येष आगम इति / ___ व्याख्यातं पर्याप्तकद्वारं तदनन्तरं शुकलपाक्षिकद्वारमाहजेसिमवड्ढोपुग्गलपरियट्टो सेसओ उ संसारो। ते सुक्कपक्खिआ खलु अहिए पुण किन्हपक्खिया॥ [ येषामपार्धपुद्गलपरावर्त एव शेषः संसारः / ते शुक्लपाक्षिकाः खलु अधिक पुनः कृष्णपाक्षिकाः // 72 // ] येषामपापुद्गलपरावर्त एव शेषः संसारस्तत ऊर्च सेत्स्यन्ति ते शुक्लपाक्षिकाः क्षीणप्रायसंसाराः खलुशब्दो Page #55 -------------------------------------------------------------------------- ________________ [5] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / विशेषणार्थः प्राप्तदर्शना वा अप्राप्तदर्शना वा. सन्तीति विशेषयति / अधिके पुनरुपापुद्गलपरावर्ते संसारे कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः / पुद्गलपरावतों नाम त्रैलोक्यगतपुद्गलानामौदारिकादिप्रकारेण ग्रहणं / उपार्धपुद्गलपरावर्तस्तु किंचिन्यूनोऽर्धपुद्गलपरावर्त इति। - एतद्द्वारोपयोग्ये च वक्तव्यताशेषमाहपायमिह कूरकम्मा भवसिद्धिया वि दाहिणिल्लेसु / नेरइयतिरियमणुया सुरा य ठाणेसु गच्छंति / 73 / [प्राय इह क्रूरकर्माणः भवसिद्धिका अपि दक्षिणेषु / नारकतिर्यङ्मनुष्याः सुराश्च स्थानेषु गच्छन्ति // 73 // ] प्राय इह क्रूरकर्माणः / बाहुल्येनैतदेवमिति दर्शनार्थ प्रायोग्रहणं / भवसिद्धिका अप्येकभवमोक्षयायिनोऽपि दक्षिणेषु नारकतिर्यङ्मनुष्याः सुराश्च स्थानेषु गच्छन्ति / अत एवोक्तं " दाहिणदिसिगामिए किलपक्खिए नेरइए" इत्यादि / एतदुक्तं भवति / नरकभवनद्वीपसमुद्रविमानेषु दक्षिणदिग्भागव्यवस्थितेषु कृष्णपाक्षिका नारकादय उत्पद्यन्त इति / आह भारतादितीर्थकरादिभिर्व्यभिचारः, न, तेषां प्रायोग्रहणेन व्युदासादिति / शुक्लपाक्षिकद्वारानन्तरं सोपक्रमायुरिमाह Page #56 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / देवा नेरइया वा असंखवासाउआ य तिरिमणया। उत्तमपुरिसा य तहा चरमसरीरा य निरुवकमा 74 / [देवा नारकाच असंख्येयवर्षायुषश्च तिर्यङ्मनुष्याः / उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः // 74 // ] देवा नारकाश्चैते सामान्येनैव / असङ्ख्येयवर्षायुषश्च तिर्यमनुष्या एतेन सङ्ख्ययवर्षायुषां व्यवच्छेदः। उत्तमपुरुषाश्चक्रवर्त्यादयो गृह्यन्ते / चरमशरीराश्चाविशेषेणैव तीर्थकरादयः। निरुपक्रमा इत्येते निरुपक्रमायुष एव अकालमरणरहिता इति / सेसा संसारत्था भइया सोवक्कमा व इयरे वा। सोवक्कमनिरुवक्कमभेओ भणिओ समासेणं / 75 / [ शेषाः संसारस्था भाज्याः सोपक्रमा वा इतरे वा / सोपक्रमनिरुपक्रमभेदो भणितः समासेन // 75 // ] शेषाः संसारस्था अनन्तरोदितव्यतिरिक्ताः सङ्खयेयवर्षायुष अनुत्तमपुरुषा अचरमशरीराश्च / एते भाज्या विकल्पनीयाः / कथं सोपक्रमा वा इतरे वा कदाचित्सोपक्रमाः कदाचिनिरुपक्रमा उभयमप्येतेषु संभवतीति सोपक्रमनिरुपक्रमभेदो भणितः समासेन संक्षेपेण / न तु कर्मभूमजादिविभागविस्तरेणेति / उक्तं सोपक्रमद्वारं तदभिधानाच्च संसारिणो जीवाः / सांप्रतं मुक्तानभिधित्सुराह Page #57 -------------------------------------------------------------------------- ________________ [2] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / मुत्ता अणेगभेया तित्थतित्थयरतदियरा चेव / सयपत्तेयविबुद्धा बुहबोहिय सन्नगिहिलिंगे // 76 // [मुक्ता अनेकभेदाः तीर्थतीर्थकरतदितरे चैव / स्वयंप्रत्येकबुद्धा बुधबोधिताः स्वान्यगृहिलिङ्गाः // 76 // ] मुक्ताश्च सिद्धाः ते चानेकभेदा अनेकप्रकाराः / तीर्थतीर्थकरतदितरे चेति, अनेन सूचनात्सूत्रमिति कृत्वा तीर्थसिद्धा अतीर्थसिद्धास्तीर्थकरसिद्धा अतीर्थकरसिद्धाश्च गृह्यन्ते / तत्र तीर्थ सिद्धास्तीर्थसिद्धाः। तीर्थ पुनश्चातुर्वर्णः श्रमणसंघः प्रथमगणधरो वा / तथा चोक्तं " तित्थं भंते तित्थं तित्थगरे तित्थं गोयमा अरहं ताव नियमा तित्थंकरे तित्थं पुण चाउव्वन्नो समणसंघो पढमगणधरो वा" इत्यादि / ततश्च तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः // अतीर्थे सिद्धा अतीर्थसिद्धास्तीर्थान्तरसिद्धा इत्यर्थः / श्रूयते च “जिणंतरे साहुवोच्छेउत्ति" तत्रापि जातिस्मरणादिना अवाप्तापवर्गमार्गाः सिध्यन्ति एवं, मरुदेवीप्रभृतयो वा अतीर्थसिद्धास्तदा तीर्थस्यानुत्पन्नत्वात् // तीर्थकरसिद्धास्तीर्थकरा एव // अतीर्थकरसिद्धा अन्ये सामान्यकेवलिनः // स्वयंप्रत्येकबुद्धा इत्यनेन स्वयंबुद्धसिद्धाः प्रत्येकबुद्धसिद्धाश्च गृह्यन्ते / तत्र स्वयंबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः। प्रत्येकबुद्धसिद्धाः प्रत्येकबुद्धास्सन्तो ये सिद्धा इति / अथ स्वयंबुद्धप्रत्येकबुद्धयोः कः प्रतिविशेष Page #58 -------------------------------------------------------------------------- ________________ सटीक श्रावकप्रज्ञप्त्यात्यप्रकरणं / [53] इति / उच्यते / बोध्युपधिश्रुतलिङ्गकृतो विशेषः तथाहि स्वयंबुद्धा बाह्यप्रत्ययमन्तरेणै व बुध्यन्ते प्रत्येकबुद्धास्तु न तद्विरहेण, श्रूयते च बाह्यप्रत्ययवृषभादिसयव्यपेक्षा करकंड्वादीनां प्रत्येकबुद्धानां बोधिरिति / उपधिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः / स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः प्रत्येकबुद्धानां नियमतो भवत्येव / लिङ्गप्रतिपत्तिः स्वयंबुद्धानामाचार्यसविधावपि भवति प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण // बुद्धबोधिता इति बुद्धबोधितसिद्धाः बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते // स्वान्यगृहिलिङ्गा इति स्वलिङ्गसिद्धा अन्यलिगसिद्धा गृहिलिङ्गसिद्धा। तत्र स्वलिङ्गसिद्धा द्रव्यलिङ्गं प्रति रजोहरणगोच्छकधारिणः / अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गसिद्धाः। गृहिलिङ्गसिद्धा मरुदेवीप्रभृतय इति // इत्थीपुरिसनपुंसग एगाणेग तह समयभिन्ना य। एसो जीवसमासो इतो इयरं पवक्खामि // 77 // [स्त्रीपुरुषनपुंसका एकानेके तथा समयभिन्नाश्च / एष जीवसमासोऽत इतरं प्रवक्ष्यामि // 77 // ] ___ एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः केचित् पुँलिगसिद्धाः केचिन्नपुंसकलिङ्गसिद्धाः। आह किं तीर्थकरा अपि स्त्रीलिङ्गसिद्धा भवन्ति / भवन्तीत्याह / यत उक्तं Page #59 -------------------------------------------------------------------------- ________________ [54] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सिद्धप्राभृते " सव्वत्थोवा तित्थगरिसिद्धा तित्थगरितित्थे नोतित्थसिद्धा असङ्खयेयगुणा तित्थगरितित्थे णोतित्थंगरिसिद्धा उ असङ्खयेयगुणा उ तित्थगरितित्थे णोतित्थगरसिद्धा असङ्ख्येयगुणा" इति / न नपुंसकलिङ्गे सिद्धाः / प्रत्येकबुद्धास्तु पुंलिङ्गा एव / / एकानेक इति / एकसिद्धा अनेकसिद्धाः। तत्रैकसिद्धा एकस्मिन्समये एक एव सिद्धः / अनेकसिद्धा एकस्मिन्समये व्यादयो यावदष्टशतं सिद्धमिति / उक्तं च बत्तीसा अडयाला सट्टी बावत्तरी य बोघव्वा / चुलसीई छन्नउइ दुरहिय अठुत्तरसयं च // 1 // तथा समयभिन्नाश्चेति / प्रथमसमयसिद्धा अप्रथमसमयसिद्धा इत्यादि। तत्र अप्रथमसमयसिद्धाः परम्पर सिद्धिविशेषणप्रथमसमयवर्तिनः सिद्धत्वद्वितीयसमयवर्तिन इत्यर्थः ब्यादिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते / यद्वा सामान्येन xप्रथमसमय सिद्धाभिधानं विशेषतो द्विसमयादिसिद्धाभिधानमिति // आह तीर्थातीर्थसिद्धभेदद्वय एवान्तर्भावादलं शेषभेदैरिति, न आद्यभेदद्वयादेवोत्तरभेदाप्रतिपत्तेः शिष्यमतिविकाशार्थश्च शाखारम्भ इति / एष उक्तलक्षणो जीवसमासो जीवसंक्षेप उक्त इति वाक्यशेषः / अत ऊर्ध्वमजीवसमासं प्रवक्ष्यामीति गाथार्थः॥ * सिद्ध. 4 (प्रथमसमयवर्तिनः सिद्धाभिधानं ) Page #60 -------------------------------------------------------------------------- ________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [ 55 ] धम्माधम्मागासा पुग्गल चउहा अजीव मो एए। गइठिइअवगाहेहिं फासाईहि च गम्मति // 78 // [धर्माधर्माकाशाः पुद्गलाश्चतुर्धा अजीवा एवैते / गतिस्थित्यवगाहैः स्पर्शादिभिश्च गम्यन्ते // 78 // ] तत्र धर्माधर्माकाशा गतिस्थित्यवगाहैर्गम्यन्ते / पुद्गलाश्च स्पर्शादिभिः / असमासकरणं धर्मादीनां त्रयाणामप्यमूर्तत्वेन भिन्नज्ञातीयख्यापनार्थम् / इत्येष गाथाक्षरार्थः। भावार्थस्तु धर्मादिग्रहणेन पदैकदेशेऽपि पदप्रयोगदर्शनाद्धर्मास्तिकायादयो गृह्यन्ते / स्वरूपं चैतेषां जीवानां पुद्गलानां च गत्युपष्टम्भकारणम् / धर्मास्तिकायो ज्ञानस्य दीपश्चक्षुष्मतो यथा // 1 // जीवानां पुदगलानां च स्थित्युपष्टम्भकारणम् / अधर्मः पुरुषस्येव तिष्ठासोरवनिस्समा // 2 // जीवानां पुद्गलानां च धर्माधर्मास्तिकाययोः / बादरापां घटो यद्वदाकाशमवकाशदम् // 3 // स्पर्शरसगन्धवर्णशब्दा मूर्तस्वभावकाः / संघातभेदनिष्पन्नाः पुद्गला जिनदेशिताः // 4 // इति कृतं विस्तरेण / उक्ता अजीवाः सांप्रतमास्रवद्वारमाहकायवयमणोकिरियाजोगो सो आसवो सुहो सो अ। पुनस्स मुणेयव्वो विवरीओ होइ पावस्स // 79 // Page #61 -------------------------------------------------------------------------- ________________ [56] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [कायवाङ्मनःक्रियायोगः स आश्रवः शुभः स च / पुण्यस्य मुणितव्यो विपरीतो भवति पापस्य // 79 // ] कायवाङ्मनःक्रियायोगः। क्रिया कर्म व्यापार इत्यनर्थान्तरं युज्यत इति योगः युज्यते वानेन फरणभूतेनात्मा कर्मणेति योगो व्यापार एव स आस्रवः / आस्रवत्यनेन कमत्यास्रवः सरसलिलावाहिस्रोतोवत् / शुभः स चास्रवः पुण्यस्य मुणितव्यो विपरीतो भवति पापस्येति / आत्मनि कर्माणुप्रवेशमात्रहेतुरास्रव इति। . ___ उक्त आस्रवः / सांप्रतं बन्ध उच्यतेसकसायत्ता जीवो जोगे कम्मस्स पुग्गले लेइ। सो बंधो पयइठिईअणुभागपएसभेओ ओ / 80 // [ सकषायत्वाञ्जीवो योग्यान् कर्मणः पुद्गलान् लाति / स बन्धः प्रकृतिस्थित्यनुभागप्रदेशभेद एव // 80 // ] कषायाः क्रोधादयः सह कषायैः सकषायः तद्भावः तस्मात् सकषायत्वाज्जीवो योग्यानुचितान् कर्मणः ज्ञानावरणादेः पुद्गलान् परमाणून लात्यादत्ते गृह्णातीत्यनान्तरं स वन्धः / योऽसौ तथास्थित्या त्वादानविशेषः स बन्ध इत्युच्यते / स च प्रकृतिस्थित्यनुभावप्रदेशभेद एव भवति / प्रकृतिबन्धो ज्ञानावरणादिप्रकृतिरूपः। स्थितिबन्धोऽस्यैव जघन्येतरा स्थितिः / अनुभावबन्धो यस्य यथायत्यां विपा Page #62 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [57 ] कानुभवनमिति / प्रदेशबन्धस्त्वात्मप्रदेशैर्योगस्तथा कालेनैव विशिष्टविपाकरहितं वेदनमिति / / ___ उक्तो बन्ध इदानीं संवरमाहआसवनिरोह संवर समिईगुत्ताइएहि नायब्वो। कम्माणणुवायाणं भावत्यो होइ एयस्स // 81 // [आश्रवनिरोधः संवरः समितिगुप्त्यादिभितिव्यः / कर्मणामनुपादानं भावार्थों भवत्येतस्य // 81 // ] आश्रवनिरोधः संवरः। आश्रव उक्त एव / तनिरोधः कात्स्येन निश्चयतः सर्वसंवर उच्यते / शेषो व्यवहारसंवर इति / स समितिगुप्त्यादिभितिव्यः। उक्तं च "स समितिगुप्तिधर्मानुप्रेक्षापरीपहजयचारित्रैः” इत्यादि (तचार्थाधिगमसूत्रम् 9-4) कर्मणामनुपादानं भावार्थों भवत्येतस्य संवरस्य / इह यावानेवांशः कर्मणामनुपादानहेतुर्धर्मादीनां तावानेवेह गृह्यते / शेषस्य तपस्येवान्तर्भावात् तस्य च प्रागुपात्तक्षयनिमित्तत्वादिति / अत्र बहु वक्तव्यं / तत्तु नोच्यते / गमनिकामात्रत्वादारंभस्येति / उक्तः संवर: सांप्रतं निर्जरोच्यतेतवसा उ निज्जरा इह निज्जरणं खवणनासमेगट्ठा / कम्माभावापायणमिह निज्जरमो जिणा बिति 82 Page #63 -------------------------------------------------------------------------- ________________ [58] सटीकश्राषकप्रज्ञप्त्याख्यप्रकरणं / [ तपसा तु निर्जरा इह निर्जरणं क्षपणं नाश एकार्थाः / कर्माभावापादानमिह निर्जरा जिना ब्रुवते // 82 // ] तपसा तु निर्जरा इह / अनशनादिभेदभिनं तपः तेन प्रागुपात्तस्य कर्मणो निर्जरा भवति / निर्जराशब्दार्थमेवाह / निर्जरणं क्षपणं नाश इत्येकार्थाः पर्यायशब्दा इति / नानादेशजविनेयगणप्रतिपच्यर्थ अज्ञातज्ञापनार्थ चैतेषामुपादानमदुष्टमेव / अस्या एव भावार्थमाह / कर्माभावापादानमिह निर्जरा जिना युवते प्रकटार्थमेतदिति / '' उक्ता निर्जरा इदानीं मोक्षमाहनोसेसकम्मविगमो मुक्खो जीवस्स सुद्धरूवस्स / साइ अपज्जवसाणं अव्वाबाहं अंवत्थाणं // 83 // . [ निःशेषकर्मविगमो मोक्षो जीवस्य शुद्धस्वरूपस्य / साद्यपर्यवसानमव्याबाधमवस्थानम् // 83 // ] निःशेषकर्मविगमो मोक्षः / कृत्स्नकर्मक्षयान्मोक्ष इति वचनात् (तत्त्वार्थाधिगमसूत्रम् 10-1) जीवस्य शुद्धस्वरूपस्य कर्मसंयोगापादितरूपरहितस्येत्यर्थः / साद्यपर्यवसानं अव्याबाधं व्यावाधावर्जितमवस्थानमवस्थितिः जीवस्यासौ मोक्ष इति / साद्यपर्यवसानता चेह व्यक्त्यपेक्षया न तु सामान्येन / मोक्षस्यापि अनादिमचमिति / उक्तं तत्त्वं, अधुना प्रकृतं योजयति Page #64 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [59] एयमिह सदहंतो सम्मदिट्टी तओ अ नियमेण / भवनिव्वेयगुणाओ पसमाइगुणासओ होइ॥८४॥ [ एतदिह श्रद्दधानः सम्यग्दृष्टिः तकश्च नियमेन / भवनिर्वेदगुणात् प्रशमादिगुणाश्रयो भवति // 84 // ] एतदनन्तरोदितं जीवाजीवादीह लोके प्रवचने वा श्रद्द. धानः एवमेवेदमित्यान्तिःकरणतया प्रतिपद्यमानः सम्यगदृष्टिरभिधीयते, अविपरीतदर्शनादिति, तकश्च नियमेनासाववश्यंतया भवनिर्वेदगुणात् संसारनिर्वेदगुणेन प्रशमादिगुणाश्रयो भवति उक्तलक्षणानां (53) प्रशमादिगुणानामाधारो भवति / भवति चेत्थंज्ञाने संसारनिर्वेदगुणः। तस्माच प्रशमादयः। प्रतीतमेतदिति अस्यैव व्यतिरेकमाहविवरीयसदहाणे मिच्छाभावाओ नत्थि केइ गुणा। अणभिनिवेसो उ कयाइ होइ सम्मत्तहेऊ वि / 85 / [विपरीतश्रद्दधाने मिथ्याभावान्न सन्ति केचन गुणाः / अनभिनिवेशस्तु कदाचिद्भवति सम्यक्त्वहेतुरपि // 85 // ] विपरीतश्रद्धाने उक्तलक्षणानां जीवादिपदार्थानामन्यथा श्रद्धाने मिथ्याभावान्न सन्ति केचन गुणाः सर्वत्रैव विपर्ययादिति भावः / विपरीतश्रद्धानेऽप्यनभिनिवेशस्तु एवमेवैतदित्यनध्यवसायस्तु कदाचित्कस्मिंश्चित्काले यद्वा कदाचित् न Page #65 -------------------------------------------------------------------------- ________________ [60] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / / नियमेनैव भवति सम्यक्त्वहेतुरपि जायते सम्यक्त्वकारणमपि / यथेन्द्रनागादीनामिति / ____ इदं च सम्यक्त्वमतिचाररहितमनुपालनीयमिति / अतस्तानाहसम्मत्तस्सइयारा संका कंखा तहेव वितिगिच्छा। परपासंडपसंसा संथवमाई य नायव्वा // 86 // [सम्यक्त्वस्यातिचाराः शङ्का कांक्षा तथैव विचिकित्सा / परपाषण्डप्रशंसा संस्तवादयश्च ज्ञातव्याः // 86 // ] सम्यक्त्वस्य प्रानिरूपितशब्दार्थस्यातिचारा अतिचर. णानि अतिचारा असदनुष्ठानविशेषाः यैः,सम्यक्त्वमतिचरति विराधयति वा / ते च शंकादयः। तथा चाह / शंका कांक्षा तथैव विचिकित्सा परपाषण्डप्रशंसा संस्तवादयश्च ज्ञातव्याः / आदिशब्दादनुपणास्थिरीकरणादिपरिग्रहः / शंकादीनां स्वरूपं वक्ष्यत्येवेति / संसयकरणं संका कंखा अन्नन्नदंसणग्गाहो / संतमि वि वितिगिच्छा सिज्झिज्जन मे अयं अट्ठो॥ [संशयकरणं शङ्का कांक्षान्योन्यदर्शनग्राहः। सत्यपि विचिकित्सा सिध्येत न मेऽयमर्थः // 87 // ] संशयकरणं शङ्का भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्ति Page #66 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / कायादिष्वत्यंन्तगहनेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु संशय इत्यर्थः / किमेवं स्यान्नैवमिति / सो पुनर्दिभेदा। देशसबभेदात् / देशशङ्का देशविषया यथा किमयमात्मासङ्ख्येयप्रदेशात्मकः स्यादथ निःप्रदेशो निरवयवः स्यादिति / सर्वशङ्का पुनः सकलास्तिकायबात एव किमेवं स्यान्नैवमिति // कांक्षान्योन्यदर्शनग्राहः / सुगतादिप्रणीतेषु दर्शनेषु ग्राहोऽभिलाप इति / सा पुनर्बिभेदा देशसर्वभेदात् / देशविषया एकमेव सौगतं दर्शनमाकांक्षति चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरिति अतो घटमानकमिदं न दुरापेतमिति / सर्वकांक्षा तु सर्वदर्शनान्येव कांक्षति अहिंसाप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादमतानीह लोके च नात्यन्तकलेशप्रतिपादनपराणि अतः शोभनान्येवेति // सत्यपि विचिकित्सा सिध्येत, न मेऽयमर्थ इति / अयमत्र भावार्थः / विचिकित्सा मतिविभ्रमो युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति संमोहः / किमस्य महतस्तपःकलेशायासस्य सिकताकणकवलकल्पस्य कनकावल्पादेरायत्यां मम फलसंपद्भविष्यति किं वा नेति / उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृपीवलानाम् / न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयम् / शंका हि सकला सकलपदार्थभाक्त्वेन द्रव्यगुणविषया / इयं तु क्रियाविषयैव / तत्वतस्तु सर्व एते प्रायो भिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणाम विशेषाः सम्यक्त्वातिचारा Page #67 -------------------------------------------------------------------------- ________________ [2] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / उच्यन्ते / न सूक्ष्मेक्षिका अत्र कार्येति / अथवा विचिकित्सा विद्वद्जुगुप्सा। विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसर्वसङ्गास्तेषां जुगुप्सा निन्दा / तथाहि तेऽस्नानात्प्रस्वेदजलकलिन्नमलिनत्वात् दुर्गन्धवपुषो भवन्ति तानिन्दति / को दोषः स्याद्यदि प्राशुकेन वारिणाङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति / इयमपि न कोर्या / देहस्यैव परमार्थतोऽशुचित्वादिति // परपासंडपसंसा सकाइणमिह वनवाओ उ / तेहिं सह परिचओ जो स संथवो होइ नायब्वो 88 [ परपाषंडप्रशंसा शाक्यादीनामिह वर्णवादस्तु / तैः सह परिचयो यः स संस्तवो भवति ज्ञातव्यः 88 ] परपाषण्डानां सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसेति समासः प्रशंसनं प्रशंसो स्तुतिरित्यर्थः / तथा चाह / शाक्यादीनामिह वर्णवादस्तु / शाक्यो रक्तभिक्षव आदिशब्दात्परिवाजकादिपरिग्रहः / वर्णवादः प्रशंसोच्यते पुण्यभाज एते सुलब्धमेभिर्मानुजं जन्म दयालव एत इत्यादि // तैः परपापण्डैरनन्तरोदितैः सह परिचयो यः स संस्तवो भवति ज्ञातव्यः परपाषण्डसंस्तव इत्यर्थः संस्तव इह संवादजनितः परिचय: संवसनभोजनालापादिलक्षणः परिगृह्यते न स्तवरूपः तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति "असंस्तुतेषु प्रसभं भयेषु" इत्यादौ इति // . Page #68 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [63] अधुना शंकादीनामतिचारतामाह / संकाए मालिन्नं जायइ चित्तस्सपञ्चओ अ जिणे। सम्मत्ताणुचिओ खलु इइ अइआरो भवे संका।८९। [शंकाय मालिन्यं जायते चित्तस्य अप्रत्ययश्च जिने / सम्यक्त्वानुचितः खलु इति अतिचारो भवति शङ्का // 89 // ] शङ्कायामुक्तलक्षणायां सत्यां मालिन्यं जायतेऽवबोधश्रद्धाप्रकाशमगीकृत्य ध्यामलत्वं जायते / कस्य चित्तस्यान्तः करणस्याप्रत्ययश्च अविश्वासश्च क्व जिनेऽर्हति जायत इति वर्तते / न ह्याप्ततया प्रतिपन्नवचने संशयसमुद्भवः सम्यक्त्वानुचितः खलु अयं च भगवत्यप्रत्ययः सम्यक्त्वानुचित एव / न हि सम्यक्त्वमालिन्यं तदभावमन्तरेणैव भवति / इत्येवमनेन प्रकारेग अतिचारो भवति शङ्का सम्यक्त्वस्येति प्रक्रमाद्गम्यते / अतिचारश्चेह परिणामविशेषान्नयमतभेदेन वा सत्येतस्मिन् तस्य स्खलनमात्रं तदभावो वा ग्राह्यः / तथा चान्यैरप्युक्तं / एकस्मिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः / मिथ्या च दर्शन तत्स चादिहेतुर्भवगतीनाम् // इति प्रतिपादितं शङ्काया अतिचारत्वम् / अधुना दोषमाहनासइ इमीइ नियमा तत्ताभिनिवेस मो सुकिरिया या तत्तो अ बंधदोसो तम्हा एयं विवज्जिज्जा।९०। Page #69 -------------------------------------------------------------------------- ________________ [64] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ नश्यत्यनया नियमात्तत्त्वाभिनिवेशो मो सुक्रिया च / ततश्च बन्धदोषः तस्मादेनां विवर्जयेत् // 90 // ] नश्यत्यनया शंकया हेतुभूतया अस्यां वा सत्यां नियमानियमेनावश्यंतया तत्वाभिनिवेशः सम्यक्त्वाध्यवसाय: श्रद्धाभावादनुभवसिद्धमेतत् / मो इति पूरणार्थों निपातः / सुक्रिया च शोभना चात्यन्तोपयोगप्रधाना क्रियो च, नश्यति श्रद्धाभावात् एतदपि अनुभवसिद्धमेव / ततश्च तस्माच तत्त्वाभिनिवेशसुक्रियानाशात् बन्धदोष: कर्मबन्धापराधः / यस्मादेवं तस्मादेनां शङ्कां विवर्जयेत् / ततश्च मुमुक्षुणा व्यपगतशङ्केन सता मतिदौर्बल्यात्संशयास्पदमपि जिनवचनं सत्यमेव प्रतिपत्तव्यं सर्वज्ञाभिहितत्वात्तदन्यपदार्थवदिति / ___ उक्त: पारलौकिको दोषः / अधुनहलौकिकमाहइह लोगम्मि वि दिट्ठो संकाए चेव दारुणो दोसो। अविसयविसयाए खलु पेयापेया उदाहरणं // 91 // [ इह लोकेऽपि दृष्टः शङ्काया एव दारुणो दोषः / अविषयविषयायाः खलु पेयापेयावुदाहरणम् // 91 // ] इह लोकेऽप्यास्तां तावत्परलोक इति दृष्ट उपलब्धः शङ्काया एव सकाशाद्दारुणो दोषः रौद्रोऽपराधः / किमविशेषणशङ्कायाः / नेत्याह / अविषयविषयायाः खलु / खलु Page #70 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [65 ] शब्दोऽवधारणे / अविषयविषयाया एव / अविषयो नाम यत्र शङ्का न कार्यैव / पेयापेयाबुदाहरणं / तच्चेदं / जहा एगमि नगरे एगस्स सेहिस्स दोनि पुत्ता लेहसालाए पढन्ति सिणेहयाए तेसिं माया मा कोइ मुच्छिही अप्पसागारिए मइमेहाकारि ओसहपेयं देहि तत्थ परिभुंजमाणो चेव एगो चिंतेइ Yणं मच्छियाउ एयाउ तस्स य संकाउ पुणो पुणो वमंतस्स वग्गुलीवाही जाओ मओ य इहलोगभोगाण अणाभागी जाओ। अवरो न मायो अहियं चिंतेइ ति णिस्संको पियइ णिरुएण य गहिओ विजाकलाकलावो इहलोगियभोगाण य आभागी जाउत्ति / उपनयस्तु कृत एवेति / सांप्रतं कांक्षादिष्वतिचारत्वमाहएवं कंखाईसु वि अइयारत्तं तहेव दोसा य / जोइज्जा नाए पुण पत्तेयं चेव वुच्छामि // 12 // [एवं कांक्षादिष्वपि अतिचारत्वं तथैव दोषांश्च / योजयेत् ज्ञातानि पुनः प्रत्येकमेव वक्ष्ये // 92 // ] __एवं कांक्षादिष्वपि यथा शङ्कायामतिचारत्वं तथैव दोषांश्च योजयेत् / यतः कांक्षायामपि मालिन्यं जायते चित्तस्याप्रत्ययश्च जिने भगवता प्रतिषिद्धत्वात् / एवं विचिकित्सादिष्वपि Page #71 -------------------------------------------------------------------------- ________________ [66 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / भावनीयं / तस्मान्न कर्तव्याः कांक्षादयः। ज्ञातानि पुनः प्रत्येकमेव कांक्षादिषु वक्ष्येऽभिधास्य इति // रायामचो विज्जासाहगसड्ढगसुया य चाणको / सोरट्ठसावओ खलु नाया खाइसु हवन्ति // 93 // [राजामात्यो विद्यासाधकः श्रावकसुता च चाणक्यः / सौराष्ट्र श्रावकः खलु ज्ञातानि कांक्षादिषु भवन्ति // 13 // ] तत्र कांक्षायां राजामात्यौ, राजकुमारामचो य अस्सेणावहरिया अडविं पविट्टा छुहापरट्टा वणफलादिणि खायंति पडिणियत्ताणं राया चिंतेइ लड्डुयपूलगमाईणि सव्वाणि खामि आगया दोवि जणा रना सूयारा भणिया जं लोए पयरइ तं सव्वं सव्वे रंधेह तेहिं रंधित्ता उवट्ठवियं रन्नो सो राया पेच्छरायेदिद्रुतं करेइ कप्पडियावलिएहि धाडिज्जंति एवं मिट्ठस्स अवगासे होइ ति कणगकुंडगाईणि. उंडेराणि वि खड्याणि तेहिं सूलेण मओ। अमच्चेण पुण वमणविरेयणाणि कयाणि सो भोगाणं आभागी जाओ ति॥ विचिकित्सायां विद्यासाधकश्रावकः नंदीसरवरगमणं दिव्यगंधाणं देवसंसग्गेण मित्तस्स पुच्छणं विजाए पदाणं साहणं मसाणे चउपायगसिक्कयं हेट्ठा इंमालखायरोयस्तलो अट्ठसयवारा परिजवित्ता पादो सिकगस्स च्छिज्जइ एवं बीओ तइओ य च्छिज्जइ / चउत्थे छिन्ने आगासेण वच्चइ तेण सा विज्जा Page #72 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [67 ] गहिया कालचउद्दसिरत्ति साहेइ मसाणे चोरो य णयरारक्खिएहिं पारद्धो (पेल्लिओ) परिभममाणो तत्व अइगओ। ताहे वेढेउं मसाणं ठिया पभाए घिप्पिही सो य भमंतो तं विज्जासाहगं पेच्छइ / तेण पुच्छिओ सो भणइ, विज्जं साहेमि / चोरो भणइ-केण ते दिण्णा ? सो भणइ सावगेणं. चोरेण भणियं इमं दव्वं गिहाहि विज्जं देहि / सो सडूढा विचिकिच्छइ सिझेज्जा न व इत्ति / तेणं दिन्ना चोरो चिंतेइ सावगो कीडियाएवि पावं नेच्छइ सच्चमेयं सो साहिउमारद्धो सिद्धा। इयरो सलोद्दो (सलुत्तो) गहिओ। तेण आगासगएण लोगो भेसिओ ताहे सो मुक्को दोवि सावगा जायत्ति // विद्वज्जुगुप्सायां श्रावकसुताउदाहरणे-एगो सेट्ठो पव्वंते वल्लइ (तल्लइ) तस्स धूयाविवाहे कहवि साहुणो आगया। सा पिउणा भणिया पुत्तिए पडिलाभेहि साहुणो सा मंडियपसाहिया पडिलाभेइ साह्रण जल्लगंधो तीए आघातो सा चिंतेइ / अहो अणवज्जो भट्टारगेहिं धम्मो देसिओ जइ पुण फासुएण पाणीएण व्हाएज्जा को दोसो होज्जा। सा तस्स ट्ठाणस्स अणालोइय अपडिकंता कालं काऊणं रायगिहे गणियापाढे समुप्पन्ना। गब्भगया चेव अरई जणेइ गम्भसाउणेहि यं ण सडइ // जोया समाणी उज्जिया / सा गंधेण तं वनं वासेइ / सेणिओ तेण पदेसेण णिगच्छइ सामिणो वंदिउ Page #73 -------------------------------------------------------------------------- ________________ [68] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सो खंधावारो तीए गंधं ण सहइ / रन्ना पुच्छियं-कि एयं तेहिं कहियं दारियाए गंधो गंतूणं दिट्ठा भणइ एस एव पढम पुच्छत्ति गओ वंदित्ता पुच्छइ तओ भगवया तीए उट्ठाणपारियावणिया कहिया / तओ राया भणइ कहिं एसा पञ्चणुभविस्सइ सुहं वा दुक्खं वा / सामी भणइ एएण कालेण वेइयं इयाणि सा तव चेव भज्जा भविस्सइ अग्गमहिसी // अट्ठ संवच्छराणि जाय तुम्भं रममाणस्स पट्टीएहं सो लीलं काहिइ तं जाणिज्ज सुवंदित्ता गओ। ‘सा य अवगयगंधा आहीरेण गहिया संवढिया जोव्वणत्था जाया। कोमुइचारं मायाए समं आगया। अभओ सेणिओ य पच्छन्ना कोमुइचारं पेच्छंति / तीए दारियाए अंगफासेण सेणिओ अज्जोववन्नो नाममुदं दसिया तीए बंधइ / अभयस्स कहियं नाममुद्दा हरिया मग्गाहि / तेण मणुस्सा दारेहिं बद्धेहिं ठविया / एक्केकं माणुस्सं पलोएऊण णीणिज्जइ / सा दारिया दिट्ठा चोरिति गहिया परिणीया य / अन्नया य वस्सोकेण रमंति रायणं राणियाउ पोत्तेण वाहिति / इयरी पोनं दाउं विलग्गा स्ना सरियं मुक्का य पव्वइया / - परपाषण्डप्रशंसायां चाणक्यः / पाइलिपुत्ते चाणको चंदगुत्तेण भिक्खुकाण वित्ती हरिया। ते तस्स धम्मं कहेंति / राया तुस्सइ चाणकं पलोएइ ण पसंसइ तेण - न देइ / तेहि चाणकमज्जा उलग्गिया ( उलभिया) तीए सो करणी गाहिउ Page #74 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [69] तेहिं कहिए भणियं सुहासियं स्ना तं च अन्नं च दिन्नं / बीयदिवसे चाणको भणइ किस ते दिन्नं राया भणइ तुम्हेहिं पसंसियंति / सो भणइ ण मे पसंसियंति सव्वारंभपव्वत्ता कहलोयं पत्तिया वेति / पच्छा ठिउ (विउ ) केत्तिया एरिसंत्ति // परपाडसंस्तवे सौराष्ट्र श्रावकः / सो दभिक्खे भिक्खएहि समं पयट्टो भत्तं से देंति अन्नया विसइयाए मओ / चीवरेण पच्छाइओ अविसुद्धोहिणा पासणं भिखुगाणं दिव्वबाहाए आहारदाणं / सावगाणं खिंसा / जुगपहाणाण कहणं विराहियगुणो त्ति आलोयणं नमोकारपटणं पडिबोहो केत्तिया एरिसन्ति // अन्ने वि य अइयारा आइसद्देण सूइया इत्थ / साहमिअणुववृहणमथिरीकरणाइया ते उ // 14 // [अन्येऽपि चातिचारा आदिशब्देन सूचिता अत्र / साधर्मिकानुपबृंहणास्थिरीकरणादयस्ते तु // 94 // ] अन्येऽपि चातिचारा आदिशब्देन सूचिता अत्र / अत्रेति सम्यक्त्वाधिकारे सम्यत्तस्सइयारा (86) इत्यादिद्वारगाथायामादिशब्देनोल्लिङ्गिता इत्यर्थः / समानधार्मिकानुप. हणास्थिरीकरणादयस्ते तु / अनुस्वारोऽलाक्षणिकः // समा Page #75 -------------------------------------------------------------------------- ________________ [70 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / नधार्मिको हि सम्यग्दृष्टेः साधुः साध्वी श्रावकः श्राविका च / एतेषां कुशलमार्गप्रवृत्तानामुपबृंहणा कर्तव्या। धन्यस्त्वं पुण्यभाक्त्वं कर्तव्यमेतद्यद्भवतारब्धमिति / तद्भाव उपबृंहि. तव्यः। अनुपहणेऽतिचारः / एवं सद्धर्मानुष्ठाने विषीदन् * धर्म एव स्थिरीकर्तव्यः / अकरणेऽतिचारः। आदिशब्दासमानधार्मिकवात्सल्यतीर्थप्रभावनापरिग्रहः। समानधार्मिकस्य ह्यापद्गतोद्धरणादिना वात्सल्यं कर्तव्यं / तदकरणेऽतिचारः / एवं स्वशक्त्या धर्मकथादिभिः प्रवचने प्रभावना कार्या / तदकरणेऽतिचार इति // तथा चाह- . नो खल अप्परिवडिए निच्छयओ मइलिएव सम्मत्ते होइ तओ परिणामो जत्तो णुववूहणाईया // 15 // [न खल्वप्रतिपतित निश्चयतो मलिनीकृते वा सम्यक्त्वे / भवति तकः परिणामो यतोऽनुपबृंहणादयः // 95 / / ] न खल्विति नैव अप्रतिपतितेऽनपगते निश्चयतो निश्चयनयमतेन मलिनीकृते वा व्यवहारनयमतेन सम्यक्त्वे उक्तलक्षणे भवति तकः परिणामो जायते भावात्मस्वभावः यतो यस्मात्परिणामादनुपबृंहणादयो भवन्तीति / उक्ताः सम्यक्त्वातिचाराः। एते मुमुक्षुणा वर्जनीयाः। किमिति * प्रमादन. Page #76 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [71 ] जं साइयांरमेयं खिप्पं नो मुक्खसाहगं भणिअं। तम्हा मुक्खट्टी खलु वज्जिज्ज इमे अईयारे / 96 / [ यत्सातिचारमेतत्क्षिप्रं न मोक्षसाधकं भणितम् / तस्मात् मोक्षार्थी खलु वर्जयेदेतानतिचारान् // 96 // ] यद्यस्मात्सातिचारं सदोषमेतत्सम्यक्त्वं क्षिप्रं शीघ्रं न मोक्षसाधकं नापवर्गनिर्वर्तकं भणितं तीर्थकरगणधरैः निरतिचारस्यैव विशिष्टकर्मक्षयहेतुत्वात्तस्मात् मोक्षार्थी अपवर्गार्थी खल्लिति खलुशब्दोऽवधारणे मोक्षार्थ्येव वर्जयेन कुर्यादेतानतिचारान् शङ्कादीनिति // आह सुहे परिणामे पइसमयं कम्मखवणओ कहणु। होइ तह संकिलेसो जत्तो एए अईयारा // 17 // [ आह शुभ परिणामे प्रतिसमयं कर्मक्षपणतः कथं नु / भवति तथा संकलेशो यत एतेऽतिचाराः // 97 // ] एवं सातिचारे सम्यक्त्वे उक्त सति पर आह / शुभे परिणामे सम्यक्त्वे सति प्रशमसंवेगादिलक्षणे प्रतिसमयं समयं समयं प्रति कर्मक्षपणतः विशिष्टकर्मक्षपणात् मिथ्यादृष्टेः सकाशात्सम्यग्दृष्टिविशिष्टकर्मक्षपणक एवेत्युक्तं कथं केन प्रकारेण नु इति क्षेपे भवति तथा संक्लेशो जायते चित्तविभ्रमः यतो यस्मात्संकुलेशादेते शंकादयोऽतिचारा भवन्ति Page #77 -------------------------------------------------------------------------- ________________ [72 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ततश्चानुत्थानमेवैतेषामिति पराभिप्रायः / अत्र गुरुर्भणतिनाणावरणादुदया तिव्वविवागा उ भंसणा तेर्सि। सम्मत्तपुग्गलाणं तहासहावाउ कि न भवे // 18 // [ ज्ञानावरणाद्युदयात्तीव्रविपाकात्तु भ्रंशना तेषाम् / सम्यक्त्वपुद्गलानां तथास्वभावत्वात् किं न भवति // 98 // ] ज्ञानावरणाद्युदयात्किविशिष्टात्तीव्रविपाकात्, न तु मंदविपाकात्तस्मिन् सत्यपि अतिचारानुपपत्तेः सम्यग्दर्शनिनामपि मन्दविपाकस्य तस्य उदयात् , अतस्तीबानुभावादेव भ्रंशना स्वस्वभावच्युतिरूपा तेषां सम्यक्त्वपुद्गलानां तथास्वभावत्वान्मिथ्यात्वदलिकत्वात् जायत इति वाक्यशेषः अतः किं न भवत्यसौ संक्लेशो यत एतेऽतिचारा भवन्त्येवेत्यभिप्रायः / / उक्तं च प्रज्ञोपनायाँ कर्मप्रकृतिपदे बन्धचिन्तायां " कहनं भंते जीवे अट्ठकम्मप्पगडीउ बंधइ गोयमा णाणावरणिज्जस्स कम्मस्स उदएणं दंसणावरणिज्ज कम्मं नियच्छइ दंसणावरणिज्जस्स कम्मस्स उदयेणं दंसणमोहणिज्ज कम्मं नियच्छइ दसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं णियच्छइ मिच्छत्तेणं उदिन्नेणं एवं खलु जीवे अट्ठकम्मपगडीउ बंधइत्ति"। तत्र नेगंतेणं चिय जे तदुदयभेया कुणंति ते मिच्छं / तत्तो हुंतिऽइयारा वज्जेयव्वा पयत्तेणं // 19 // Page #78 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [73 ] [ नैकान्तेनैव ये तदुदयभेदाः कुर्वन्ति तान् मिथ्यात्वम् / * तत्तो भवन्त्यतिचारा वर्जयितव्याः प्रयत्नेन // 99 // ] नैकान्तेनैव न सर्वथैव ये तदुदयभेदा ज्ञानावरणायुदयप्रकाराः कुर्वन्ति तान् सम्यक्त्वपुद्गलान् मिथ्यात्वं अपि तु भ्रंशनामात्रमेव तत्तस्मात् ज्ञानावरणाधुदयाद्भवन्त्यतिचाराः शङ्कादयः ते च वर्जयितव्याः प्रयत्नेनेति // जे नियमवेयणिज्जस्स उदयओ होन्ति तह कहं तेउ। वज्जिज्जति इह खलु, सुद्धणं जीवविरिएणं 100 [ये नियमवेदनीयस्योदयतो भवन्ति तथा कथं पुनस्ते / वर्जन्ते इह खलु शुद्धेन जीववीर्येण // 100 // ] __स्यादेतत् ये शङ्कादयो नियमवेदनीस्य ज्ञानावरणादेरुदयतो भवन्ति, तथा तेन प्रकारेण कथं पुनस्ते वर्जन्ते इह प्रक्रमे प्रस्तावे. खलुशब्दादन्यत्रापि चारित्रादौ तत्कर्मणो अफलत्वप्रसङ्गात् , इति आशङ्कयाह, शुद्धेन जीववीर्येण, कथंचित्प्रादुभूतेन प्रशस्तेनात्मपरिणामेनेति // अमुमेवार्थ समर्थयन्नाहकत्थइ जीवो बलीओ, कत्थइकम्माइ हुतिबलियाई जम्हाणंता सिद्धा, चिट्ठति भवंमि वि अणंता 101 [क्वचित् जीवो बलीकः क्वचित्कर्माणि भवन्ति बलवन्ति / यस्मादनन्ताः सिद्धाः तिष्ठन्ति भवेऽप्यनन्ताः // 101 // j Page #79 -------------------------------------------------------------------------- ________________ [74 ] सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं / ___ क्वचिज्जीवो बली स्ववीर्यतः कलिष्टकर्माभिभवेन सम्य. ग्दर्शनाद्यवाप्तया अनन्तानां सिद्धत्वश्रवणात् , क्वचित्कर्माणि भवन्ति बलवन्ति यस्मादेवं वीर्यवन्तोऽपि ततोऽनन्तगुणाः कर्मानुभावत: संसार एव तिष्ठन्ति प्राणिन इति, तथा चाह, यस्मादनन्ताः सिद्धास्तिष्ठन्ति भवेऽप्यनन्ता इति एतदेव प्रकटयति / अच्च तदारुणाई कम्माइं खवित्तु जीवविरिएणं / सिद्धिमणंता सत्ता पत्ता जिणवयणजणिएणं 102 [ अत्यन्तदारुणानि कर्माणि क्षपयित्वा जीववीर्येण / सिद्धिमनन्ताः सत्वाः प्राप्ता जिनवचनजनितेन // 102 // ] अत्यन्तदारुणानि कलिष्टविपाकानि कर्माणि ज्ञानावरणादीनि क्षपयित्वा जीववीर्येण प्रलयं नीत्वा शुभात्मपरिणामेन सिद्धिं मुक्ति अनन्ताः सन्चाःप्राप्ताःजिनवचनजनितेन जीववीर्येण, इह वैराग्यहेतुः सर्वमेव वचनं जिनवचनमुच्यत इति / तत्तो णंतगुणा खल कम्मेण विणिज्जिआ इह अडंति। सारीरमाणसाणं दुक्खाणं पारमलहंता // 103 // [ ततो ऽनन्तगुणाः खलु कर्मणा विनिर्जिता इह अटन्ति / शारीरमानसाना दुःखानों पारमलभमानाः // 103 // ] ततः सिद्धिमुपगतेभ्यः सकाशादनन्तगुणा एव कर्मणा Page #80 -------------------------------------------------------------------------- ________________ सटीकधीवकप्रज्ञप्त्याख्यप्रकरणं / [75 ] विनिर्जिताः सन्त इह संसारेऽटन्ति, यस्मादनादिमतापि कालेनैकस्य निगोदस्यानन्तभागः सिद्धः असङ्खयेयाश्च निगोदा इति, कथमटन्तीत्यत्राह // शारीरमानसानां दुःखानां पारमलभमानाः, तत्र शारीराणि ज्वरकुष्ठादीनि, मानसानीष्टवियोगादीनि,* उपसंहरन्नाह // तम्हा निच्चसईए बहुमाणेणं च अहिगयगुणमि / पडिवक्खदुगंच्छाए परिणइ आलोयणेणं च 104 [ तस्मान्नित्यस्मृत्या बहुमानेन चाधिकृतगुणे। प्रतिपक्षजुगुप्सया परिणत्यालोचनेन च // 104 // ] यस्मादेवं तस्मानित्यस्मृत्या सदा अविस्मरणेन बहुमानेन च भावप्रतिबन्धेन चाधिकृतगुणे सम्यक्त्वादौ तथा प्रतिपक्षजुगुप्सयो मिथ्यात्वाधुद्वेगेन, परिणत्यालोचनेन च तेषामेव मिथ्यात्वादीनां दारुणफला एते इति विपाकालोचनेन चेति // तोत्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य / उत्तरगुणसद्धाए, अपमाओ होइ कायव्वो।१०५। [ तीर्थकरभक्त्या सुसाधुजनपर्युपासनया च।। उत्तरगुणश्रद्धयाप्रमादो भवति कर्तव्यः // 105 // ] तथा तीर्थंकरभक्तया परमगुरुविनयेन, सुसाधुजनपर्युपा* मानसानि प्रियविप्रयोगादीनि / Page #81 -------------------------------------------------------------------------- ________________ [76 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सनया च भावसाधुसेवनया, तथोत्तरगुणश्रद्धया च सम्यक्त्वे सत्यणुव्रताभिलाषेण तेषु सत्सु महाव्रताभिलाषेणेति भावः, एवमेतेन प्रकारेणाप्रमादो भवति कर्तव्य एवमप्रमादवानियमवेदनीयस्यापि कर्मणोऽपनयति शक्तिमित्येष शुद्धस्य जीववीर्यस्य करणे उपाय इति // ____ सांप्रतं द्वादशप्रकारं श्रावकधर्ममुपन्यस्यता यदुक्तं पश्चाणुव्रतादीनीति तान्यभिधिसुराहपंच उ अणुव्वयाइं थूलगपाणिवहविरमणाईणि / तत्थ पढम इमं खलु पन्नत्तं वीयरागेहि / 106 / [पञ्च त्वणुव्रतानि स्थूलप्राणवधविरमणादीनि / तत्र प्रथमं इदं खलु प्रज्ञप्तं वीतरागैः // 106 // ] पञ्च त्वणुव्रतानि, तुरेवकारार्थः, पश्चैव, अणुत्वमेषां सर्वविरतिलक्षणमहाव्रतापेक्षया, तथा चाह, स्थूरपाणवधविरमणादीनि स्थूरकप्राणिप्राणवधविरमणमादिशब्दात्स्थूरमृषावादादिपरिग्रहः, तत्र तेष्वणुव्रतेषु प्रथममाद्यमिदं खल्विति इदमेव वक्ष्यमाणलक्षणं, शेषाणामस्यैव वस्तुत उत्तरगुणत्वात् , प्रज्ञप्तं वीतरागैः प्ररूपितमर्हद्भिरिति // थूलगपाणिवहस्साविरई, दुविहो असो वहो होइ। संकप्पारंभेहि य, वज्जइ संकप्पओ विहिणा॥१०७॥ Page #82 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 77 ] [स्थूरपाणवधस्य विरतिः द्विविधश्चासौ वधो भवति / . संकल्पारम्भाभ्यां वर्जयति संकल्पतः विधिना // 107 // ] स्थूरकप्राणवधस्य विरतिः, स्थूरा एव स्थूरका द्वीन्द्रियादयस्तेषां प्राणाः शरीरेन्द्रियोच्छ्वासायुबललक्षणास्तेषां वधः जिघांसनं तस्य विरतिनिवृत्तिरित्यर्थः, द्विविधश्चासौ वधो भवति, कथं संकल्पारम्भाम्या, तत्र व्यापादनाभिसंधिः संकल्पः, कृष्यादिकस्त्वारम्भः, तत्र वर्जयति संकल्पतः, परिहरति असौ श्रावकः प्राणवधं संकल्पेन, न त्वारम्भतोऽपि, तत्र नियमात् प्रवृत्तेः, विधिना प्रवचनोक्तेन वर्जयति नतु यथाकथंचिदिति, स चायं विधिः॥ . उवउत्तो गुरुमूले संविग्गो इत्तरं व इयरं वा। अणुदियहमणुसरंतो पालेइ विसुद्धपरिणामो // 18 // [ उपयुक्तो गुरुमूले संविग्नो इत्वरं इतरद्वा / ___अनुदिवसमनुस्मरन् पालयति विशुद्धपरिणामः // 108 // ] उपयुक्तोऽन्तःकरणेन समाहितो, गुरुमूले आचार्यसन्निधौ, संविग्नो मोक्षसुखाभिलाषी न तु ऋद्धिकाम इत्वरं चातुर्मासादिकालावधिना,* इतरद्वा यावत्कथिकमेव, प्राणवधं वर्जयतीति वर्तते, एवं वर्जयित्वानुदिवसमनुस्मरन् , स्मृतिमूलो धर्म इति कृत्वा, पालयति विशुद्धपरिणामः, न पुनस्तत्र चेतसापि प्रवर्तत इति // ___* कालं विधिना Page #83 -------------------------------------------------------------------------- ________________ [78 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / अत्राह देसविरइपरिणामे सइ कि गुरुणा फलस्स भावाओ। उभयपलिमंथदोसो निरत्थओ मोहलिंगंतु॥१०९॥ [ देशविरतिपरिणामे सति किं गुरुणा फलस्याभावात् / उभयपलिमन्थदोषः निरर्थको मोहलिंगं तु // 109 // ] इह श्रावको यदाणुव्रतं प्रतिपद्यते तदास्य देशविरतिपरिणामः स्याद्वा न वा किं चात उभयथापि दोषः तमेवाह देशविरतिपरिणामे सति, स्वत एव तथाविधाणुव्रतरूपाध्यव. साये सति, किं गुरुणा, किमाचार्येण यत्संनिधौ तद्गृह्यते कुतः फलस्याभावात्तत्संनिधावपि प्रतिपत्तुः स एव फललाभः स च स्वत एव संजात इत्यफला गुरुमार्गणा किं च उभयपलिमन्थदोषः तथाविधाणुव्रतरूपाध्यवसाये सत्येव गुरुसंनिधौ तत्प्रतिपत्त्यभ्युपगमे उभयोराचार्यशिष्ययोर्मुधाव्यापारदोषः स च निरर्थको मोहलिंग एव न हि अमूढस्य प्रयोजनमन्तरेण प्रवृत्तिरिति // द्वितीयं विकल्पमुररीकृत्याह / दुन्हवि य मुसावाओ तयभावे पालणस्स वि अभावो। नय परिणामेण विणा इच्छिज्जइ पालणं समए 110 [द्वयोरपि मृषावादः तदभावे पालनस्याप्यभावः / न च परिणामेन विना इष्यते पालनं समये / 110 / ] Page #84 -------------------------------------------------------------------------- ________________ / सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [79] __ यदि न देशविरतिपरिणाम एव तर्हि द्वयोरपि प्रतिपतृप्रतिपादकयोः शिष्याचार्ययोः मृषावादः शिष्यस्यासदभ्युपगमाद्गुरोश्वासदभिधानादिति किं च तदभावे देशविरतिपरिणामस्याभावे पालनस्यापि व्रतसंरक्षणस्याप्यभावः एतदेव स्पष्टयति न च नैव परिणामेनानन्तरोदितेन विना इष्यतेऽभ्युपगम्यते पालनं संरक्षणं, व्रतस्येति प्रक्रमाद्गम्यते, समये सिद्धान्ते, परमार्थेन तस्यैव व्रतन्वादिति / एवं पराभिप्रायमाशङ्कय, पक्षद्वयेऽप्यदोष इत्यावेदयन्नाह / संतेविय परिणामे गुरुमलपवज्जणंमि एस गुणो। दृढया आणाकरणं कम्मखओवसमवुडढी य / 111 // सत्यपि च परिणामे गुरुमूलप्रतिपादने एष गुणः। दृढता आज्ञाकरणं कर्मक्षयोपशमवृद्धिश्च // 111 // ] सत्यपि च परिणामे देशविरतिरूपे, गुरुमूलप्रतिपादने आचार्यसन्निधौ प्रतिपत्तिकरणे, एंष गुण एषोऽभ्युच्चयः यदुत दृढता तस्मिन्नेव गुणे दाढ्य, तथाज्ञाकरणं अहंदाज्ञासंपादनं, यतस्तस्यैष उपदेशो गुरुसन्निधौ व्रतग्रहणं कार्यमिति, तथा कर्मक्षयोपशमवृद्धिश्च तथाकरणे दाढर्याज्ञासंपादनशुभपरिणामतः अधिकतरक्षयोपशमोपपत्तेरिति // इय अहिए फलभावे न होइ उभयपलिमंथदोसो उ / तयभावम्मि वि दुन्हवि न मुसावाओवि गुणभावा।। Page #85 -------------------------------------------------------------------------- ________________ [80 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [इय अधिके फलभावे न भवति उभयपलिमन्थदोषः / . तदभावेऽपि द्वयोरपि न मृषावादोऽपि गुणभावात् 112 ] इय एवमधिके फलभावे पूर्वावस्थातः अभ्यधिकतरायां फलसत्तायां, न भवति न जायते, उभयपलिमन्थदोषः शिष्याचार्ययोर्मुधाव्यापारदोष इत्यर्थः / एवं परिहतः प्रथमो विकल्पः // द्वितीयमधिकृत्याह / तदभावेऽपि देशविरतिपरिणामाभावेऽपि, द्वयोरपि प्रत्याख्यात्प्रत्याख्यापंयित्रोर्गुरुशिष्ययोर्न मृषावादोऽपि प्राक्चोदितः कुतो गुणभावाद्गुणसंभवादिति / गुणभावमेवाह // तग्गणउ चिय तओ जायइ कालेण असठभावस्स। इयरस्स न देयं चिय सुद्धो बलिओ विजइ असढो [ तद्ग्रहणत एव तको जायते कालेनाशठभावस्य / इतरस्य न देयमेव शुद्धः छलितो ऽपि यतिरशठः 113] तद्ग्रहणत एव विधिना गुरुसन्निधौ व्रतग्रहणादेव तको जायते कालेन असौ देशविरतिपरिणामो भवति कालेन तत् गुरुसन्निधिकारणत्वादित्यर्थः / किंविशिष्टस्य अशठभावस्य श्राद्धस्य सत्त्वस्य शठविषयं दोषमाशङ्कयाह, इतरस्य शठस्य न देयमेव, व्रतं अस्थानदाने भगवदाशातनाप्रसङ्गात् , तदज्ञानविषयं दोषमाशङ्कयाह, शुद्धः छलितोऽपि यतिरशठः छद्मस्थप्रत्यपेक्षणया कृतयत्नो, मायाविना कथंचिद्वयंसितोऽपि * तत्कारणत्वादित्यर्थ Page #86 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / [ 81 ] विप्रतारितोऽप्याजेवः साधुरदोषवानेव, आज्ञानतिक्रमादिति // अपरस्त्वाहथलगपाणाइवायं पञ्चकखंतस्स कह न इयरंमि। होइ णुमइ जइस्स वि तिविहेण तिदंडविरयस्स // [ स्थूरकप्राणातिपातं प्रत्याचक्षाणस्य कथं नेतरस्मिन् / भवत्यनुमतिर्यतेः त्रिविधेन त्रिदण्डविरतस्य // 114 // ] स्थूरकप्राणातिपातं द्वीन्द्रियादिप्राणजिघांसनं प्रत्याचक्षाणस्य तद्विषयां निवृत्तिं कारयतः कथं नेतरस्मिन् कथं न सूक्ष्मप्राणातिपाते भवत्यनुमतियतेर्भवत्येवेत्यभिप्रायः, किंविशिष्टस्य यतेखिविधेन त्रिदण्डविरतस्य मनसा वाचा कायेन सावधं प्रति कृतकारितानुमतिविरतस्य, तथा चान्यत्रापि निषिद्ध एव यतेरेवं जातीयोऽर्थः, यत उक्तं " माणुमती केरिसा तुम्हे " ति // अत्र गुरुराह- . अविहीए होइ चिय विहीइ नो सुयविसुद्धभावस्स। गाहावइसुअचोरग्गहणमोअणा इत्थ नायं तु 115 [अविधिना भवत्येव विधिना न श्रुतविशुद्धभावस्य / गृहपतिसुतचोरग्रहणमोचनं अत्र ज्ञातं तु // 115 // ] अविधिना भवत्येव अणुव्रतग्रहणकाले सम्यगनाख्याय Page #87 -------------------------------------------------------------------------- ________________ [82] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / संसारासारताख्यापनपुरःसरं साधुधर्म प्रमादतोऽणुव्रतानि यच्छतो भवत्येवानुमतिः, विधिना पुनः साधुधर्मकथनपुरःसरेण नेति न भवत्यनुमतिः, किंविशिष्टस्य श्रुतविशुद्धभावस्य तत्त्वज्ञानान्मध्यस्थस्येत्यर्थः, अस्मिन्नेवार्थे दृष्टान्तमाह, गृहपतिसुतचोरग्रहणमोचना अत्र ज्ञातमिह उदाहरणमित्यर्थः, तच्चेदं वंसतउरं नगरं, जियसत्त राया धारिणी देवी दणट्ठा तिसएण परितुट्ठो से भत्ता, भणिया य णेण, भण किं ते पियं कीरउ, तीए भणियं, कोमुदीए अंतेउराणं जहिच्छा पयारेण निसि ऊस्सवपसाउत्ति / पडिसुयमणेण / समागओ सो दियहो / कागवियं च अणेण घोसणं, जहा जो एत्थ अज्ज पुरिसो वसिही तस्स मए सारीरो णिग्गहो कायव्यो, उग्गदंडो य रायत्ति / ततो णिग्गया सव्वे पुरिसा णवरमेगस्स सेट्ठिणो छ पुत्ता संववहारवावडयाए लहु ण णिग्गया। ढक्किया पोलिओ। भएण तत्थेव, खुसिया, वत्तो रयणीऊसवो। बीयदिवहे य पउत्ता चारिया गवेसह को ण णिग्गउत्ति / तेहिं निउणबुद्धीए गवेसिऊण साहियं रनो, अमुगसेद्विस्स छसुया ण णिग्गयत्ति। कुविओ राया भणियं चाणेण वावाएह ते दुरायारे / गहियो ते रायपुरिसेहिं / एयं वायं णिऊण गरवईसमीवं समागओ तेसि पिया। विनतो य णेण राया देव खमसु एगमवराह, मुयह एक Page #88 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [83 ] वारं मम एए। मा अन्नो वि एवं काहित्ति ण मुयई राया। पुणो पुणो भन्नमाणेण मा कुलखओ भवउत्ति मुक्को से जेट्टपुत्तो, वावाइया इयरे / ण य समभावस्स सव्वपुत्तेसु सेहिस्स सेसवावायणेसु अणुमई त्ति // एस दिटुंतो इमो एयस्स उवणओ। रायातुल्लो सावगो, वावाइज्जमाणवणियतुल्ला जीवणिकाया, पियतुल्लो साहू, विनवणतुल्ला अणुवयगहणकाले साधुधम्मदेसणा / एवं च असुयणे वि सावगस्स ण साधुस्स दोसो॥ न चैतत्स्वमनीषिकया परिकल्पितं उक्तं च सूत्रकृताङ्गे "गाहावइ. सुयचोरग्गहणविमोक्खणयाएत्ति" एतत्संग्राहकं चेदं गाथात्रयम्देवीतुट्टो राया ओरोहस्स निसि ऊसवपसाओ। घोसणनरनिग्गमणं छव्वणियसुयाणनिक्खेवो 116 [ देव्यै तुष्टो राजा अन्तःपुरस्य निशि उत्सवप्रसादः / घोषणनरनिर्गमनं षड़वणिकसुतानामनिक्षेपः // 116 // ] चारियकहिए वज्झा मोएइ पिया न मिल्लइ राया। जिट्टमुयणे समस्स उ नाणुमई तस्स सेसेसु / 117 // [चारिककथिते वध्या मोचयति पिता न मुञ्चति राजा। ज्येष्ठमोचने समस्य तु नानुमतिः तस्य शेषेषु // 117 // ] राया सड्ढो वणिया काया साह य तेसि पियतुल्लो। मोयइ अविसेसेणं न मुयइ सो तस्स किं इत्थ / 118 // Page #89 -------------------------------------------------------------------------- ________________ [84] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [राजा श्राद्धः वणिकपुत्राः कायाः साघुश्च तेषां पितृतुल्यः। मोचयति अविशेषेण न मुञ्चति स तस्य किमत्र // 118 // ] एतद्गतार्थमिति न व्याख्यायते णवरमोरोहो अंतेउरं भन्नइ // ___ सांप्रतमन्यद्वादस्थानकंतसपाणघायविरई तत्तो थावरगयाण वहभावा। नागरगवहनिवित्तीनायाओ केइ नेच्छति / 119 // [त्रसप्राणघातविरतिं ततः स्थावरगतानां वधभावात् / नागरकवधनिवृत्तिज्ञाततो केचन नेच्छन्ति // 119 // ] त्रसप्राणघातविरतिं द्वीन्द्रियादिप्राणव्यापत्तिनिवृति तत. स्तस्मात्त्रसकायात् स्थावरगतानां पृथिव्यादिसमुत्पन्नानां वधभावाद्यापत्तिसंभवान्नागरकवधनिवृत्तिज्ञाततो नागरकवधनिवृत्त्युदाहरणेन केचन वादिनो नेच्छन्ति नाभ्युपगच्छन्तीति गाथाक्षरार्थः, भावार्थ त्वाहपञ्चक्खायंमि इहं नागरगवहम्मि निग्गयं पितओ। तं वहमाणस्स न किं जायइ वहविरइभंगो उ।१२०॥ [प्रत्याख्याते इह नागरकवधे निर्गतमपि ततः।. __तं प्रतो न किं जायते वधविरतिभङ्गः // 120 // ] . * प्राणातिपात Page #90 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [85] प्रत्याख्याते इह परित्यक्ते अत्र कस्मिन्नागरकजिघांसने निर्गतमपि निःक्रान्तमपि ततो नगरात् तं नागरकं नतो व्यापादयतोऽन्यत्रापि न किं जायते वघविरतिभङ्गः प्रत्याख्यानभङ्गो जायत एवेति / इत्थं दृष्टान्तमभिधाय अधुना दार्टान्तिकयोजनां कुर्वनाहइय अविसेसा तसपाणघायविरइं काउ तं तत्तो। थावरकायमणुगयं वहमाणस्स धुवो भंगो / 121 // [ इय अविशेषात् त्रसप्राणघातविरतिं कृत्वा तं ततः / स्थावरकायमनुगतं प्रतो ध्रुवो भङ्गः // 121 // ] इय एवमविशेषात्सामान्येनैव सप्राणघातविरतिमपि कृत्वा तं त्रसं ततस्त्रसकायात् द्वीन्द्रियादिलक्षणात् स्थावरकायमनुगतं विचित्रकर्मपरिणामात्पश्चात्पृथिव्यादिषून्पन्नं घ्नतो व्यापादयतो ध्रुवो भङ्गोऽवश्यमेव भङ्गो निवृत्तेरिति / संभवति चैतद्यत्रसोऽपि मृत्वा श्रावकारम्भविषये स्थावरः प्रत्यागच्छति स च तं व्या. पादयतीति ततश्च विशेष्यप्रत्याख्यानं कर्तव्यमनवद्यत्वादिति / आह चतसभूयपाणविरई तब्भावंमि वि न होइ भंगाय। खीरविगइपच्चखाणे दहियपरिभोगकिरिय व्व।१९२। [त्रसभूतप्राणविरतिः तद्भावेऽपि न भवति भङ्गाय / . क्षीरविकृतिप्रत्याख्यातदधिपरिभोगक्रियावत् // 122 // ] Page #91 -------------------------------------------------------------------------- ________________ [ 86 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सभूतप्राणविरतिस्त्रसपर्यायाध्यासितप्राणवधनिवृत्तिः तद्भावेऽपि स्थावरगतव्यापत्तिभावेऽपि न भवति प्रत्याख्यान भङ्गाय विशेष्यकृतत्वात् किंवत् क्षीरविकृतिप्रत्याख्यातदधिपरिभोगक्रियावत् न हि क्षीरविकृतिप्रत्याख्यातुर्दधिपरिभोगक्रिया प्रत्याख्यानभङ्गाय क्षीरस्यैव दधिरूपत्वापत्तावपि विशेष्यप्रत्याख्यानादितिः // उपसंहरनाहतम्हा विसेसिऊणं इय विरई इत्थ होइ कायवा। अब्भक्खाणं दुन्ह वि इय करणे नावगच्छति / 123 // [तस्माद्विशिष्य इय विरतिरत्र भवति कर्तव्या / . अभ्याख्यानं द्वयोरपि इयकरणे नावगच्छन्ति // 123 // ] ... यस्मादेवं तस्माद्विशिष्य भूतशब्दोपादानेन इय एवं विरतिनिवृत्तिस्त्र प्राणातिपाते भवति कर्तव्या अन्यथा भङ्गप्रसङ्गात् / इति पूर्वपक्षः / अत्रोत्तरमाह / अभ्याख्यानं तद्गुणशून्यत्वेऽपि तद्गुणाभ्युपगमलक्षणं द्वयोरपि प्रत्याख्यातृप्रत्याख्यापयित्रोराचार्यश्रावकयोः इयकरणे भूतशब्दसमन्वितप्रत्याख्यानासेवने नावगच्छन्ति नावबुध्यन्ते पूर्वपक्षवादिन इति // तथा चाह ओमे तादत्थे व हुज्ज एसित्थ भयसद्दो ति / उभओ पओगकरणं न संगयं समयनीईए 124 x प्रत्याख्यातत्त्वादिति Page #92 -------------------------------------------------------------------------- ________________ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं / / 87] [औपम्ये तादर्थे वा भवेदेषोऽत्र भूतशब्द इति / * उभयथा प्रयोगकरणं न संमतं समयनीत्या // 124 // ] औपम्ये तादर्थ्य वा भवेदेषोत्र प्रत्याख्यानविधौ भृतशब्द इति / उभयथापि प्रयोगकरणमस्य न संगतं समयनीत्या सिद्धान्तव्यवस्थयेति+ गाथाक्षरार्थः // भावार्थमाह ओमे देसो खलु एसो सुरलोयभूय मो एत्थ / देसु चिय सुरलोगो न होइ एवं तसा तेवि / 125 / [औपम्ये देशः खल्वेष सरलोक भूत एव अत्र / देश एव मुरलोको न भवति एवं प्रसास्तेऽपि // 125 // ] औपम्ये उपमाभावे भूतशब्दप्रयोगो यथा देशः खल्वेष लाटदेशादिः ऋध्यादिगुणोपेतत्वात्सुरलोकोपमः मो इत्यवधारणार्थों निपातः सूरलोकभूत एव अत्रास्मिन् पक्षे देश एव सुरलोको न भवति तेनोपमीयमानत्वाद्देशस्य एवं प्रसास्तेऽपि यद्विषया निवृत्तिः क्रियते तेऽपि सा न भवन्ति सभृतत्वात्त्रसरुपमीयमानत्वादिति / ततः किमित्याहअतसवहनिवित्तीए थावरघाए वि पावए तस्स / वहविरइभंगदोसो अतसत्ता थावराणं तु / 126 // _ + व्यवस्थित्येति Page #93 -------------------------------------------------------------------------- ________________ [88] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [अत्रसवधनिवृत्तौ स्थावरघातेऽपि प्रामोति तस्य / वधविरतिभङ्गदोषो ऽवसत्वात्स्थावराणां तु // 126 // ] उक्तन्यायादत्रसवधनिवृत्तौ सत्यां स्थावरवधेऽपि कृते प्रामोति तस्य निवृत्तिकर्तुर्वधविरतिभङ्गदोषः, कुतः अत्रसत्वास्थावराणामेव अत्रसाश्च त्रसभूता भवन्तीति अवसितः औपम्यपक्षः / सांप्रतं तादर्थ्यपक्षमाहतादत्थे पुण एसो सीईभयमुदगंति निहिट्ठो। तज्जाइअणुच्छेया न य सो तसथावराणं तु / 127 / [ तादर्थे पुनरेष शीतीभूतमुदकमिति निर्दिष्टः / तज्जात्यनुच्छेदात् न चासौ त्रसस्थावरयोस्तु // 127 // ] तादर्थं पुनस्तदर्थभावे पुनरेष भूतशब्दप्रयोगः शीतीभूतमुदकमुष्णं सत्पर्यायान्तरमोपन्नमिति निर्दिष्टस्तल्लक्षणझैः एवं प्रतिपादितः तज्जात्यनुच्छेदात् अत्रापि तदुदकजात्यनुच्छेदेनवोष्णं सच्छीतीभूतं न चासौ जात्यनुच्छेदस्वसस्थावरयोभिन्नजातित्वादिति // सिय जीवजाइमहिगिच्च अस्थि किंतीइ अपडिकुटाए भूअगहणेवि एवं दोसो अणिवारणिज्जोओ।१२८॥ [स्याजीवजातिमधिकृत्यास्ति किं तया अप्रतिकुष्टया / भूतग्रहणेऽप्येवं दोषोऽनिवारणीय एव // 128 // ] Page #94 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [89] __ स्याज्जीवजातिमधिकृत्यास्ति जात्यनुच्छेदः द्वयोरपि जीवत्वानुच्छेदादित्याशङ्कयाह किं तया जीवजात्या अप्रतिकुष्टया अनिषिद्धया न तेन जीवजातिरधविरतिः कृता येन सा चिन्त्यते ततश्च भूतग्रहणेऽप्येवमुक्तन्यायात् दोषोऽनिवारणीय एवेति, किं चतसभूयावि तसच्चिय जंता किं भूयसदगहणणं / तब्भावओ अ सिद्धे हंत विसेसत्थभावम्मि // 129 / [ त्रसभूता अपि वसा एव यत्तत्किं भूतशब्दग्रहणेन / तद्भावत एव सिद्धे हंत विशेषार्थभावे // 129 // ] त्रसभूता अपि वस्तुस्थित्या वसा एव नान्ये यद्यस्मादेवं तत्तस्माकिं भूतशब्दग्रहणेन न किंचिदित्यर्थः, तद्भावत एव सभावत एव सिद्धे हन्त विशेषार्थभावे त्रसपर्यायलक्षणे, न हि सपर्यायशून्यस्य त्रसत्वमिति // किं चथावरसंभारकडेण कम्मणा जंच थावरा भणिया। इयरेणं तु तसा खलु इत्तो चिय तेसि भेओउ।१३०॥ [ स्थावरसंभारकृतेन कर्मणा यच्च स्थावरा भणिताः / इतरेण तु प्रसाः खलु अत एव तयोर्भेदः // 130 // ] स्थावरसंभारकृतेन पृथिव्यादिनिचयनिवर्तितेन कर्मणा यच्च यस्माच्च स्थावरा भणिताः परममुनिभिरिति गम्यते इतरेण तु Page #95 -------------------------------------------------------------------------- ________________ [ 90 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / त्रससंभारकृतेन तुरवधारणे त्रससंभारकृतेनैव त्रसाः खल्विति वसा एव खलुशब्दस्यावधारणार्थत्वात् अत एवास्मादेव निमित्तभेदात्तयोस्त्रसस्थावरयोर्भेदः तस्मिन्सति अनर्थको भूतशब्द इति / इदानी दृष्टान्तदा न्तिकयोर्वैषम्यमाहनागरगंमि वि गामाइसंकमे अवगयंमि तब्भावे / नत्थि हु वहे वि भंगोअणवगए किमिह गामेण 131 [ नागरकेऽपि ग्रामादिसंक्रमे अपगते तद्भावे / नास्त्येव वधेऽपि भङ्गोऽनपगते किमिह ग्रामेण // 131 // ] नागरकेऽपि दृष्टान्ततयोपन्यस्त इदं चिन्त्यते / ग्रामादिसंक्रमे तस्य किमसौ नागरकभावोऽपैति को न वा। यद्यपैति ततो ग्रामादिसंक्रमे सति, अपगते तद्भावे नागरकभावे नास्त्येव वधेऽपि भङ्गः प्रत्याख्यानस्य तथाभिसन्धेः। अथ नापैत्यत्राह / अनपगते आपुरुषमभिसन्धिना अनिवृत्ते नागरकभावे किमिह ग्रामेण तत्रापि वधविरतिविषयस्तथापुरुषभावा. निवृत्तेरितिन य सइ तसभावंमि थावरकायगयं तु सो बहइ। तम्हा अणायमेयं मुद्धमइविलोहणं नेयं // 132 // [न च सति त्रसभावे स्थावरकायगतमसौ हन्ति / तस्मादज्ञातमेतत् मुग्धमतिविलोभनं ज्ञेयं // 132 // ] Page #96 -------------------------------------------------------------------------- ________________ सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 91 ] न च संति त्रसभावे नैव विद्यमान एव त्रसत्वे स्थावरकायगतमसौ हन्ति अपरित्यक्ते सत्वे स्थावरकायगमनाभावात् तस्मादज्ञातमेतत् उक्तन्यायादनुदाहरणमेतत् मुग्धमतिविलोभनं ज्ञेयं ऋजुमतिविस्मयकरं ज्ञातव्यमिति / इदानीं अन्यद्वादस्थानकम् / अन्ने उ दुहियसत्ता संसारं परिअडंति पावेण / वावाएयव्वा खलु ते तखवणट्ठया बिति॥१३३॥ [अन्ये तु दुःखितसन्चाः संसारं पर्यटन्ति पापेन / व्यापादयितव्याः खलु ते तत्क्षपणार्थं ब्रुवते // 133 // ] अन्ये तु संसारमोचका ब्रुवत इति योगः / किं ब्रुवत इत्याह दुःखितसत्त्वाः कृमिपिपीलिकादयः संसारं पर्यटन्ति संसारमवगाहन्ते पापेनापुण्येन हेतुना यतश्चैवमतो व्यापादयितव्याः खलु ते खल्वित्यवधारणे व्यापादयितव्या एव ते दुःखितसत्त्वाः, किमर्थमित्याह, तत्क्षपणार्थ पापक्षपणनिमित्तमितिता पाणवहनिवित्ती नो अविसेसेण होइ कायब्वा। अवि असुहिएसु अन्नह करणिज्जनिसेहणे दोसो॥ [तत्प्राणवधनिवृत्तिः नो अविशेषेण भवति कर्तव्या / अपि च सुखितेषु अन्यथा करणीयनिषेधने दोषः 134 ] Page #97 -------------------------------------------------------------------------- ________________ कर्तव्यो मादन्यथा यद्येवं नर कर्तव्या तद्व्याप [ 92 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / यस्मादेवं तत्तस्मात्प्राणवधनिवृत्ति विशेषेण भवति कर्तव्या अपि च सुखितेषु सुखितविषये कर्तव्या तद्व्यापादन एव दोषसंभवादन्यथा यद्येवं न क्रियते ततः करणीयनिषेधने दोषः कर्तव्यो हि परलोकार्थिना दु:खितानां पापक्षयः तनिवृत्तिकरणे प्रव्रज्यादिदाननिवृत्तिकरणवदोष इत्येष पूर्वपक्षः // अत्रोत्तरमाहतहवहभावे पावखओ त्ति न उ अट्टज्झाणओ बंधो। तेसिमिह कि पमाणं नारगनाओवगं वयणं // 135 // [ तथावधभावे पापक्षय इति न त्वार्तध्यानतो बन्धः / तेषामिह किं प्रमाणं नारकन्यायोपगं वचनम् // 135 / / ] तथा तेन प्रकारेण वधभावे व्यापत्तिकरणे पापक्षय एव न त्यार्तध्यानतो बन्धस्तेषां दुःखितानामपि किं प्रमाणं न किंचिदित्यर्थः, अत्राह, नारकन्यायोपगं वचनं नारकन्यायानुसारि वचनं प्रमाणमिति / एतदेव भावयति- . तेसिं वहिज्जमाण वि परमाहम्मिअसुरेहि अणवरयं। रुदज्झाणगयाण वि न तहा बंधो जहा विगमो / [ तेषां वध्यमानानामपि परमाधार्मिकसुरैरनवरतम् / . रौद्रध्यानगतानामपि न तथा बन्धो यथा विगमः 136 ] तेषां नारकाणां वध्यमानानां हन्यमानानामपि कैः पर Page #98 -------------------------------------------------------------------------- ________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [ 93 ] माधार्मिकसुरैरम्बादिभिरनवरतं सततं रौद्रध्यानगतानामपि न तथा वन्धो यथा विगमः कर्मणो दुःखानुभवादिति गाथार्थः / कथमेतनिश्चीयत इत्यत्राह। नरगाउबंधविरहा अणंतरं तंमि अणुववत्तीओ। तदभावेवि य खवणं परुप्परं दुक्खकरणाओ।१३७। [ नरकायुबन्धविरहादनन्तरं तस्मिन्ननुत्पत्तेः। तदभावेऽपि च क्षपणं परस्परं दुःखकरणात् // 137 // ] नरकायुबन्धविरहात् न कदाचिन्नारको नरकायुर्वधाति, अत्रैव युक्तिमाह, अनन्तरं नरकोद्वर्तनसमनन्तरमेव तस्मिन्नरक एवानुत्पत्तेरनुत्पादात् न चाव्यवहितमुत्पद्यत इति सिद्धान्तः, ततश्च यथेदं न बध्नाति तथान्यदपीत्यभिप्रायः। तदभावेऽपि च परमाधामिकाद्यभावेऽपि च पङ्कादिपृथिवीषु क्षपणं कर्मणस्तेषां परस्परं दुःखकरणादन्योन्यपीडाकरणेन " परस्परोदीरितदुःखा:" ( तत्त्वार्थाधिगमसूत्रम् 3 / 4) इति वचनात् नान्यनिमित्तं क्षपणमिति स्यादप्रतिष्ठाने नान्यनिमित्तमित्येतदाशङ्कयाह / अपइट्ठाणंमि वि संकिलेसओ चेव कम्मखवणं ति। न हि तयभावंमि सुरो तत्थ वि य खवेइ तं कम्मं // [अप्रतिष्ठानेऽपि संक्लेशत एव कर्मक्षपणमिति / न हि तदभावे सुरस्तत्रापि च क्षपयति तत्कर्म / / 138 // ] Page #99 -------------------------------------------------------------------------- ________________ [ 94 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ___ अप्रतिष्ठानेऽपि सप्तमनरकपृथिवीनरके संक्लेशत एव तथोत्क्षेपनिपातजनितदुःखादेव कर्मक्षपणमिति नान्यथा, न यस्मात्तदभावे संक्लेशाभावे सुरो देवस्तत्रापि नरके यथासंभवं कथंचिद्गतः सन् चशब्दादन्यत्र च संक्लेशरहितः क्षपयति तत्कर्म यत्प्रवाहतो नरकवेदनीयमिति / / उपसंहरनाह / तम्हा ते वहमाणो अट्टज्झाणाइगं जणंतो वि / तकम्मक्खयहेउं न दोसवं होइ णायब्बो॥१३९॥ [ तस्मात्तान् घ्नन्नार्तध्यानादिकं जनयन्नपि / तेषां कर्मक्षयहेतुर्न दोषवान् भवति ज्ञातव्यः // 139 // ] यस्मादेवं तस्मात्तान् दुःखितान्प्राणिनः घ्नन् व्यापादयन् आर्तध्यानादिकं जनयन्नपि आरौिद्रध्यानं चित्रं च संकलेश कुर्वनपि तेषां कर्मक्षयहेतुस्तेषां दुःखितानां कर्मक्षयनिमित्तमिति कृत्वा न दोषवान् भवति ज्ञातव्यः संसारमोचक इति अयमपि पूर्वपक्षः / अत्रोत्तरमाहचिट्ठउ ता इह अन्न तक्खवणे तस्स को गुणो होइ। कम्मक्खउ त्ति तंतुह किकारणगं विणिहिटुं॥१४॥ [तिष्ठतु तावदिहान्यत्क्षपणे तस्य को गुणो भवति / कर्मक्षय इति तत्तव किंकारणकं निर्दिष्टम् // 140 // ] * सप्तमनरके. Page #100 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तिष्ठतुतावदिह प्रक्रमेऽन्यद्वक्तव्यं तत्क्षपणे दुःखितसत्त्वकर्मक्षपणे तस्य क्षपयितुर्दुःखितसत्वव्यापादकस्य को गुणो भवति न हि फलमनपेक्ष्य प्रवर्तते प्रेक्षावानिति, अथैवं मन्यसे कर्मक्षय इति कर्मक्षयो गुण इत्याशङ्कयाह / तत्कर्म तव हे वादिन् किंकारणं किंनिमित्तं निर्दिष्टं प्रतिपादितं शास्त्र इति // अन्नाणकारणं जइ तदवगमा चेव अवगमा तस्स / कि वहकिरियाइ तओ विवज्जओ तोइ अह हेऊ॥ [अज्ञानकारणं यदि तदपगमादेवापगमस्तस्य / किं वधक्रियया ततः विपर्ययः तस्या अथ हेतुः // 141 // ] __ अज्ञानकारणं अज्ञाननिमित्तं यदि एतदाशङ्कयाह तदपगमादेवाज्ञाननिवृत्तरेवापगमस्तस्य निवृत्तिस्तस्य कर्मणः कारणाभावात् कार्याभाव इति न्यायात्कि वधक्रियया तत: अप्रतिपक्षत्वात्तस्या विपर्ययः तस्या वधक्रियायाः अथ हेतु वधक्रियैवेति एतदाशङ्कयाह / मुत्ताण कम्मबंधो पावइ एवं निरत्थगा मुत्ती। अह तस्स पुन्नबंधो तओ विन अंतरायाओ 142 [ मुक्तानां कर्मबन्धः प्रामोति एवं निरर्थका मुक्तिः। अथ तस्य पुण्यबन्धः तकोऽपि नान्तरायात् // 142 // ] Page #101 -------------------------------------------------------------------------- ________________ [ 96] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / मुक्तानां कर्मबन्धः प्रामोति तस्यावधक्रियानिमित्तत्वात् मुक्तानां चावधक्रियोपेतत्वात् , एवं निरर्थका मुक्तिबन्धोपतत्वात् / अथैवं मन्यसे तस्य दुःखितसत्त्वव्यापादकस्य पुण्यबन्धो गुणो न तु कर्मक्षय इत्येतदाशङ्कयाह तकोऽपि न असावपि गुणो नान्तरायात्कारणादिति / एतदेव भावयतिवहमाणो ते नियमा करेइ वहपुनमंतरायं से। ता कह णु तस्स पुन तेसि क्खवणं व हेऊओ॥ [घ्नन् तान् नियमात्करोति वधपुण्यान्तरायममीषाम् / तत्कथं तु तस्य पुण्यं तेषां क्षपणवदहेतुकत्वात् // 143 // ] घ्नन् व्यापादयंस्तान् दुःखितसच्चानियमादवश्यमेव करोति निवर्तयति असो व्यापादकः वधपुण्यान्तरायममीषां दुःखितसत्त्वानां जीवन्तो हि तेऽन्यदुःखितवधेन पुण्यं कुर्वन्ति व्या. पादने च तेषां अन्यवधाभावात्पुण्यान्तरायं यस्मादेवं तत्तस्माकथं नु तस्य व्यापादकस्य पुण्यं नैवेत्यर्थः कुतः अहेतुकत्वादिति योगः / न ह्यन्यपुण्यान्तरायकरणं पुण्यहेतुरिति सिद्ध एव हेतुः। दृष्टान्तमाह तेषां क्षपणवत् तेषां दुःखितसत्वानां व्यापाद्यमानानां कर्मक्षपणवदिति, अयमत्र भावार्थः, दुःखितसत्त्वव्यापच्या कर्मक्षय इत्यभ्युपगमः ततश्च व्यापाद्यमानानामन्यव्यापादनाभावादहेतुकत्वात्कुत कर्मक्षय इति / Page #102 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / [ 97 ] अह सगयं वहणं चिय हेऊ तस्स त्ति कि परवहेणं / अप्पा खलु हंतव्यो कम्मक्खयमिच्छमाणेणं।१४४। [ अथ स्वगतं हननमेव हेतुस्तस्य इति किं परवधेन / आत्मैव हन्तव्यः कर्मक्षयमिच्छता // 144 // ] अथैवं मन्यसे स्वगतमात्मगतं हननमेव जिघांसनमेव हेतुस्तस्य कर्मक्षयस्यैतदाशङ्कयाह इति किं परवधेन एवं न किंचित्परव्यापादनेनात्मैव हन्तव्यः कर्मक्षयमिच्छता स्वगतवधस्यैव तनिमित्तत्वादिति // अह उभयक्खयहेऊ वहु त्ति नो तस्स तन्निमित्ताओ। अविरुद्धहेउजस्स य न निवित्ती इयरभावे वि।१४५। [ अथोभयक्षयहेतुर्वध इति न तस्य तन्निमित्तत्वात् / अविरुद्धहेतुजस्य च न निवृत्तिरितरभावेऽपि // 145 // ] अथैवं मन्यसे उभयक्षयहेतुर्वधः व्यापाद्यव्यापादककर्मक्षयहेतुप्पादनं कतृकर्मभावेन तदुभयनिमित्तत्वादस्येत्येतदाश याह नैतदेवं कुतस्तस्य कर्मणस्तन्निमित्तत्वात्तद्विरुद्धवधक्रियाजन्यत्वात् , यदि नामवं ततः किमिति अत्राह अविरुद्धहेतुजस्य च निवृत्तिहेतुत्वाभिमताविरुद्ध कारणजन्यस्य च वस्तुनो न निवृत्तिन विनाशः इतरभावेऽपि विनाशकारणाविरोधिपदार्थभावेऽपीति / एतदेव भावयति Page #103 -------------------------------------------------------------------------- ________________ [98] सटीक भाषकप्रज्ञप्त्याख्यप्रकरणं / हिमजणियं सीयं चिय अवेइ अनलाओ नायवो वेइ। एवं अणभुवगमे अइप्पसंगो बला होइ / 146 / [हिमजनितं शीतमेवापैत्यनलात् नातपोऽपैति / एवमनभ्युपगमेऽतिप्रसङ्गो बलाद्भवति // 146 // ] हिमजनितं शीतमेवापैत्यनला शीतकारणविरोधित्वादनलस्य नातपोऽपैति तत्कारणाविरोधित्वादनलस्य एवमनभ्युपगमे कारणविरोधिनः सकाशानिवृत्तिरित्यनङ्गीकरणेऽतिप्र. सङ्गो बलाद्भवति तन्निवृत्तिवत्तदन्यनिवृत्तिलक्षणो अव्यवस्था नियमेनापद्यत इति / एतदेवाहतब्भावंमि अजं किचिवत्थुजत्तो कुओ विन हविज्जा। एवं च सवभावो पावइ अन्नन्नविक्खाए // 147 // [तदभावेऽपि च यत्किंचित् वस्तुजातं कुतश्चित् न भवेत् / एवं च सर्वाभावः प्रामोत्यन्योन्यापेक्षया // 147 // ] तद्भावेऽपि चीतिप्रसङ्गभावे च यत्किचिदत्र वस्तुजातं यत: कुतश्चित्सकाशान भवेत् अप्रतिपक्षादपि निवृत्त्यभ्युपगमात् / अत्रानिष्टमाह, एवं च सति सर्वाभावः प्राप्नोति अशेषपदार्थाभाव आपद्यते, कुतोऽन्योन्यापेक्षया अविरोधिनमप्यन्यमपेक्ष्यान्यस्य निवृत्तिरन्यं वान्यस्येति शून्यतापत्तिरिति // Page #104 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [99] अह तं अहेउंगंचिय कहं नु अत्थि त्ति अवगमो कहय। नागांसमाझ्याणं कुओवि सिद्धो इह विणासो।१४८॥ [अथ तदहेतुकमेव कथं त्वस्तीति अपगमः कथं च / नाकाशादिनां कुतश्चिसिद्ध इह विनाशः // 148 // ] अथैवं मन्यसे तत्कर्माहेतुकमेव निर्हेतुकमेवेत्येतदाशङ्कयाह कथं त्वस्तीति नैवास्ति तदहेतुत्वात् खरविषाणादिवत् , आकाशादिना अहेतुकेन सता व्यभिचारमाशङ्कयाह अपगमः कथं विनाशश्च कथमस्येति एतदेव भावयति नाकाशादीनां नाकाशधर्मास्तिकायप्रभृतीनां कुतश्चिल्लकुटादेः सिद्ध इह विनाशः अहेतुकत्वेन नित्यत्वादिति / इत्तु चिय अफलत्ता नो कायव्वो वहु त्ति जीवाणं / वहहेउगं चिय तयं कहं निवित्ती तओ तस्स।१४९। [ अतोऽपि अफलत्वात् न कर्तव्यो वधो जीवानाम् / वधहेतुकमेव तत् कथं निवृत्तिस्ततस्तस्य // 149 // ] अतोऽपि चाहेतुककर्माविनाशित्वेन अफलत्वात् कर्मक्षयफलशून्यत्वात् न कर्तव्यो वधो जीवानामिति / वधहेतुकमेव तत्स्याद्वधनिमित्तमेव तत्कर्मत्येतदाशङ्कयाह कथं केन प्रकारेण निवृत्तिावृत्तिस्ततस्तस्माद्वधात्तस्य कर्मणः न हि यद्यतो भवति तत्तत एव न भवति भवनाभावप्रसङ्गादिति / Page #105 -------------------------------------------------------------------------- ________________ [ 100 ] सटीकश्रावकज्ञप्त्याख्यप्रकरणं / तम्मा पाणवहोवज्जियस्स कम्मस्स क्खवणहेउत्ता। तब्बिरई कायव्वा संवररूव त्ति नियमेणं // 15 // [ तस्मात्प्राणवधोपार्जितस्य कर्मणः क्षपणहेतुत्वात् / ... तद्विरतिः कर्तव्या संवररूपेति नियमेन // 150 // ] यस्मादेवं वधहेतुकमेव तत्तस्मात्प्राणवधोपार्जितस्य कर्मणः क्षपणहेतुत्वात्तद्विरतिर्वधविरतिः कर्तव्या संवररूपेति वधविरतिविशेषणा नियमेनावश्यतयेति // किं चसुहिएसु वि वहविरई कह कीरइ नत्थि पावमह तेसु / पुन्नक्खओ वि हु फलं तब्भावे मुत्तिविरहाओ।१५१॥ [ सुखितेष्वपि वधविरतिः किं क्रियते नास्ति पापमथ तेषु / पुण्यक्षयोऽपि फलमेव तद्भावे मुक्तिविरहात् // 151 // सुखितेष्वपि प्राणिषु वधविरतिक्पादननिवृत्तिः किं क्रियते भवद्भिर्नास्ति पापं क्षपणीयमथ तेषु सुखितेषु पुण्यनिमित्तत्वात्सुखस्य एतदाशङ्कयाह पुण्यक्षयोऽपि तद्वयापत्तिजनितः फलमेव अतस्तेष्वपि वधविरतिप्रसङ्गः कथं पुण्यक्षयः फलं तद्भावे पुण्यभावे मुक्तिविरहात् मोक्षाख्यप्रधानफलाभावात् पुण्यापुण्यक्षयनिमित्तत्वात्तस्येति / अह तं सयं चिय तओ खवेइ इयरं पि किं न एमेव। कालेणं खवइ चिय उवक्कमो कीरइ वहेण / 152 / Page #106 -------------------------------------------------------------------------- ________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [ 101] [ अथ तत्स्वयमेव तकः क्षपयति इतरदपि किं न एवमेव / कालेन क्षपयत्येव उपक्रमः क्रियते वधेन // 152 // ] अथैवं मन्यसे तत्पुण्यं स्वयमेव तक आत्मनवासी सुखितः क्षपयत्यनुभवेनैव वेदयतीत्येतदाशङ्कयाह इतरदपि पापं किं न एवमेव किं न स्वयमेव दुःखितः क्षपयति क्षपयत्येवेत्यर्थः / अवं मन्यसे कालेन प्रदीर्घेण क्षपयत्येव नानान्यथाभाव उपक्रमः क्रियते वधेन तस्यैव प्रदीर्घकालवेघस्य पापस्य स्वल्पकालवेद्यत्वमापाद्यते व्यापत्तिकरणेनेति एतदाशङ्कयाह / इयरस्स किं न कीरइ सुहीण भोगंगसाहणेणेवं / नगुण त्ति तंमि खविए सुहभावो चेव तत्तुत्ति।१५३। [ इतरस्य किं न क्रियते सुखिना भोगाङ्गसाधनेन एवं / न गुण इति तस्मिन् क्षपिते सुखभावादेव तदिति // 153 // ] इतरस्येति पुण्यस्य किं न क्रियते उपक्रमः सुखिनां भोगाङ्गसाधनेन काश्मीरादेः कुंकुमादिसंपादनेन / अथैवं मन्यसे एवमुपक्रमद्वारेण न गुण इति तस्मिन्पुण्ये क्षपिते कुतः सुखभावादेव तत् इति ततः पुण्यात्सुखस्यैव प्रादुर्भावादिति एतदाशङ्कयाह / निरुवमसुक्खो मुक्खोनयसइ पुन्नेतओत्ति किन गुणो पावोदयसंदिद्धो इयरंमि उ निच्छओ केण॥१५४॥ Page #107 -------------------------------------------------------------------------- ________________ [102] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [निरुपमसौख्यो मोक्षः न च सति पुण्ये तक इति कथं न गुणः / पापोदयसंदिग्ध इतरस्मिन् तु निश्चयः केन // 154 // ] निरुपमसौख्यो मोक्षः सकलाबाधानिवृत्तेरुभयसिद्धत्वान्न च सति पुण्ये तकोऽसौ पुण्यक्षयनिमित्तत्वात्तस्येति एवं कथं न गुणः पुण्योपक्रमकरणे गुण एव / अथैवं मन्यसे पापोदयसंदिग्धोऽसौ न ह्यत्र निश्चय उपक्रमेण पुण्ये क्षपिते तस्य मोक्ष एव भविष्यति न तु पापोदय इति, एतदाशङ्कथाह इतरस्मिन् तु दुःखितपापक्षपणे निश्चयः केन यदुत तस्यैवमेवार्थों न पुनरनर्थ इति / एतदेव भावयतिदुहिओ विनरगगामी वहिओ सो अवहिओ बहू अन्ने वहिऊण न गच्छिज्जा कयाइ ता कह न संदेहो।१५५ [ दुःखितोऽपि नरकगामी हतः सोऽहतो बहूनन्यान् / हत्वा न गच्छेत् कदाचित् तस्मात्कथं न संदेहः // 155 // ] दुःखितोऽपि मत्स्यबन्धादिर्नरकगामी हतः सन् कदाचित्स्यादिति योगः नरकसंवर्तनीयस्य कर्मणः आसकलनसंभवात् वेद्यमानोपक्रमे च तदुदयप्रसङ्गात् स एवाहतोऽव्यापादित: सन् बहनन्यान् दुःखितान् हत्वा त्वन्मतेनैव पापक्षयान गच्छेत् कदाचित् यस्मादेवं तस्मात्कथं न संदेहः दुःखितपापक्षपणेऽपि संदेह एवेति // अधुना प्रागुपन्यस्तं नारकन्यायमधिकृत्याह Page #108 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [103 ] नेरइयाण वि तह देहवेयणातिसयभावओ पायं / नाईवसंकिलेसो समोहयाणं व विन्नेओ // 156 // [ नारकानामपि तथा देहवेदनातिशयभावतः प्रायः / नातीवसंक्लेशः समवहतानामिव विज्ञेयः // 156 // ] नारकानामप्युदाहरणतयोपन्यस्तानां तथा तेन प्रकारेण नरकवेदनीयकर्मोदयजनितेन देहवेदनातिशयभावतः शरीरवेदनायास्तीवभावेन प्रायो बाहुल्येन नातीवसंकलेशः क्रूरादिपरिणामलक्षणः समवहतानामिव विज्ञेयः वेदनातिशयेनान्त:करणव्यापाराभिभवादिति / एतदेवाहइत्थ वि समोहया मूढचेयणा वेयणाणुभवखिन्ना। तंमित्तचित्तकिरिया न संकिलिस्संति अन्नत्थ।१५७ [अत्रापि समवहता मूढचेतना वेदनानुभवखिन्नाः। . तन्मात्रचित्तक्रिया न संकलिश्यन्ते अन्यत्र // 157 // ] अत्रापि तिर्यग्लोके समवहता वेदनासमुद्घातेनावस्थान्तरमुपनीता मूढचेतना विशिष्टस्वव्यापाराक्षमचैतन्या वेदनानुभवखिन्नाः तीव्रवेदनासंवेदनेन श्रान्ताः तन्मात्रचित्तक्रिया वेदनानुभवमात्रचित्तव्यापारा न संकलिश्यन्ते न रागादिपरिणाम यान्ति अन्यत्र स्त्र्यादौ तत्रैव निरोधादिति / Page #109 -------------------------------------------------------------------------- ________________ [104 ] सटीकश्रावकज्ञप्त्याख्यप्रकरणं / ता तिव्वरागदोसाभावे बंधो वि पयणुओ तेसि। सम्मोहओ चिय तहा खओविणेगंतमुक्कोसो 158 [ तत्तीव्ररागद्वषाभावे बन्धोऽपि प्रतनुस्तेषाम् / .. सम्मोहत एव तथा क्षयोऽपि नैकान्तोत्कृष्टः // 158 // ] यस्मादेवं तत्तस्मात्तीवरागद्वेषाभावे बन्धोऽपि प्रतनुस्तेषां समवहतानां निमित्तदौर्बल्यात् सम्मोहत एव तथा क्षयोऽपि बन्धस्य नैकान्तोत्कृष्टस्तेषां सम्यग्ज्ञानादिविशिष्टतत्कारणाभावादिति / यथा नोत्कृष्टक्षयस्तथा चाह / जं नेरइओ कम्मं खवेइ बहुआहि वासकोडीहिं। तन्नाणी तिहि गुत्तो खवेइ ऊसासमित्तेण / 159 / [यनारकः कर्म क्षपयति बहवीभिवर्षकोटीभिः / तज्ज्ञानी तिसृभिगुप्तः क्षपयत्युच्छ्वासमात्रेण // 159 // ] यनारकः कर्म क्षपयति बह्वीभिर्वर्षकोटीभिस्तथा दुःखितः सन् क्रियामात्रक्षपणात् तज्ज्ञानी तिसृभिगुप्तिभिगुप्तः क्षपय. त्युच्छ्वासमात्रेण संवेगादिशुभपरिणामस्य तत्क्षयहेतोस्तीवत्वात् // निगमयन्नाहएएण कारणेणं नेरइयाणं पि पावकम्माणं / ' तह दुखियाण वि इहं न तहा बंधो जहा विगमो॥ Page #110 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 105 ] [ एतेन कारणेन नारकाणामपि पापकर्मणाम् / / तथा दुःखितानामपीह न तथा वन्धो यथा विगमः१६० ] एतेनानन्तरोदितेन कारणेन नारकाणामपि पापकर्मणां तथा तेन प्रकारेण दुःखितानामपीह विचारे न तथा बन्धो यथा विगमः प्राया रौद्रध्यानाभावादिति / अह उ तहाभावपि हुकुणइ वहंतो न अन्नहा जेण। ता काय वो खु तओ नो तप्पडिवक्खबंधाओ // [ अथ तु तथाभावमपि करोति नमेव नान्यथा येन / तत्कर्तव्य एव तको नो तत्प्रतिपक्षबन्धात् // 161 // ] अथैवं मन्यसे तथाभावमपि सम्मोहभावमपि प्रतनुबन्धेन कर्मक्षयहेतुं करोति. घ्नन्नेव व्यापादयमेव नान्यथा येन कार न तत्तस्मात्कर्तव्य एव तको वध इत्याशङ्कयाह नो नैतदेवं तत्प्रतिपक्षबन्धाद्वधप्रतिपक्षोऽवधस्तस्माद्बन्धादन्यथावधात्तत्क्षयानुपपत्तिरविरोधादिति / एवं त्र मुत्तबंधादओ इहं पुव्ववन्निया दोसा / अणिवारणिज्जपसरा अब्भुवगयबाहगा नियमा॥ [ एवं च मुक्तबन्धादय इह पूर्ववर्णिता दोषाः। अनिवारितप्रसरा अभ्युपगमवाधका नियमेन // 162 // ] एवं चावधाबन्धापत्तौ मुक्तबन्धादय इह पूर्ववर्णिता दोषा Page #111 -------------------------------------------------------------------------- ________________ [106 ] सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / अनिवारितप्रसराः अभ्युपगमवाधका वधात्कर्मक्षय इत्यङ्गीकृतविरोधिनो नियमेन अवश्यतयेति / उपसंहरन्नाहइय एवं पुवावरलोगविरोहाइदोससयकलियं / मुद्धजणविम्हयकरं मिच्छत्तमलं पसंगेणं / 163 / [इति एवं पूर्वापरलोकविरोधादिदोषशतकलितम् / मुग्धजनविस्मयकरं मिथ्यात्वमलं प्रसङ्गेन // 163 // ] इय एवमेतत्पूर्वापरलोकविगेधादिदोषशतकलितं मुग्धजनविस्मयकर संसारमोचकमतं मिथ्यात्वं अलं पर्याप्त प्रसङ्गेनेति / / अधुनान्यद्वादस्थानकमाहअन्ने आगंतुगदोससंभवा बिंति वहनिवित्तीओ। दोण्ह वि जणाण पावं समयंमि अदिट्ठपरमत्था // [अन्ये आगन्तुकदोषसंभवात् ब्रुवते वधनिवृत्तेः / द्वयोरपि जनयोः पापं समये अदृष्टपरमार्थाः // 164 // ] अन्ये वादिनः आगन्तुकदोषसंभवात्कारणात् बुवते किं वधनिवृत्तेः सकाशाद्वयोरपि जनयोः प्रत्याख्यात्प्रत्याख्यापयित्रोः पापं समये आममे अदृष्टपरमार्था अनुपलब्धभावार्था इति // ___ आगन्तुकदोषसंभवमाह Page #112 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [107 ] सव्ववहसमत्थेणं पडिवन्नाणुव्वएण सिंहाई / ण घाईओ ति तेणं तु घाइतो जुगप्पहाणो उ / 165 / [ सर्ववधसमर्थन प्रतिपन्नाणुव्रतेन सिंहादिः / न घातित इति तेन तु घातितो युगप्रधानस्तु // 165 // ] सर्ववधसमर्थेन सिंहादिक्रूरसत्त्वव्यापादनक्षमेण प्रतिपन्नाणुव्रतेन सता सिंहादिः सिंहः शरभो वा न घातित इति तेन तु सिंहादिना घातितो युगप्रदानोऽनुयोगधर एक एवाचार्यः / संभवत्येतदिति // तत्तो तित्थुच्छेओ धणियमणत्थो पभूयसत्ताणं / ता कह न होइ दोसो तेसिमिह निवित्तिवादीणं // [ ततः तीर्थोच्छेदः अत्यर्थं अनर्थः प्रभृतसचानाम् / तत्कथं न भवति दोषःतेषामिह निवृत्तिवादिनाम् / 166 / ] ततस्तस्मादाचार्यघातातीर्थोच्छेदः धनितमत्यर्थमनर्थः प्रभूतसत्त्वानां दर्शनाद्यनवाप्त्या मुमुक्षूणां यतश्चैवं तत्तस्मात् कथं न भवति दोषः तेषां प्रत्याख्यातृप्रत्याख्यापयितृणां इह विनाशकरणे निवृत्तिवादिनां भवत्येवेति / तम्हा नेव निवित्ती कायव्वा अवि य अप्पणा चेव / अद्धोचियमालोचिय अविरुद्ध होइ कायव्वं / 167 / Page #113 -------------------------------------------------------------------------- ________________ [ 108] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ तस्मात् नैव निवृत्तिः कार्या अपि चात्मनैव / अद्धोचितमालोच्य अविरुद्धं भवति कर्तव्यम् // 167 // ] यस्मादेवं तस्मान्नैव निवृत्तिः कार्या अपि चात्मनैवाद्धोचितं कालोचितमालोच्य अविरुद्धं भवति कर्तव्यं यद्यस्यामवस्थायां परलोकोपकारीति एषः पूर्वपक्षः / अत्रोत्तरमाहसीहवहरखिओ सो उड्डाहं किंपि कहवि काऊणं / किं अप्पणो परस्स य न होइ अवमारहेउत्ति / 168 / [सिंहवधरक्षितोऽसौ उड्डाहं किमपि कथमपि कृत्वा / किं आत्मनः परस्य च न भवत्यपकारहेतुरिति // 168 // ] एवमपि दोषसंभवे नन्विदमपि संभवति / सिंहवधरक्षितोऽसावाचार्य उड्डाहमुपघातं किमपि योषिदासेवनादिकं कथमपि कलिष्टकर्मोदयात् कृत्वा किमात्मनोबोधिलाभनिवर्तनीयकर्मबंधहेतुत्वेन परस्य च श्रावकादेविपरिणामकरणेन न भवत्यपकारहेतुर्भवत्येवेति // किंइय नतित्थहाणी किंवा वहिओ न गच्छई नरयं / सीहो किंवा सम्मं न पावई जीवमाणो उ।१६९। [किमेवं न तीर्थहानिः किं वा वधितो न गच्छति नरकम् / सिंहः किं वा सम्यक्त्वं न प्रामाति जावन् तु // 169 // ] किमेवं न तीर्थहानिस्तीर्थहानिरेव / किं वा वधितो Page #114 -------------------------------------------------------------------------- ________________ सटीकश्रीषकप्रज्ञप्त्याख्यप्रकरणं / [109] व्यापादितः क्रूराशयत्वान्न गच्छति नरकं सिंहो गच्छत्येव / किं चा सम्यक्त्वं न प्राप्नोति जीवन सिंहोऽतिशयवत्साधुसमीपे संभवति प्राप्तिरिति // किं वा तेणावहिओ कहिँचिअहिमाइणान खज्झेज्झा। सो ता इहपि दोसो कहं न होइ त्ति चिंतमिणं॥१७०॥ [किं वा तेनाहतः कथंचित् अह्यादिना न खाद्यत / स तस्मादिहापि दोषः कथं न भवतीति चिन्त्यमिदं / 170 / ] किं वा तेन सिंहेनाहतोऽव्यापादितः सन् कथंचिद्रजन्यां प्रमादादह्यादिना सर्पण गोनसेन वा न खायेत स आचार्यः संभवति सर्वमेतत् यस्मादेवं तस्मादिहापि दोषो भवदभिमतः कथं न भवतीति चिन्त्यमिदं विचारणीयमेतदिति // . यतश्चैवमतः। सव्व पवित्तिअभावो पावइ एवं तु अन्नदाणे वि / तत्तो विसूइयाई न संभवंतित्थ कि दोसा // 171 // [ सर्वप्रवृत्त्यभावः प्रोमोत्येवं तु अन्नदानेऽपि / ततः विसूचिकादयः न संभवन्त्यत्र कि दोषाः // 171 / / सर्वप्रवृत्यभावः प्रामोत्येवमागन्तुकदोषसंभवात् एवं च सत्यनदानेऽपि न प्रवर्तितव्यं / अपिशब्दाददानेऽपि / ततोऽन्नदानादेविसूचिकादयो विचिका मरणं अदाने प्रद्वेषतो Page #115 -------------------------------------------------------------------------- ________________ [110 सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / धनहरणव्यापादनादयो न संभवन्त्यत्रान्नदानादौ कि दोषाः संभवन्त्येवेति // तथासयमवि य अपरिभोगो एत्तो चिय एवं गमणमाई वि। सव्वं न जुझइ चिय दीसासंकानिवित्तीओ // 172 / [ स्वयमपि चापरिभोगः अत एव एवं गमनाद्यपि / सर्व न युज्यत एव दोषाशंकानिवृत्तेः // 172 // ] स्वयमपि चापरिभोगोऽन्नादेत ‘एवागन्तकदोषसंभवादेव / एवं गमनाद्यपि गमनमागमनमवस्थानं सर्व न युज्यत एव दोषाशङ्कानिवृत्तेः गच्छतोऽपि कण्टकवेधादिसंभवादागच्छतोऽपि अवस्थानेऽपि गृहपातादिसंभवदर्शनादिति // अणिवित्ती विहु एवं कह कायव्व त्ति भणियदोसाओ। आलोयणं पि अवराहसंभवाओ ण जुत्तं ति।१७३। [अनिवृत्तिरपि खलु एवं कथं कर्तव्येति भणितदोषात् / आलोचनमपि अपराधसंभवात् न युक्तमिति // 173 // ] अनिवृत्तिरप्येवं कथं कर्तव्येति भणितदोषादनिवृत्तित एव राजमयूरादिव्यापादनेन दोषसंभवात् / आलोचनमपि प्रागुपदिष्टं (167) आत्यन्तिककार्यविघ्नत्वात् किमप्येते आलोचयन्तीति चान्यापकारप्रवृत्तेरपराधसंभवान्च युक्तमेवेति // उपसंहरनाह Page #116 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यमकरणं। [111 ] इय अणुभंवलोगागमविरुद्धमेयं न नायसमयाणं / मइविभमस्स हेऊ वयणं भावत्थनिस्सारं / 174 / [ एवं अनुभवलोकागमविरुद्धमेतत् न ज्ञातसमयानाम् / मतिविभ्रमस्य हेतु: वचनं भावार्थनिस्सारम् // 174 // ] इय एवं अनुभवलोकागमविरुद्धमेतत् / निवृत्तौ परिणामशुद्धयनुभवादनुभवविरुद्धं समुद्रादिप्रतरणादिप्रवृत्तेर्लोकविरुद्धं यस्य कस्यचिद्विधानादागमविरुद्ध एतत्पूर्वपक्षवादिवचनमिति योगः / न ज्ञातसमयानां नावगतसिद्धान्तानां मतिविभ्रमस्य हेतुः कथमेतच्छोभनं . मतिविप्लवस्य. कारणं किं विशिष्टं वचनं भावार्थनिस्सारं अभिप्रेतगर्भार्थशून्यमिति / यस्मादेवंतम्हा विसुद्धचित्ता जिणवयणविहीइ दोवि सद्धाला। वहविरइसमुज्जुत्ता पाव छिदंति धिइबलिणो।१७५। [ तस्माद्विशुद्धचित्तौ जिनवचनंविधिना द्वावपि श्रद्धावन्तौ / वधविरतिसमुद्युक्तौ पापं छित्तः धृतिबलिनौ // 175 // ] तस्माद्विशुद्धचित्तौ अपेक्षारहितौ जिनवचनविधिना प्रवचनोक्न प्रकारेण द्वावपि प्रत्याख्यात्प्रत्याख्यापयितारौ श्रद्धावन्तौ वधविरतिसमुद्युक्तौ यथाशक्त्या पालनोद्यतौ पापं छित्तः कर्म क्षेपयतः धृतिबलिनौ अप्रतिपतितपरिणामाविति / सांप्रतमन्यद्वादस्थानकम् Page #117 -------------------------------------------------------------------------- ________________ [ 112 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / निच्चाण वहाभावा पयइअणिचाण चेव निबिसया। एगंतेणेव इहं वहविरई केइ मन्नति // 176 // [ नित्यानां बधाभावात्प्रकृत्यनित्यानां चैव निर्विषया। एकान्तेनैव इह बधविरतिः केचन मन्यन्ते // 176 // ] - जीवाः किल नित्या वा स्युरनित्या वेत्युभयथापि दोष: नित्यानां वधामावात् प्रकृत्यनित्यानां चैव स्वभावभगुराणां चैव वधाभावात् निविषया निरालंबना. एकान्तेनैव अत्र पक्षद्वये का वधविरतिः संभवाभावात् केचन वादिनो मन्यन्त इति / - एतदेव भाषपतिएगसहावो निचो तस्स कह वहो अणिञ्चभावाओ। पयइअणिचस्स वि अन्नहेऊभावाणवेक्खाओ।१७७। [ एकस्वभावो नित्यः तस्य कथं वधः अनित्यभावात् / प्रकृत्यनित्यस्यापि अन्यहेतुभावानपेक्षातः // 177 // ] एकस्वभावोऽप्रच्युतानुत्पन्नस्थिरैकधर्मा नित्यः तस्य कथं वधः जिघांसनमनित्यभावादतादवस्थो नानित्यत्वापत्तेरित्यर्थः प्रकृत्यनित्यस्यापि स्वभावतोऽप्यनित्यस्य कथं वध इति वर्तते कथं च नेत्याह अन्यहेतुभावानपेक्षातः स्वव्यतिरिक्तहेतुसत्तानपेक्षत्वात् तत्स्वभावत्वे च स्वत एव निवृत्तेरिति / प्रक्रान्तोपचयमाह Page #118 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 113 ] किं च सरीरा जीवो अन्नोणन्नो व हुज्ज जइ अन्नो। ता कह देहवहमि वि तस्स वहो घडविणासे व्य॥ [किं च शरीरात् जीवः अन्योऽनन्यो वा भवेत् यद्यन्यः / तत्कथं देहवधेऽपि तस्य वधः घटविनाश इव // 178 // ] किं चान्यच्छरीरात्सकाशाज्जीवोऽनन्यो वा भवेत् द्वयी गतिः किं चातः यद्यन्यस्तत्कथं देहवधे प्रकृतिविकारत्वेनार्थान्तरभूतदेहविनाशे तस्य जीवस्य वधो नैवेत्यर्थः घटविनाश इव न हि घटे विनाशिते जीववधो दृष्टः तदर्थान्तरत्वादिति / द्वितीयं विकल्पमधिकृत्याहअह उ अणन्नो देहब्व सोतओसव्वहा विणस्सिज्जा। एवं न पुण्णपावा वहविरई किनिमित्ता भे।१७९। [अथ त्वनन्यः देह इवासौ, ततः सर्वथा विनश्येत् / एवं न पुण्यपापे वधविरतिः किं निमित्ता भवताम् 179] अथ त्वनन्यः शरीराज्जीव इत्येतदाशङ्कयाह / देह इवासौ ततः अनन्यत्वाद्धेतोः सर्वथा विनश्येत् / शरीरं च विनश्यत्येव न परलोकयायि / एवं च न पुण्यपापे भोक्तुरभावात् वधविरतिः किंनिमित्ता मे भवतां विरतिवादिनामिति एष पूर्वपक्षः। अत्रोत्तरमाह Page #119 -------------------------------------------------------------------------- ________________ [114 ] सटीकाषकप्रज्ञप्त्याख्यप्रकरणं / निचाणिचो जीवो भिन्नाभिन्नो य तहसरीराओ। तस्स वहसंभवाओतविरई कहमविसयाउ।१८०। [ नित्यानित्यो जीवो भिन्नाभिन्नश्च तथा शरीरात् / तस्य वधसंभवात् तद्विरतिः कथमविषया तु // 180 // ] एकान्तनित्यत्वादिभेदप्रतिषेधेन नित्यानित्यो जी द्रव्यपर्यायरूपत्वात् भिन्नाभिन्नश्च तथा शरीरात् तथोपलब्धेः अन्यथा दृष्टेष्टविरोधात् तस्य वधसंभवाद्धेतोस्तद्विरतिर्वधविरतिः कथमविषया नैवेत्यर्थः। नित्यानित्यत्वव्यवस्थापनायाहनिचाणिचो संसारलोगववहारओ मुणेयब्वो। न य एगसहाव मि संसाराई घडति ति // 181 // [नित्यानित्यः संसारलोकव्यवहारतः मुणितव्यः / न चैकस्वभावे संसारादयो घटन्त इति // 181 // ] नित्यानित्यो जीव इति गम्यते कुतः संसाराल्लोकव्यवहारतो मुणितव्य: त एव सचा नरकं व्रजन्तीत्यादि संसाराद् गत आगत इति लोकव्यवहाराच्च विज्ञेय इति / विपक्षव्यवच्छेदार्थमाह / न चैकस्वभावे न च नित्याद्यकर्मिण्येवात्मनि संसारादयो घटन्त इति गाथासमुदायार्थः // अधुना अवयवार्थमाह / Page #120 -------------------------------------------------------------------------- ________________ सटीकश्रावक प्रज्ञप्त्याख्यप्रकरणं / [ 115 ] निच्चस्स सहावं तरमपावमाणस्स कह णु संसारो। जमाणंतरनट्ठस्स चेव एगंतओ मूलो // 182 // [नित्यस्य स्वभावान्तरमप्राप्नुवतः कथं नु संसारः / जन्मानन्तरनष्टस्यैव एकान्ततोऽमूलः // 182 // ] नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावेन हेतुना स्वभावान्तरमप्रामुवतः सदैवैकरूपत्वात् कथं नु संसारो नैव विचित्रत्वात्तस्य जन्मानन्तरनष्टस्यैव च सर्वथोत्पत्त्यनन्तरापवर्गिणः एकान्ततोऽमूलः तस्यव तथापरिणामवैकल्यत एकान्तेनैवाकारणः कुतः संसार इति। एत्तो चिय ववहारोगमणागमणाइ लोगसंसिद्धो। न घडइ जंपरिणामी तम्हा सो होइ नायवो 183 [ अत एव व्यवहारो गमनागमनादिलॊकसंसिद्धः / न घटते यत् परिणामी तस्मात् असौ भवति ज्ञातव्यः / 183] अत एवानन्तरोदितादेकान्तनित्यत्वादेहेंतोर्व्यवहारो गमनागमनादिन घटते एकत्रैकस्वभावस्याध्यासितदेशव्यतिरेकेण देशान्तराध्यासायोगात् अन्यत्र च तस्यैवाभावेनापरानुत्पत्तेरिति / आदिशब्दात्स्थानशयनासनभोजनादिपरिग्रहः यद्यस्मादेवं तस्मापरिणाम्यसावात्मा भवति ज्ञातव्यः परिणामलक्षणं चेदम्परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः // 1 // इति / Page #121 -------------------------------------------------------------------------- ________________ [ 116 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ___ एतदेव भावयतिजह कंचणस्सकंचणभावेण अवट्ठियस्स कडगाई। उप्पज्जंति विणसंति चेव भावा अणेगविहा 184 [ यथा कांचनस्य कांचनभावेन अवस्थितस्य कटकादयः / उत्पद्यन्ते विनश्यन्ति चैव भावा अनेकविधाः // 184 // ] यथा काश्चनस्य सुवर्णस्य काञ्चनभावेन सर्वभावानुयायिन्या सुवर्णसत्तया अवस्थितस्य कटकादयः कटककेयूरकर्णालंकारादयः उत्पद्यन्ते आविर्भवन्ति विनश्यति च तिरोभवन्ति च भावाः पर्यायाः अनेकविधा अन्वयव्यतिरेकवन्तः स्वसंवेदनसिद्धा अनेकप्रकारा इति। . एवं च जीवदब्वस्स दव्वपज्जवविसेसभइयस्स। निच्चत्तमणिचत्तं च होइ णाओवलभंतं // 185 // [एवं च जीवद्रव्यस्य द्रव्यपर्यायविशेषभक्तस्य / नित्यत्वमनित्यत्वं च भवति न्यायोपलभ्यमानम् // 185 // ] एवं च जीवद्रव्यस्य किंविशिष्टस्य द्रव्यपर्यायविशेषभक्तस्यानुभवसिद्धया उभयरूपतया विकल्पितस्य नित्यत्वमनित्यत्वं च भवति न्यायोपलभ्यमानम् / पृथग्विभक्तिकरणं द्वयोरपि निमित्तभेदख्यापनार्थ न्यायः पुनरिह नारकाद्यवस्थासु मिथो भिन्नास्वपि जीवान्वय उपलभ्यते तस्मिंश्च नारकादिभेद इति / Page #122 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 117 ] द्वितीयपक्षमधिकृत्याहएगतेण सरीरादन्नत्ते तस्स तकओ बंधो। न घडइ न य सो कत्ता देहादत्थंतरभूओ।१८६। [ एकान्तेन शरीरादन्यत्वे तस्य तत्कृतः बन्धः / न घटते न चासौ कर्ता देहादर्थान्तरभूतः // 18 // ] एकान्तेन सर्वथा शरीरादन्यत्वे अभ्युपगम्यमाने तस्य जीवस्य किं तत्कृतो बन्धः जीवस्य शरीरनिवर्तितो बन्धो न घटते न हि स्वत एव गिरिशिखरपतितपाषाणतो जीवघाते देवदत्तस्य बन्ध इति / स्यादर्थान्तरस्यापि तत्करणकर्तृत्वेन बंध इत्येतदाशंक्याह-न चासौ कर्ता देहादर्थान्तरभूतः निःक्रियत्वान्मुक्तादिभिरतिप्रसङ्गादिति / स्यादेतत्प्रकृतिः करोति पुरुष उपभुक्त इत्येतदाशंक्याहअन्नकयफलुवभोगे अइप्पसंगो अचेयणं कह य / कुणइ तकं तदभावे भुंजइ य कहं अमुत्तो ति॥ [अन्यकृतफलोपभोगेऽतिप्रसंगः अचेतनं कथं च / करोति तकं तदभावे भुंक्ते च कथं अमूर्त इति // 187 // ] अन्यकृतफलोपभोगे प्रकृत्यादिनिवर्तितफलानुभवेऽभ्युपगम्यमानेऽतिप्रसङ्गः भेदाविशेषेऽन्यकृतस्यान्यानुभवप्रसङ्गात् वास्तवसंबंधाभावात् अचेतनं च कथं करोति तत्प्रधानं किंचि Page #123 -------------------------------------------------------------------------- ________________ [118 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / दध्यवसायशून्यत्वात् घटवत् न हि घटस्यापराप्रेरितस्य क्वचित्करणमुपलब्धं न च प्रेरकः पुरुषः उदासीनत्वादेकस्वभावत्वाच्च तदभावे भोग्याभावे शरीराभावे वा. भुंक्ते च कथं अमूर्त इति बुद्धिप्रतिबिम्बोदयरूपोऽपि भोगो न युज्यते अमू. तस्य प्रतिबिम्बाभावात् भावेऽपि मुक्तादिभिरतिप्रसङ्गः न च सनिहितमपि किंचिदेव प्रतिबिंब्यते न सर्व तत्म्वभावमिति विशेषहेत्वभावात् अलं प्रसङ्गेन / किं चन य चेयणा वि अणुभवसिद्धा देहमि पावई एवं। तीए विरहमि दढं सुहदुक्खाई न जुज्जति / 188 / [न च चेतनापि अनुभवसिद्धा देहे प्रामोति एवम् / तस्या अभाव दृढं सुखदुःखादयो न युज्यन्ते // 188 // ] न च चेतनापि अनुभवसिद्धा स्पृष्टोपलब्धिद्वारेण देहे प्रामोति एवमेकान्तभेदे सति, न हि घटे काष्ठादिना स्पृष्टे चैतन्यं, वेद्यते च देह इति, तस्याश्चेतनाया विरहे चाभावे च दृढमत्यर्थं सुखदुःखादयो न युज्यन्ते, न हि पाषाणप्रतिमायां सुखादयोऽचेतनत्वादिति, यदि न युज्यन्ते नाम का हानिरित्येतदाशंक्याहसगचंदणविससत्थाइजोगओ तस्स अह य दीसंति। तब्भावंमि वि तन्भिन्नवत्थुपगए ण एवं तु / 189 // Page #124 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 119 ] [ सकचन्द विषशस्त्रादियोगतः तस्य अथ च दृश्यन्ते / तद्भावेऽपि तद्भिन्नवस्तुप्रगते न एवं तु // 189 // ] स्रकचन्दनविषशस्त्रादियोगतस्तस्य शरीरस्याथ च दृश्यन्ते स्वकीयेऽनुभवेन अन्यदीये रोमाश्चादिलिङ्गत इति / विपक्षे बाधामाह / तद्भावेऽपि स्रगादिभावेऽपि तद्भिन्नवस्तुप्रगते आत्मभिन्नघटादिवस्तुसंगते न एवं सुखादयो दृश्यन्ते / न हि घटे स्रगादिभिश्चर्चितेऽपि देवदत्तस्य सुखादय इति / उपसंहरनाहअन्नुन्नाणुगमाओ भिन्नाभिन्नो तओ सरीराओ। तस्स य वहमि एवं तस्स वहो होइ नायव्वो।१९०। [अन्योन्यानुगमात् भिन्नाभिन्नोऽसौ शरीरात् / तस्य च वधे एवं तस्य वधो भवति ज्ञातव्यः // 190 // ] अन्योन्यानुगमाज्जीवशरीरयोरन्योन्यानवेधाद्भिन्नाभिन्नो ऽसौ जीवः शरीरात् आहान्योन्यरूपानुवेधे इतरेतररूपापत्तिस्ततश्च नामूर्त मूर्ततां याति मूतं नायात्यमूर्तताम् / द्रव्यं त्रिष्वपि कालेषु च्यवते नात्मरूपतः // इति वचनाद्भगवन्मतविरोधो न भगवद्वोदृढदानात् आलदानात नानुभवविरुद्धवस्तुवादी भगवान् नय विषयत्वात् , तस्य च शरीरस्य वधे घाते एवमुक्तन्यायाजीवानुवेधसिद्धौ, तस्य जीवस्य बधो भवति ज्ञातव्य इति / Page #125 -------------------------------------------------------------------------- ________________ [ 120 ] सटीक श्रावकज्ञप्त्याख्यप्रकरणं / - अधुना वधलक्षणमेवाहतप्पज्जायविणासो दुक्खुप्पाओ असंकिलेसोय / एस.वहो जिणभणिओ वज्जेयव्वो पयत्तेणं / 191 // [ तत्पर्यायविनाशः दुःखोत्पादश्च संक्लेशश्च / एष वधो जिनभणितः वर्जयितव्यः प्रयत्नेन // 191 // ] तत्पर्यायविनाशः मनुष्यादिजीवपर्यायविनाशः दुःखोत्पादश्च व्यापाद्यमानस्य, चित्तसंक्लेशश्च कलिष्टचित्तोत्पादश्वात्मनः एष वधो व्यस्तः समस्तो वा ओघतो जिनभणितः तीर्थकरोक्तो वर्जयितव्यः प्रयत्नेनोपयोगसारेणानुष्ठानेनेति // इदानीमन्यद्वादस्थानकम्अन्ने अकालमरणस्सभावओ वहनिवित्तिमो मोहा। वंझासुअपिसियासणनिवित्तितुल्लं ववइसंति।१९२। [अन्येऽकालमरणस्याभावात् वनिवृत्तिर्मोहात् / वंध्यासुतपिशिताशननिवृत्तितुल्यां व्यपदिशन्ति // 192 // ] अन्ये वादिन: स्वकृतकर्मफलं प्रत्युपभोगभावेन अकालमरणस्याभावाद्वधनिवृत्तिमेव मोहाद्वेतोर्वन्ध्यासुतपिशिताशननिवृत्तितुल्याँ व्यपदिशन्ति / वन्ध्यासुतस्यैवाभावात्तत्पिशितस्याप्यभावः, पिशितं मांसमुच्यते, तदभावाच कुतस्तस्याशनं भक्षणम् , असति तस्मिनिर्विषया तनिवृत्तिः / एवमकालमर Page #126 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [121 ] णाभावेन वधाभावाद्वधनिवृत्तिरपीति / एतदेव समर्थयतिअन्झीणे पुवकए न मरइ झीणे य जीवइ न कोइ। सयमेव ता कह वहो उवकमाओ वि नो जुत्तो।१९३। [ अक्षीणे पूर्वकृते न म्रियते क्षीणे च जीवति न कश्चित् / स्वयमेव तत्कथं वधः उपक्रमादपि न युक्तः // 193 // ] अक्षीणे पूर्वकृते आयुष्ककर्मणि न म्रियते कश्चित् , स्वकृतकर्मफलं प्रत्युपभोगाभावप्रसङ्गात् , क्षीणे च तस्मिन् जीवति न कश्चित् अकृताभ्यागमकृतनाशप्रसङ्गात् , स्वयमेवात्मनैवैतदेवमिति तत्तस्मात्कथं वधो निमित्ताभावात् नास्त्येवेत्यभिप्रायः / कर्मोपक्रमाद्भविष्यतीत्येतदाशङ्कयाह उपक्रमादपि अपान्तराल एव तत्क्षयलक्षणान्न युक्त इति / अत्रैवोपपत्तिमाहकम्मोवक्कामिज्जइ अपत्तकालं पि जइ तओ पत्ता। अकयागमकयनासा मुक्खाणासासया दोसा।१९४॥ [कर्मोपक्राम्यते अप्राप्तकालमपि यदि ततः प्राप्तौ / अकृतागमकृतनाशौ मोक्षानाश्वासता दोषाः // 194 // ] कर्मोपक्राम्यते अर्धमार्ग एव क्षयमुपनीयतेऽप्राप्तकालमपि स्वविपाकापेक्षया यदि ततः प्राप्तावकृतागमकृतनाशौ अपान्तराल एव मरणादकृतागमः प्रभूतकालोपभोग्यस्यारत एव क्षयात्कृ Page #127 -------------------------------------------------------------------------- ________________ [ 122 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / - तनाशः मोक्षानाश्वासता अतः मोक्षेऽनाश्वासता अनाश्वासभावः मृत्युवत् अकृतस्यापि कर्मणो भावाशङ्कानिवृत्तेः कृतस्यापि च कर्मक्षयश्च (कर्मणःक्षयश्च !) नाशसंभवाद् एत एव दोषा इति एष पूर्वपक्षः / अधुनोत्तरपक्षमाहनहि दीहकालियस्स वि नासो तस्साणुभूइओ खिप्पं / बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो / 195 / [ न हि दीर्घकालिकस्यापि नाशः तस्यानुभूतितः क्षिप्रम् / बहुकालाहारस्येव द्रुतमग्निकरोगिणो भोगः // 195 // ] न हि नैव दीर्घकालिकस्यापि प्रभूतकालवेद्यस्यापि उपक्रमतः स्वल्पकालवेदनेऽपि नाशस्तस्य कर्मणः अनुभूतित: क्षिप्रं समस्तस्यैव शीघ्रमनुभूतेः / अत्रैव निदर्शनमाह / बहुकालाहारस्येव सेतिकापलभोगेन वर्षशताहारस्येव द्रुतं शीघ्रमग्निकरोगिणो भस्मकव्याधिमतो भोगः स हि तमेकदिवसेनैव भुंक्त व्याधिसामर्थ्यात् न च तत्र किंचिन्नश्यति संपूर्णभोगात् एवमुपक्रमकर्मभोगेऽपि योज्यमिति / एतदेवाहसव्वं च पएसतया भुज्जइ कम्ममणुभावओ भइयं। तेणावस्साणभवे के कयनासादओ तस्स // 196 // [ सर्व च प्रदेशतया भुज्यते कर्म अनुभावतो भाज्यम् / तेनावश्यानुभवे के कृतनाशादयः तस्य- // 196 // ] * तस्य-हन्यमानस्य / Page #128 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 123 ] सर्व च प्रदेशतया कर्मप्रदेशविचटनक्षपणलक्षणया भुज्यते कर्म अनुभावतो भाज्यं विकल्पनीयं विपाकेन तु कदाचि द्भुज्यते कदाचिन्नेति क्षपकश्रेणिपरिणामादावन्यथापि भोगसिद्धेरन्यथा निर्मोक्षप्रसङ्गात् तेन कारणेन अवश्यानुभवे प्रदेशतया नियमवेदने के कृतनोशादयः नैव कृतनाशादय इति / किं चउदयक्खयक्खओवसमोवसमा जंच कंमुणो भणिया। दब्वाइपंचयं पइ जुत्तमुवक्कामणमओ वि / 197 / [ उदयक्षयक्षयोपशमोपशमा: यच्च कर्मणो भणिताः / द्रव्यादिपंचकं प्रति मुक्तमुपक्रामणमतोऽपि // 197 // ] उदयक्षयक्षयोपशमोपशमाः यच्च यस्मात्कारणात्कर्मणो भणितास्तीर्थकरगणधरैः द्रव्यादिपञ्चकं प्रति द्रव्यं क्षेत्रं कालं भवं भावं च प्रतीत्य यथा द्रव्यं माहिषं दधि क्षेत्रं जांगलं कालं प्रावृलक्षणं भवमेकेन्द्रियादिकं भावमौदयादिकमालस्यादिकं वा प्रतीत्योदयो निद्रावेदनीयस्य एवं व्यत्ययादिना क्षयादियोजना कार्या युक्तमुपक्रामणमतोऽपि अनेन कारणेन कर्मण उपक्रमो युज्यत इति इत्थं चैतदङ्गीकर्तव्यम् / अन्य. थेदमनिष्टमापद्यते इति दर्शयन्नाहजइ याणभूइओ चिय खविज्जए कम्म नन्नहाणुमयं / तेणासंखभवज्जियनाणागइकारणत्तणओ।१९८॥ Page #129 -------------------------------------------------------------------------- ________________ [ 124 ] सटीकश्रावकमज्ञप्त्याख्यप्रकरणं / [ यदि चानुभूतित एव क्षप्यते कर्म नान्यथा अनुमतम् / तेनासंख्यातभवार्जितनानागतिकारणत्वात् // 198 // ] यदि चानुभतित एव विपाकानुभवेनैव क्षप्यते कर्म नान्यथानुमतमुपक्रमद्वारेण तेन प्रकारेणासङ्ख्यातभवार्जितनानागतिकारणत्वात् कर्मणः असहयातभवार्जितं हि विचित्रगतिहेतुत्वान्नरकादिनानागतिकारणमेव भवतीति / तत्रनाणाभवाणुभवणाभावा एगमि प्रज्जएण वा। अणुभवओ बंधाओ मुक्खाभावोस चाणिट्ठो।१९९। [ नानाभवानुभवनाभावादेकस्मिन् पर्यायतो वा / अनुभवतः बन्धात् मोक्षाभाव. स चानिष्टः // 199 // ] नानाभवानुभवनाभावादेकस्मिन् तथाहि नानुपक्रमतो +नारकादिनानाभवानुभवनमेकस्मिन् भवे पर्यायतो वानुभवतः विपाकानुभवक्रमेण वा क्षपयतः बन्धादिति नारकादिभवेषु चारित्राभावेन प्रभूततरबन्धान्मोक्षाभाव आपद्यते स चानिष्ट इति / निदर्शनगर्भमुपपन्यन्तरमाहकिचिदकाले वि फलं पाइज्जइ पच्चए य कालेण। तह कम्मं पाइज्जइ कालेण विपञ्चए चन।२००। + नारकादीनामनुभवनमेकस्मिन् मनुष्यादिभवे. Page #130 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 125 ] [ किंचिदकालेऽपि फलं पाच्यते पच्यते च कालेन / तथा कर्म पाच्यते कालेन विपच्यते चान्यत् // 200 // ] किञ्चिदकालेऽपि पाककालादारतोऽपि फलमाम्रफलादि पाच्यते गर्ताप्रक्षेपकोद्रवपलालस्थगनादिनोपायेन पच्यते च कालेन किंचित्तत्रस्थमेव स्वकालेन पच्यते / यथेदं तथा कर्म पाच्यते उपक्राम्यते विचित्रैरुपक्रमहेतुभिः कालेन विपच्यते चान्यत् विशिष्टानुपक्रमहेतून्विहाय विपाककालेनैव विपाकं गच्छतीति / दृष्टान्तान्तरमाहभिन्नो जहेह कालो तुल्ले वि पहंमि गइविसेसाओ। सत्थे व गहणकालो मइमेहाभेयओ भिन्नो / 201 // [भिन्नो यथेह कालः तुल्येऽपि पथि गतिविशेषात् / शास्त्रे वा ग्रहणकालो मतिमेधाभेदाद्भिन्नः // 201 // ] भिन्नो यथेह कालोऽर्धप्रहरादिलक्षणस्तुल्ये ऽपि पथि समाने योजनादौ मार्गे गतिविशेषाद्गमनविशेषेण शीघ्रगतिरर्धग्रहरेण गच्छति मध्यमः प्रहरेणेत्यादि / शास्त्रे वा व्याकरणादौ ग्रहणकालो मतिमेधाभेदाद्भिन्नः कश्चिद्वादशभिवर्षेः तदधीते कश्चिद्वर्षद्वयेनेत्यादि / एष दृष्टान्तोऽयमर्थोपनयः। तह तुल्लंमि वि कम्मे परिणामाइकिरियाविसेसाओ। भिन्नो अणुभवकालो जिट्ठो मज्झो जहन्नो य // 202 // Page #131 -------------------------------------------------------------------------- ________________ [ 126 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तथा तुल्येऽपि कर्मणि परिणामादिक्रियाविशेषात् / भिन्नोऽनुभवकालः ज्येष्ठः मध्यः जघन्यश्च // 202 // ] तथा तुल्येऽपि कर्मणि कर्मद्रव्यतया परिणामादिक्रियाविशेषात्तीव्रतीव्रतरपरिणामबाह्यसंयोगक्रियाविशेषेण भिन्नोऽनुभवकालः कर्मणः कथं ज्येष्ठो मध्यो जघन्यश्च ज्येष्ठो निरुपक्रमस्य यथाबद्धवेदनकालः, मध्यस्तस्यैव तथाविधतपश्चरणभेदेनx जघन्यः क्षाकश्रेण्यनुभवनकालः शैलेस्यनुभवनकालो वा तथाविधपरिणामबद्धस्य तत्तत्परिणामानुभवनेन अन्यथा विरोध इति / दृष्टान्तान्तरमाहजह वा दीहा रज्जूडज्झइ कालेण पुंजिया खिप्पं / वियओ पडो वि सूसह पिण्डीभूओ उ कालेणं 203 [ यथा वा दीर्घा रज्जुः दह्यते कालेन पुंजिता क्षिप्रम् / विततः पटोऽपि शुष्यति पिंडीभूतस्तु कालेन // 203 // ] यथा वा दीर्घा रज्जुः पर्यन्तदीपिता सती तथा क्रमेणैव दह्यते कालेन प्रदीर्घणेति भावः। पुअिता क्षिप्रं शीघ्रमेव दह्यते / विततः पटो वा जलाोऽपि शुष्यति क्षिप्रमिति वर्तते पिण्डीभूतस्तु कालेन शुष्यति प्रदीर्घेणेति हृदयं न च तत्राधिकं जलमिति / अत्राह x वेदने. Page #132 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 127.] नणुतं न जहोवचियं तहाणभवओ कयागमाईया। तप्पाओग्गं चिय तेण तं चियं सज्झरोगुब्व / 204 / [ ननु तत् न यथोपचितं तथानुभवतः अकृतागमादयः। तत्प्रायोग्यमेव तेन तचितं साध्यरोगवत् // 204 // ] नन्वेवमपि तत्कर्म न यथोपचितं तथानुभवतः वर्षशतभोग्यतयोपचितं उपक्रमेणारादेवानुभवतोऽकृतागमादयस्तदवस्था एव / अत्रोत्तरमाह तत्प्रायोग्यमेवोपक्रमप्रायोग्यमेव तेन तच्चितं बद्धं किंवदित्याह साध्यरोगवत् साध्यरोगो हि मासादिवेद्योऽप्यौषधेरपान्तराल एवोपक्रम्यत इति / तथा चाहअणवक्कमओ नासइ कालेणोवक्कमेण खिप्पं पि। कालेणेवासज्झो सज्झासमं तहा कम्मं / 205 / [अनुपक्रमतः नश्यति कालेनोपक्रमेण क्षिप्रमपि / कालेनैवासाध्यः साध्यासाध्यं तथा कर्म // 205 // ] अनुपक्रमतः औषधोपक्रममन्तरेण नश्यत्यपैति कालेनात्मीयेनैव उपक्रमेण क्षिप्रमपि नश्यति साध्ये रोगे इयं स्थितिः कालेनैवासाध्य उभयमत्र न संभवति साध्यासाध्यं तथा कर्म साध्ये उभयं असाध्ये एक एव प्रकार इति / साध्यासाध्ययोरेव स्वरूपमाह Page #133 -------------------------------------------------------------------------- ________________ [ 128 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सोवक्कममिह सज्झं इयरमसझं त्ति होइ नायव्वं / सज्झासज्झविभागो एसो नेओ जिणाभिहिओ 206 [सोपक्रममिह साध्यं इतरवदसाध्यमेव भवति ज्ञातव्यम् / __साध्यासाध्यविभागः एष ज्ञेयः जिनाभिहितः // 206 / / ] सोपक्रममिह साध्यं तथाविधपरिणामजनितत्वात् इतरन्निरुपक्रममसाध्यमेव भवति ज्ञातव्यं साध्यासाध्यविभागः एष ज्ञेयो जिनाभिहितस्तीर्थकरोक्त इति / निगमयन्नाहआउस्स उवक्कमणं सिद्ध जिणवयणओय सद्धेयं / ज छउमत्यो सम्मं नो केवलिए मुणइ भावे 207 [ आयुष उपक्रमणं सिद्धं जिनवचनाच्च श्रद्धेयम् / यच्छद्मस्थः सम्यग न केवलिकान् जानाति भावान् / 207 / ] आयुष उपक्रमणं सिद्धमुक्तन्यायात् जिनवचनाच्च भवति श्रद्धेयं किमित्यत्रोपपत्तिमाह यद्यस्माच्छद्मस्थः अर्वाग्दी सम्यगशेषधर्मापेक्षया न केवलज्ञानगम्यान् मुणति भावान् जानाति पदार्थानिति / प्रकृतयोजनायाहएयस्स य जो हेऊ सो वहओ तेण तन्निवित्ती य। वंझासुयपिसियासणनिवित्तितुल्ला कहं होइ / 208 / [एतस्य च यो हेतुः स वधकः तेन तन्निवृत्तिश्च / वंध्यासुत पिशिताशननिवृत्तितुल्या कथं भवति.॥२०८॥] Page #134 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 129 ] ___एतस्य-चोपक्रमस्य यो हेतुर्दण्डादिपीडाकरणेन स वधकः असौ हन्ता येन कारणेन तन्निवृत्तिः वधनिवृत्तिः एवं वंध्यासुतपिशिताशननिवृत्तितुल्या कथं भवति सविषयत्वाद्वधनिवृत्तेरिति / अधुनान्यद्वादस्थानकम्अन्ने भणंति कम्मं जंजेण कयं स भंजइ तयं तु / चित्तपरिणामरूवं अणेगसहकारिसाविक्खं // 209 // [ अन्ये भणन्ति कर्म यद्येन कृतं स भुक्ते तदेव / चित्रपरिणामरूपं अनेकसहकारिसापेक्षम् // 209 // ] अन्ये भणन्ति कर्म ज्ञानावरणादि यद्येन कृतं प्राणिना स भुङ्क्त तदेव चित्रपरिणामरूपं कर्मानेकसहकारिसापेक्षं अस्मादिदं प्राप्तव्यमित्यादिरूपमिति / तकयसहकारित्तं पवज्जमाणस्स को वहो तस्स / तस्सेव तओ दोसो जंतह कम्मं कयमणेणं // 210 // [ तत्कृतसहकारित्वं प्रपद्यमानस्य को वधस्तस्य / तस्यैव असौ दोषः यत्तथा कर्म कृतमनेन // 21 // तत्कृतसहकारित्वं व्यापाद्यकृतसहकारित्वं प्रपद्यमानस्य का वधस्तस्य व्यापादकस्य तस्यैव व्यापाद्यस्यासौ दोषो यत्तथा कर्म अस्मान्मया मर्तव्यमिति - विपाकरूपं कृतमनेन व्यापाद्येनेति / एतदेव समर्थयति Page #135 -------------------------------------------------------------------------- ________________ [130 ] __सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / जइ तेण तहा अकए तं वहइ तओ सतंतभावेण / अन्न पि किं न एवं वहेइ अणिवारियप्पसरो॥२११॥ [ यदि तेन तथा अकृते तं हन्ति तकः स्वतन्त्रभावेन / . अन्यमपि किं न एवं हन्ति अनिवारितप्रसरः // 211 // ] यदि तेन व्यापाद्यन तथा तेन प्रकारेण अस्मान्मर्तव्यमित्यादिलक्षणेन अकृते अनुपात्ते कर्मणीति गम्यते तं व्यापाचं हन्ति व्यापादयति तको वधकः स्वतन्त्रभावेन स्वयमेव कथंचित् / अत्र दोषमाह / अन्यमपि देवदत्तादिकं किं न एवं हन्ति यथा तं निमित्ताभोवस्याविशेषात्* अनिवारितप्रसरः स्वातन्त्र्येण व्यापादनशील इति / न य सव्वी सव्वं चिय वहेइ निययस्सभावओअह न। वज्झस्स अफलकम्मं वहगसहावेण मरणाओ॥२१२॥ [न च सर्वः सर्वमेव हन्ति नियतस्वभावतः अथ न / वध्यस्याफलं कर्म वधकस्वभावेन मरणात् // 212 // ] ___ न च सर्वो व्यापादकः सर्वमेव व्यापाचं हन्ति अदर्शनानियतस्वभावतोऽथ न अथैवं मन्यसे नियतहन्तुस्वभावात् न सर्वान्हन्तीत्येतदाशङ्कयाह / वध्यस्य व्यापाद्यस्याफलं कर्म कुतो वधकस्वभावेन मरणात् यो हि यद्व्यापादनस्वभावः * प्रवृत्तिनिमित्तभावस्याविशेषात् Page #136 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 131 ] स तं व्यापादयतीति निःफलं कर्मापद्यते न चैतदेवं तस्मात्तस्येयासौ दोषो यत्तथा कर्म कृतमनेनेति / वधकोऽनपराध इति एष पूर्वपक्षः / अत्रोत्तरमाहनियकयकम्मुवभोगे वि संकिलेसो धुवौं वहंतस्स / तत्तो बंधोतं खलु तव्विरईए विवज्जिज्जा // 213 // [निजकृतकर्मोपभोगेऽपि संकूलेशः ध्रुवं घ्नतः / ततः बन्धः तं खलु तद्विरत्या वर्जयेत् // 213 // ] निजकृतकर्मोपभोगेऽपि व्यापाद्यव्यापत्तौ स्वकृतकर्मविपाकेऽपि सति तस्य संपलेशोऽकुशलपरिणामो ध्रुवमवश्यं घ्नतो व्यापादयतस्ततस्मात्संकलेशाद्वन्धस्तं खलु तमेव बन्धं तद्विरत्या वधविरत्या वर्जयेदिति // तत्त चिय मरियव्वइय बद्धे आउयंमि तविरई। नणु किं साहेई फलं तदारओ कम्मखवणं तु॥२१४॥ [ततः एव मर्तव्यं एवं बद्धे आयुपि तद्विरतिः। ननु किं साधयति फलं तदारतः कर्मक्षपणम् // 214 // ] तत एव देवदत्तादेः सकाशात् मर्तव्यं इय एवमनेन प्रकारेण बढे आयुषि उपात्ते आयुष्कर्मणि व्यापायेन वधविरतिननु किं साधयति फलं तस्योवश्यभावित्वेन तदसंभवात विरत्यसंभवात् न किंचिदित्यभिप्रायः। अत्रोत्तरं तदारतः Page #137 -------------------------------------------------------------------------- ________________ [ 132 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / कर्मक्षपणं तु मरणकालादारतः वधविरतिः कर्मक्षयमेव साधयतीति गाथार्थः। एतदेव भावयतितत्तु चिय सो भावो जायइ सुद्धेण जीववीरिएण। कस्सइ जेण तयं खलु अवहिता गच्छइ मुक्खं / 215 / [ तत एव स भावः जायते शुद्धेन जीववीर्येण / कस्यचित् येन तकं खलु अहत्वा गच्छति मोक्षम् // 215 // ] तत एव वधविरतेः स भावः 'चित्तपरिणामलक्षणो जायते शुद्धेन जीववीर्येण कर्मानभिभूतेनात्मसामर्थेन कस्यचित्प्राणिनो येन भावेन तकं व्यापायं अवधित्वा अहत्वैव गच्छति मोक्षं प्राप्नोति निर्वाणमिति // इय तस्स तयं कम्मं न जहकयफलं ति पावइ अह तु। तं नो अन्झवसाणा ओवट्टणमाइभावाओ // 216 // [एवं तस्य तकं कर्म न यथाकृतफलमेव प्राप्नोति अथ त / तन्न अध्यवसायात् अपवर्तनादिभावात् // 216 / / इय एवमुक्तेन न्यायेन तस्य व्यापाद्यस्य तत्कर्म अस्मान्मर्तव्यमित्यादिलक्षणं न यथाकृतफलमेव ततो मरणाभावाप्रामोत्यापद्यते अथ त्वमेवं मन्यसे इत्याशङ्कयाह // तन्न तदेतन्न अध्यवसायात्तथाविधचित्तविशेषादपवर्तनादिभावोत्तथा हाससंक्रमानुभवश्रेणिवेदनादिति गाथार्थः। Page #138 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [133 ] सकयं पि अणेगविहं तेण पगारेण भुजिउं सव्वं / अपुवकरणजोगा पावइ मुक्खं तु कि तेण // 217 // [स्वकृतमपि अनेकविधं तेन प्रकारेण अभुक्त्वा सर्वम् / अपूर्वकरणयोगात् प्रामोति मोक्षं तु किं तेन // 217 // ] किं च स्वकृतमप्यात्मोपात्तमप्यनेकविधं चतुर्गतिनिबंधनं तेन प्रकारेण चतुर्गतिवेद्यत्वेन अभुक्त्वा सर्वमननुभूय निरवशेषं अपूर्वकरणयोगात् क्षपकश्रेण्यारंभकादपूर्वकरणसंबन्धात्प्रामोति मोक्षमेवासादयति निर्वाणमेव किं तेन व्यापादकभावनिबंधनत्वपरिकल्पितेन कर्मणेति स्यात्तस्मिन् सति न चरणभाव एवेति / अत्राहपरकयकम्मनिबंधा चरणाभावंमि पावइ अभावो। सकयस्स निष्फलता सुहदुहसंसारमुक्खाणं // 218 // [ परकृतकर्मनिबन्धात् चरणाभावे प्रामोत्यभावः / स्वकृतस्य निष्फलत्वं सुखदुःखसंसारमोक्षाणाम् // 218 // ] परकृतकर्मनिबंधाव्यापाद्यकृतकर्मनिबंधनेन व्यापादकस्य चरणाभावे अभ्युपगम्यमाने प्रामोत्यभावः सुखदुःखसंसारमोक्षाणामिति योगः कुतः स्वकृतस्य निःफलत्वानिःफलत्वं चान्यकृतेन प्रतिबंधादिति / Page #139 -------------------------------------------------------------------------- ________________ [134 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / अकयागमकयनासा सपरेगत्तं च पावइ एवं। तचरणाउ चिय तओ खओवि अणिवारियप्पसरो२१९ [ अकृतागमकृतनाशौ स्वपरैकत्वं च प्राप्नोत्येवम् / * तचरणतः एव ततः क्षयोऽपि अनिवारितप्रसरः // 219 // ] अकृतागमकृतनाशौ तेनाकृतमपि तस्य प्रतिबंधकमित्य. कृतागमः शुभपरिणामभावेऽपि च ततः प्रतिबंधात्तत्फल मिति कृतनाशः स्वपरकत्वं च प्रतिबंधकाविशेषात् प्राप्नोत्येवं तच्चरणत एव ततः क्षयोऽप्यनिवारितप्रसरस्तस्येत्युपसंहरन्नाह // एवंपि य वहविरई कायव्वा चेव सव्वजत्तेणं / तदभावंमि पमाया बंधो भणिओ जिणिदेहिं // 220 // [ एवमपि च वधविरतिः कर्तव्या एव सर्वयत्नेन / तदमावे प्रमादान बन्धो भणितः जिनेन्द्रैः // 220 // ] एवमपि चोक्तप्रकाराद्वधविरतिः कर्तव्यैव सर्वयत्नेनाप्रमादेनेत्यर्थः / तदभावे च विरत्यभावे च प्रमादाद्वन्धो भणितो जिनेन्द्रेरिति / इदानीमन्यद्वादस्थानकम्केइ बालाइवहे बहुतरकम्मस्सुवकमाउ ति / मन्नति पावमहियं वुड्ढाइसु विवज्जासं // 221 // Page #140 -------------------------------------------------------------------------- ________________ सटीकश्रीवकप्रज्ञप्त्याख्यप्रकरणं / [ 135 ] [ केचित् बालादिवधे बहुतरकर्मण उपक्रमादेव / . मन्यन्ते पापमधिकं वृद्धादिषु विपर्यासम् // 221 // ] केचिद्वादिनो बालादिवधे बालकुमारयुवव्यापादने बहुतरकर्मण उपक्रमणात्कारणान्मन्यन्ते पापमधिकं / वृद्धादिषु विपर्यासं स्तोकतरस्य कर्मण उपक्रमादिति / अत्रोत्तरमाहएयं पि न जुत्तिखमं जं परिणामाउ पावमिह वुत्तं / दवाइभेयभिन्ना तह हिंसा वन्निया समए / 222 // [ एतदपि न युक्तिक्षमं यन्परिणामात्पापमिहोक्तम् / द्रव्यादिभेद भिन्ना तथा हिंसा वर्णिता समये // 222 // ] एतदपि न युक्तिक्षमं यद्यस्मात्परिणामात्पापमिहोक्तं स च न नियतो बालवृद्धादिषु कलिष्टेतररूपो द्रव्यादिभेदभिन्ना तथा हिंसा वर्णिता समये यथोक्तं “दव्वउ णामेगे हिंसा ण भावउ" इत्यादि प्रथमहिंसाभेदमाह / उच्चालियंमि पाए इरियासमियस्स संकमट्ठाए / वावज्जिज्ज कुलिंगी मरिज्जतं जोगमासज्ज।२२३॥ [ उच्चालिते पादे ईर्यासमितस्य संक्रमार्थम् / व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य // 223 // ] उच्चालिते उत्क्षिप्ते पादे संक्रमार्थं गमनार्थमिति योगः ईर्यासमितस्योपयुक्तस्य साधोः किं व्यापद्येत महतीं वेदना Page #141 -------------------------------------------------------------------------- ________________ [ 136 ] . सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / . प्राप्नुयात् म्रियेत प्राणत्यागं कुर्यात् कुलिङ्गी कुत्सितलिङ्गवान् द्वीन्द्रियादिसव:तं योगमासाद्य तथोपयुक्तसाधुव्यापारं प्राप्येति॥ नय तस्स तनिमित्तो बंधो सुहुमो विदेसिओ समए। जम्हा सो अपमत्तो सा उ पमाउ ति निविट्ठा / 224 // [न च तस्य तन्निमित्तः बन्धः सूक्ष्मोऽपि देशितः समये / यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिष्टा // 224 // ] न च तस्य साधोस्तनिमित्तः कुलिङ्गिब्यापत्तिकारणो बन्धः सूक्ष्मोऽपि देशितः समये किमिति यस्मात्सोऽप्रमत्तः सूत्राज्ञया प्रवृत्ते: सा च हिंसा प्रमाद इत्येवं निर्दिष्टा तीर्थकरगणधरैरिति इयं द्रव्यतो हिंसा न भावतः। सांप्रतं भावतो न द्रव्यत इत्युच्यतेमंदपगासे देसे रज्जु किाहिसरिसयं दर्छ। अच्छित्तु तिक्खग्गंवहिज्जतं तप्परीणामो॥२२५॥ ... [ मन्दप्रकाशे देशे रज्जु कृष्णाहिसदृशीं दृष्ट्वा / आकृष्य तीक्ष्णखङ्गं हन्यात् तां तत्परिणामः // 225 // ] मन्दप्रकाशे देशे ध्यामले निम्नादौ रज्जु दर्भादिविकाररूपां कृष्णाहिसदृशी कृष्णसर्पतुल्यां दृष्ट्वा आकृष्य तीक्ष्णखङ्गं वधेत्तां हन्यादित्यर्थः तत्परिणामो वधपरिणाम इति.॥ Page #142 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 137 ] सप्पवहाभामि वि वहपरिणामाउ चेव एयस्स / नियमेण संपराइयवंधो खलु होइ नायबो॥२२६॥ [ सर्पवधाभावेऽपि वधपरिणामादेवैतस्य / नियमेन सांपरायिको बन्धः खलु भवति ज्ञातव्यः॥२२६॥] सर्पवधाभावेऽपि तत्त्वतः वधपरिणामादेवैतस्य व्यापादकस्य नियमेन सांपरायिको बन्धो भवपरंपराहेतुः कर्मयोगः खलु भवति ज्ञातव्य इति / तृतीयं हिंसाभेदमाहमिगवहपरिणामगओ आयण्णं कड्ढिऊण कोदंडं। मुत्तूणमिसं उभओ वहिज्जतं पागडो एम॥२२७॥ [ मृगवधपरिणामगतः आकर्ण आकृष्य कोदण्डम् / मुक्त्वा इधू उभयतः हन्यात् तं प्रकट एषः // 227 // ] मृगवघपरिणामपरिणतः सन्नाकर्णमाकृष्य कोदण्डं धनुमुक्त्वेषु वाणं उभयतो वधेत् हन्यात् द्रव्यतो भावतश्च तं मृगं प्रकट एष हिंसक इति / चतुर्थं भेदमाहउभयाभावे हिंसा धणिमित्त भंगयाणुपुब्वीए / तहवि य दंसिज्जती सीसमइविगोवणमट्ठा // 228 // [ उभयाभावे हिंसा ध्वनिमात्रं भंगकानुपूर्व्या / तथापि च दर्यमाना शिष्यमतिविकोपनाय अदुष्टा // 228 // ] Page #143 -------------------------------------------------------------------------- ________________ [ 138 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / उभयाभावे द्रव्यतो भावतश्च वधाभावे हिंसा ध्वनिमात्र न विषयतः भङ्गकानुपूर्व्यायाता तथापि च दर्यमाना शिष्यमतिविकोपनं विनेयबुद्धिविकाशायादुष्टैवेति / इय परिणामा बंधे बालो वुड टुत्ति थोवमियमित्थ। बाले वि सो नतिब्बो कयाइ वुड्ढे वि तिव्वृत्ति / 229 // [एवं परिणामाबन्धे बालो वृद्ध इति स्तोकमिदमत्र / बालेऽपि असौ न तीव्रः कदाचिद् वृद्धेऽपि तीव्र इति।२२९।] इय एवं परिणामाद्वन्धे सति बालो वृद्ध इति स्तोकमिदमत्र हिंसाप्रक्रमे किमिति बालेप्यसौ न तीव्रः परिणामः कदाचिवृद्धेऽपि तीव्र इति जिघांसतामाशयवैचित्र्यादिति / अह परिणामाभावे वहे वि बंधो न पावइ एवं। कह न वहे परिणामो तब्भावे कह य नोबंधो।२३० [अथ परिणामाभावे वधेऽपि वंधो न प्राप्नोत्येवम् / कथं न वधे परिणामः तद्भावे कथ च न बन्धः // 230 // ] अथैवं मन्यसे परिणामाभावे सति वधेऽप्यबंध एव प्राप्नोत्येवं परिणामवादे एतदाशङ्कयाह कथं न वधे परिणामः किं तर्हि भवत्येवादुष्टाशयस्य तत्राप्रवृत्तेः तद्भावे वधपरिणामभावे कथं च वधे न बन्धो बन्ध एवेति // Page #144 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 139 ] सिय न वहे परिणामो अन्नाणकसत्थभावणाओ य। उभयत्थ तदेव तओ किलिट्ठबंधस्स हेउ ति॥२३१॥ [ स्यान्न वधे परिणामः अज्ञानकुशास्त्रभावनातश्च / उभयत्र तदेव तकः कलिष्टबन्धस्य हेतुरिति // 231 // ] स्यान्न वधे परिणामः कलिष्ट: अज्ञानात् अज्ञानं व्यापादयतः कुशास्त्रभावनातश्च यागादावेतदाशङ्कयाह / उभयत्र तदेवाज्ञानमसौ परिणामः कलिष्टबन्धस्य हेतुरिति सांपरायिकस्येति // जम्हा सो परिणामो अन्नाणादवगमेण नो होइ / तम्हा तयभावत्थी नाणाईसुसइ जइज्जा॥२३२॥ [ यस्मादसौ परिणामः अज्ञानाद्यपगमेन न भवति / तस्मात्तदभावार्थी ज्ञानादिषु सदा यतेत // 232 // ] यस्मादसौ वधपरिणामो * अज्ञानाद्यपगमेन हेतुना न भवति सति / त्वज्ञानादौ भवत्येव वस्तुतस्तस्यैव तद्रूपत्वात्तस्मात्तदभावार्थी वधपरिणामाभावार्थी ज्ञानादिषु सदा यतेत तत्प्रतिपक्षत्वात् इति एवं वस्तुस्थितिमभिधायाधुना परोपन्यस्तहेतोरनेकान्तिकत्वमुद्भावयति / बहुतरकम्मोवक्कमभावो वेगंतिओ न जं केइ / वाला वि य थोवाऊ हवंति वुड्ढा वि दीहाऊ॥२३३॥ Page #145 -------------------------------------------------------------------------- ________________ [ 140 ] सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं / [ बहुतरकर्मोपक्रमभावोऽपि एकान्तिको न. यत् केचित् / बाला अपि च स्तोकायुषःभवन्ति वृद्धा अपि दीर्घायुषः।२३३॥ बहुतरकर्मोपक्रमभावोऽपि बालादिवृद्धादिष्वेकान्तिको न यद्यस्मात्केचन बाला अपि स्तोकायुषो भवन्ति वृद्धा अपि दीर्घायुषस्तथा लोके दर्शनादिति / तम्हा सव्वेसि चिय वहमि पावं अपावभावेहि / भणियमहिगाइभावो परिणामविसेसओ पायं॥२३४॥ [ तस्मात्सर्वेषामेव वधे पापं अपापभावैः / भणितमधिकादिभाव: परिणामविशेषतः प्रायः // 234 // ] यस्मादेवं तस्मात्सर्वेषामेव बालादीनां वधे पापमपापभावैवीतरागैर्भणितं अधिकादिभावस्तस्य पाप्मनः परिणामविशेषतः प्रायो भणित इति वर्तते प्रायोग्रहणं तपस्वीतरादिभेदसंग्रहार्थमिति // सांप्रतमन्यद्वादस्थानकम्संभवइ वहो जेसिं जुज्जइ तेसिं निवित्तिकरणं पि। आवडियाकरणमि य सत्तिनिरोहा फलं तत्थ॥२३५॥ [संभवति वधो येषु युज्यते तेषु निवृत्तिकरणमपि / आपतिताकरणे च शक्तिनिरोधात् फलं तत्र // 235 // ] संभवति वधो येषु कृमिपिपीलिकादिषु युज्यते तेषु Page #146 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [141] निवृत्तिकरणमपि विषयाप्रवृत्तेः आपतिताकरणे च पर्युपस्थितानासेवने च सति शक्तिनिरोधात्फलं तत्र युज्यत इति वर्तते अविषयशक्त्यभावयोस्तु कुतः फलमिति / तथा चाहनो अविसए पवित्ती तन्निवित्तिइ अचरणपाणिस्स / झसनायधम्मतुल्ल तत्थ फलमबहुमयं केइ // 236 // [ नोऽविषये प्रवृत्तिः तन्निवृत्त्या अचरणपाणेः / झपज्ञातधर्मतुल्यं तत्र फलमबहुमतं केचित् // 236 // ] नोऽविषये नारकादौ प्रवृत्तिर्वधक्रियायास्ततश्च तनिवृत्त्या अविषयप्रवृत्तिनिवृत्यो अचरणपाणेः छिन्नगोदुकरस्यx झपज्ञा. तधर्मतुल्यं छिन्नगोदुकरस्य मत्स्यनाशे धर्म इत्येवं कल्पं तत्र निवृत्तौ फलं अबहुमतं विदुषामश्लाघ्य केचन मन्यन्त इत्येष पूर्वपक्षः / अत्रोत्तरमाह। संभवति वधो येष्वित्युक्तं अथ कोऽयं संभव इति / किं ताव तब्बहु चिय उयाह कालंतरेण वहणं तु। किंवावहु ति किं वा सत्ती को संभवो एत्थ // 237 // [किं तावत्तद्वध एव उताहो कालान्तरेण हननमेव / किं वा अवधः किं वा शक्तिः कः संभवः अत्र // 237 // ] 4 सर्वेषूपलब्धपुस्तकादशैषु एतादृशमेवेति नास्माकं मनीषोन्मेषोऽत्र / Page #147 -------------------------------------------------------------------------- ________________ [142 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / किं तावत्तद्वध एव तेषां व्यापाद्यमानानां वधस्तद्वधः क्रियारूप एव उताहो कालान्तरेण हननं जिघांसनमेवं वा किं अवधो अव्यापादनमित्यर्थः किं वा शक्तिः व्योपादकस्य व्यापाद्यविषया कः संभवोत्र प्रत्रम इति सर्वेऽप्यमी पक्षा दुष्टाः / तथा चाहजइ ताव तव्वह च्चिय अलं निवित्तीइ अविसयाए / कालतरवहणंमि वि किं तीए नियमभंगाओ॥२३८॥ [ यदि तावत्तद्वध एव अलं निवृत्त्या अविषययैव / कालान्तरहननेऽपि किं तया नियमभंगात् // 238 // ] यदि तावत्तद्वध एव तेषां व्यापाद्यमानवधक्रियव संभव इति अत्र दोषमाह अलं निवृत्त्या न किंचिद्वधनिवृत्त्याविषययेति हेतुः निमित्तकारणहेतुषु सर्वासां प्रायो दर्शनमिति वचनात् अविषयत्वं च वधक्रियाया एव संभवत्वात्संभवे च सति निवृत्यभ्युपगमात् ततश्च वधक्रियानियमभावे अविषया वधनिवृत्तिरिति / कालान्तरहननेऽपि नियमतः संभवेऽभ्युपगम्यमाने किं तया निवृत्त्या न किंचिदित्यर्थः कुत इत्याह नियमभङ्गात् संभव एव सति निवृत्यभ्युपगमः संभवश्च कालान्तरहननमेवेति नियमभङ्ग इति / चरमविकल्पद्वयाभिधित्सयाह अवहे विनो पमाणं सुट्ट्यरं अविसओ य विसओ से। सत्ती उ कज्जगम्मा सइ तंमि किं पुणो तीए / 239 // Page #148 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [143 ] [ अवधेऽपि न प्रमाणं सुठुतरं अविषयश्च विषयः तस्याः / . शक्तिस्तु कार्यगम्या सति तस्मिन् किं पुनस्तया / 239 / ] अवधेऽपि न प्रमाणं यद्यवधः संभवः इत्यत्रापि प्रमाणं न ज्ञायते एतेषामस्मादवध इति सुठुतरं अतितरां अविषयश्च विषयः से तस्या निवृत्तेः अविषयत्वं तु तेषां वधासंभवात् अवधस्यैव संभवत्वात् अस्मिंश्च सति निवृत्त्यभ्युपगमादिति / शक्तिस्तु कार्यगम्या वघशक्तिरपि संभवो न युज्यते यतोऽसौ कार्यगम्यैवेति न वधमन्तरेण ज्ञायते सति च तस्मिन्वधे किं पुनस्तया निवृत्त्या तस्य संपादितत्वादेवेति / संभवमधिकृत्य पक्षान्तरमाहजज्जाईओअहओ तज्जाईएसु संभवो तस्स / तेसु सफला निवित्तीन जुत्तमेयं पि वभिचारा 240 / [ यज्जातीय एव हतः तज्जातीयेषु संभवस्तस्य / तेषु सफला निवृत्तिः न युक्तमेतदपि व्यभिचारात् / 240] यज्जातीय एव हतः स्यात् कृम्यादिस्तज्जातीयेषु संभवस्तस्य वधस्य अतस्तेषु सफला निवृत्तिः सविषयत्वादिति एतदाशङ्कयाह / न युक्तमेतदपि व्यभिचारात् व्यभिचारमेवाहवावाइज्जइ कोई हए वि मणुयंमि अन्नमणुएणं / अहए वि य सीहाओ दीसइ वहणं पि वभिचारा।२४१ Page #149 -------------------------------------------------------------------------- ________________ [144 ] सटीकश्राषकप्रज्ञप्त्याख्यप्रकरणं / [ व्यापाद्यते कश्चित् हतेऽपि मनुष्येऽन्यमनुष्येण / अहतेऽपि च सिंहादौ दृश्यते हननं अपि व्यभिचारात् / 241] व्यापाद्यते कश्चिदेव हतेऽपि मनुष्ये सकृत् अन्यमनुष्येण तथा लोके दर्शनात् अतो यज्जातीयस्तु हतस्तज्जातीयेषु संभवस्तस्येति नैकान्तः तेनैव अन्यमनुष्येणैव व्यापादनात् तथा अहतेऽपि च सिंहादौ आजन्म दृश्यते हननं कादाचित्कमिति व्यभिचार इति / / नियमो न संभवो इह हंतव्वा किंतु सत्तिमित्तंतु। सा जेण कज्जगम्मा तयभावे किं न सेसेसु / 242 / [नियमो न संभव इह हन्तव्याः किंतु शक्तिमात्रमेव / सा येन कार्यगम्या तदभावे किं न शेषेषु // 242 // ] नियमो न संभव इहावश्यंता न संभव इहोच्यते यदुत यज्जातीय एको हतस्तज्जातीयाः सर्वेऽपि हन्तव्या यज्जातीयस्तु न हतस्तज्जातीया न हन्तव्या एव किन्तु शक्तिमात्रमेव तज्जातीयेतरेषु व्यापादनशक्तिमात्रमेव संभवः / तत्कथं दोषोऽनन्तरोदितो नैवेत्यभिप्राय इति एतदाशङ्कयाह / सा येन कार्यगम्येति सा शक्तिर्यस्मात्कार्यगम्या वर्तते अतो दोष इति वधमन्तरेण तदपरिज्ञानात् सति च तस्मिन् कि तयेत्यभिहितमेवैतत् / अथ सा कार्यमन्तरेणाप्यभ्युपगम्यते इति एतदाशङ्कयाह / तदभावे कार्याभावे किं न शेषेषु सत्वेषु Page #150 -------------------------------------------------------------------------- ________________ सटीकथावकप्रज्ञप्त्याख्यमकरणं / [ 145 ] साभ्युपगम्यते तथा च सत्यविशेषत एव निवृत्तिसिद्धिरिति / स्यादेतन सर्वसत्त्वेषु सा अतो नाभ्युपगम्यत इति आह / नारगदेवाईसुं असंभवा समयमाणसिद्धीओ। इत्तु चिय तस्सिद्धी असुहासयवज्जणमदुट्ठा / 243 [ नारकदेवादिष्वसंभवात्समयमानसिद्धेः। अत एव तसिद्धिः अशुभाशयवर्जनमदुष्टा // 243 // ] नारकदेवादिष्वसंभवाद्वयापादनशक्तेनिरुपक्रमायुषस्त इति आदिशब्दाद्देवकुरुनिवास्यादिपरिग्रहः कुत एतदिति चेत् समय : मानसिद्धेरागमप्रामाण्यादिति। एतदाशङ्कयाह / अत एव समयमानसिद्धेः तत्सिद्धिः सर्वप्राणातिपातनिवृत्तिसिद्धिः " सव्वं भंते पाणाइवायं पञ्चक्वामि" इत्यादिवचनप्रामाण्याद् आगमस्याप्यविषयप्रवृतिदुष्टैवेति एतदाशङ्कयाह अशुभाशयवर्जनमिति कृत्वा अदुष्टा तद्वधनिवृत्तिः अन्तःकरणादिसंभवालंबनत्वाचेति वक्ष्यतीति // आवडियाकरणं पिहु न अप्पमायाओ नियमओ अन्न अन्नत्ते तब्भावे वि हंत विहला तई होइ // 244 // [आपतिताकरणमपि नैवाप्रमादानियमतोऽन्यत् / अन्यत्वे तद्भावेऽपि हन्त विफला तका भवति // 244 // ] आपतिताकरणमपि पूर्वपक्षवाद्युपन्यस्तं नाप्रमादानियमतो Page #151 -------------------------------------------------------------------------- ________________ [146 ] सटीकभावकप्रज्ञप्त्याख्यप्रकरणं / ऽन्यत् अपि त्वप्रमाद एव तदिति / अन्यत्वेऽप्रमादादर्थान्तरत्वे आपतिताकरणस्य तद्भावेऽप्यप्रमोदभावेऽपि हंत विफलासौ निवृत्तिर्भवति इष्यते चाविप्रतिपल्या अप्रमत्ततायां फलमिति // अह परपीडाकरणे ईसिं वहसत्तिविप्फुरणभावे / जो तीइ निरोहो खलु आवडियाकरणमेयं तु।२४५ [अथ परपीडाकरणे ईषद्वधशक्तिविस्फुरणभावे / यः तस्याः निरोधः खलु आपतिताकरणमेतदेव // 245 / / ] अथैवं मन्येत परः परपीडाकरणे व्यापाद्यपीडासंपादने सति ईषद्वधशक्तिविस्फुरणभावे व्यापादकस्य मनायधसामर्थ्यविजृभणसत्तायां सत्यां यस्तस्याः शक्तनिरोधो दुष्करतर आपतिताकरणमेतदेवेति एतदाशङ्कयाहविहिउत्तरमेवेयं अणेण सत्ती उ कज्जगम्मत्ति / विप्फुरणं पि हु तीए बुहाण नो बहुमयं लोए।२४६ [विहितोत्तरमेवेदं अनेन शक्तिस्तु कार्यगम्येति / विस्फुरणमपि तस्याः एव बुधानां न बहुमतं लोके // 246 / / ] विहितोत्तरमेवेदं केनेति अत्राह अनेन शक्तिस्तु कार्यगम्येति (242) विस्फुरणमपि तस्याः शक्तेर्बुधानां न बहुमतं लोके मरणाभावेऽपि परपीडाकरणे बन्धादिति / / Page #152 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 147 ] - - एवं च जानिवित्ती सा चेव वहोऽहवावि वहहेऊ / विसओ वि सु चिय फुडं अणुबंधा होइ नायव्वा॥ [ एवं च या अनिवृत्तिः सैव वधो ऽथवापि वधहेतुः / विषयोऽपि सैव स्फुटं अनुबन्धात् भवति ज्ञातव्या // 247 // ] एवं च व्यवस्थिते सति, या अनिवृत्तिः सैव वधो निश्चयतः प्रमादरूपत्वात् , अथवापि वधहेतुरनिवृत्तितो वधप्रवृत्तेः विषयोऽपि वस्तुतो गोचरोऽपि सैवानिवृत्तिर्वधस्य स्फुटं व्यक्तं अनुबंधात्प्रवृत्यध्यवसायानुपरमलक्षणाद्भवति ज्ञातव्या अस्या एव वधसाधकत्वप्राधान्यख्यापनार्थ हेतुविषयाभिधानमदुष्टमेवेति / अमुमेवार्थ समर्थयन्नाहहिंसाइपायगाओ अप्पडिविरयस्त अस्थि अणुबंधो। अत्तो अणिवत्तीओ कुलाइवेरं व नियमेण // 24 // [ हिंसादिपातकात् अप्रतिविरतस्य अस्त्यनुबन्धः / अतः अनिवृत्तेः कुलादिवैरवत् नियमेन // 248 // ] हिंसादिपातकादादिशब्दात् मृषावादादिपरिग्रहः अप्रतिविरतस्यानिवृत्तस्यास्त्यनुबन्धः प्रवृत्यध्यवसायानुपरमलक्षणः उपपत्तिमाह अत एवानिवृत्तेः प्रवृत्तेः कुलादिवैरवनियमेनावश्यंतयेति / दृष्टान्तं व्याचिख्यासुराह Page #153 -------------------------------------------------------------------------- ________________ [148 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / जेसि मिहो कुलवेरं अप्पडिविरईउ तेसिमन्नोन्न। वहकिरियाभावंमि विन तं सयं चेव उवसमइ / 249 // [येषां मिथः कुलवैरं अप्रतिविरतेः तेषामन्योन्यम् / ... वधक्रियाभावेऽपि न तत्स्वयमेवोपशाम्यति // 249 // ] येषां पुरुषाणां मिथः परस्परं कुलवैरमन्धयासंखटं अप्रतिविरतेः कारणात्तेषां अन्योन्यं परस्परं वधक्रियाभावेऽपि सति न तत्स्वयमेवोपशाम्यति किं तूपशमितं. सदितितत्तो य तनिमित्तं इह बंधणमाइ जह तहा बंयो। सव्वेसु नाभिसंधी जह तेसुं तस्स तो नत्थि।२५० [ततश्च तनिमित्तं इह बन्धनादि यथा तथा बन्धः / सर्वेषु न अभिसंधिः यथा तेषु तस्य ततो नास्ति // 250 // ] ततश्च तस्मादनुपशमात्तन्निमित्तं वैरनिबन्धनमिह बंधनादि बंधवधादि यथा भवति तेषां, तथेरेपामनिवृत्तानां तन्निबन्धनो बन्ध इति अत्राह सर्वेषु प्राणिषु नाभिसंधिापादनपरिणामो यथा तेषु द्रंगनिवासिषु वैरवत इति तम्य प्रत्याख्यातुस्ततो नास्ति बन्धः इति तथाहि तेऽपि न यथादर्शनमेव प्राणिनां बंधादि कुर्वन्ति किंतु वैरिद्रंगनिवासिनामेव एवं प्रत्याख्यातुरपि न सर्वेषु वधाभिसंधिरिति तद्विपये बंधा भाव इति / एतदाशंक्याह Page #154 -------------------------------------------------------------------------- ________________ सटीकश्रीरकप्रज्ञप्त्याख्यप्रकरणं / [19] अस्थि चिय अभिसंधी अविसेतपवित्तिओ जहा तेसु। अपवित्ती य विणिवित्तीजो उतेसिं व दोसो उ।२५१ [ अस्त्येवाभिसंधिरविशेषप्रवृत्तितः यथा तेषु / अप्रवृत्तावपि अनिवृत्तिज एव तेषां दोष एव // 251 // ] अस्त्येवाभिसंधिरनन्तरोदितलक्षणः सर्वेषु कुतोऽविशेषप्रवृत्तितः सामान्येन वधप्रवृत्तेः यथा तेषु रिपुद्रंगनिवासिषु वैरवतः ततश्चाप्रवृत्तावपि वधे अनिवृत्तिज एव तेषामिव वैरवतां दोषः एवमनिवृत्तस्य गर्भार्थों भावित एवेति अदृष्टान्त एवायं सर्वसत्वैर्वैरासंभवादिति आशङ्कयाहसव्वेसि विराहणओ परिभोगाओ य हंत वेराई / सिद्धा अगाइनिहगो जं संसारो विचित्तो य।२५२। [ सर्वेषां विराधनात् परिभोगाच्च हन्त वैरादयः / सिद्धाः अनादिनिधनो यत् संसारो विचित्रश्च // 252 // ] [ सर्वेषां प्राणिनां विराधनात्तेन तेन प्रकारेण परिभोगाच स्रक्चन्दनोपकरणत्वेन हन्त वैरादयः सिद्धाः हंत संप्रेषणे स्थानान्तरप्रापणे सति वैरोन्माथकादयः कूटयन्त्रकादयः प्रतिष्ठिताः सर्वसत्वविषया इति / उपपत्त्यन्तरमाह / अनादिनिधनो यसंसारो विचित्रश्चातो युज्यते सर्वमेतदिति उपसंहरनाह / Page #155 -------------------------------------------------------------------------- ________________ [ 150 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ता बंधमणिच्छंतो कुज्जा सावज्जजोगविनिवित्ति। अविसयअनिवित्तीए सुहभावा दढयरं स भवे // 253 [ तस्मात् बन्धमनिच्छन् कुर्यात् सावद्ययोगनिवृत्तिम् / ... अविषयानिवृत्त्यो अशुभभावात् दृढतरं स भवेत् // 253 // ] यस्मादेवं तस्माद्बन्धमनिच्छन्नात्मनः कर्मणां कुर्यात्सावद्ययोगविनिवृत्तिमोघतः सपाषव्यापारनिवृत्तिमित्यर्थः अविषयानिवृत्त्या नारकादिवधाभावेऽपि तदनिवृत्त्या अशुभभाषादविषये ऽपि वधविरतिं न करोतीत्यशुभो भावस्तस्मात् दृढतरं सुतरां स भवेद्बन्धो भावप्रधानत्वात्तस्येतिइत्तो य इमा जुत्ता जोगतिगनिबंधणा पवित्तीओ। जंता इमीड विमओ सव्वुच्चिय होई विन्नेओ॥ [ इतश्चेयं युक्ता योगत्रिकनिबंधना प्रवृत्तिः / यद् अस्याः विषयः सर्व एव भवति विज्ञेयः // 254 // ] इतश्चेयं निवृत्तियुक्ता योगत्रिकनिबन्धना मनोवाकाययोगपूर्विका प्रवृत्तिर्यद्यस्मादस्या अनिवृत्तेविषयः सर्व एव भवति विज्ञेयः पाठान्तरं योगत्रिकनिबन्धना निवृत्तिर्यस्मात्संगतार्थमेवेति तथा चाह। कि चितेइ न मणसा कि वायाए न जंपए पावं। न य इत्तो वि न बंधोता विरई सव्वहा कुज्जा॥ Page #156 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 151] [किं चिन्तयति न मनसा किं वाचा न जल्पति पापम् / - न चेतोऽपि न बन्धः तस्माद्विरतिं सर्वथा कुर्यात् // 255 // ] किं चिन्तयति न मनसा अनिरुद्धत्वात्सर्वत्राप्रतिहतत्वात तस्य किं वाचा न जल्पति पापं तस्या अपि प्रायोऽनिरुद्धस्वादिति न चातोऽपि योगद्वयव्यापारान्न बन्धः किं तु बन्ध एवं यस्मादेवं तनस्माद्विरतिं सर्वथा कुर्यात् अविशेषण कुर्यादित्यर्थः // एवं मिच्छादंसणवियप्पवसओऽसमंजसं केई। जपंति जंपि अन्नतं पि असारं मुणेयव्व।२५६ [एवं मिथ्यादर्शनविकल्पवशतः असमंजसं केचित् / जल्पन्ति यदपि अन्यत् तदपि असारं मुणितव्यम् // 256 // ] एवमुक्तप्रकारं मिथ्यादर्शनविकल्पसामर्थ्येन असमंजसमघटमानक केचन कुवादिनो जल्पन्ति यदप्यन्यत्किंचित्तदप्यसारं मुणितव्यमुक्तन्यायानुसारत एवेति / उक्तमानुषङ्गिकम् / अधुना प्रकृतमाह। पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं। संपुनपालणट्ठा परिहरियव्वा पयत्तेणं // 257 // [प्रतिपद्य च व्रतं तस्यातिचारा यथाविधि ज्ञात्वा / संपूर्णपालनार्थ परिहर्तव्याः प्रयत्नेन // 257 // ] Page #157 -------------------------------------------------------------------------- ________________ [ 152 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / प्रतिपद्य चाङ्गीकृत्य च व्रतं तस्य व्रतस्यातिचारा अतिक्रमणहेतवो यथाविधि यथाप्रकारं ज्ञात्वा परिहर्तव्याः सर्वैः पकार्वजनीयाः प्रयत्नेनेति योगः किमर्थ संपूर्णपालनार्थ न यतिचारवतः संपूर्णा तत्पालना तद्भावे तत्खंडनादिप्रसंगादिति तथा चाहबंधवहछविच्छेए अइभारे भत्तपाणवुच्छेए। कोहाइसियमणो गोमणुयाईण नो कुज्जा / 258) [बन्धवधछविच्छेदान् अतिभारं भक्तपानव्यवच्छेदम् / . क्रोधादिदूषितमनाः गोमनुष्यादीनां न कुर्यात् / / 258 // ] तत्र बन्धनं बन्धः संयमनं रज्जुदामनकादिभिः / 1 / हननं वधस्ताडनं केशादिभिः / 2 / छविः शरीरं तस्य छेदः पाटनं करपत्रादिभिः 13 / भरणं भारः अतिभरणं अतिभारः प्रभृतस्य पूगफलादेः स्कन्धपृष्ठारोपणमित्यर्थः / 4 / भक्तमशनमोदनादि पानं पेयमुदकादि तस्य व्यवच्छेदो निरोधः अदानमित्यर्थः / 5 / एतान्समाचरनतिचरति प्रथमाणुव्रतं एतान् क्रोधादिषितमना न कुर्यादिति अनेनापवादमाह अन्यथाकरणेऽप्रतिषेधावगमात् // तदत्रायं पूर्वाचार्योक्तविधिः / बंधो दुविहो दुपयाणं च. उप्पयाणं च अट्ठाए अणट्ठाए अणट्ठाए न वट्टए बंधिडं, अट्ठाए दुविहो सावेक्खो निरवेक्खो य, निरवेक्खो निच्चलं Page #158 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [153 ] धणियं जं बंधंइ. सावक्रवो जं दामगंठिणा जं च सके पलिवणगादिसु मुंचिउं छिदिउँ वा ण संसरपासएणं बंधेयव्वं एयं ताव चउप्पयाणं, दुपयाणं पि दासो दासी वा चोरो वा पुत्तो वा ण पहंतगाइ जइ बज्झन्ति तो सावेक्खा बंधेयव्या रक्खियव्या य जहा अग्गिभयादिसु ण विणसंति, ताणि किर दुपयचउप्पयाणि सावगेणं गेलियव्याणि जाणि अबराणि चेव अच्छंति / वहो वि तह चेव वहो नाम तालणं अणहाए गिरवेक्खो निद्दयं तालेइ सावेक्खो पुण पुश्वमेव भीयपरिसेण होयव्वं जइ न करेज्ज तो मम्मं मोत्तुं ताहे लयाए दोरेण वा एक दो तिन्नि वा वारे तालेइ / छविच्छेओ: अणट्ठाए तहेव णिरवेक्खो हत्थपायकन्नहो?णकाइ निद्दयाए छिंदइ सावेक्खो गंडं वा अरइयं वा छिदेज्ज वा दहेज्ज वा / अइभारो ण आरोवेयव्यो, पुचि चेव जा वाहणाए जीविया सा मुत्तव्या न होज्ज अन्ना जीविया ताहे दुपदो जं सयं चेव उक्खिवइ उत्तारेइ वा भारं एवं वहाविज्जइ बइल्लाणं जहा साभावियाओ वि भाराओ ऊणओ कीरइ हलसगडेसु वि वेलाए चेव मुंचइ आसहत्थीसु वि एस चेव विही / भत्तपाणओच्छेओ ण कस्सइ कायव्यो तिक्खच्छुहो मा मरेज्ज तहेव अणट्ठाए दोसा परिहरेज्जा सावेक्खो पुण रोगनिमित्तं वा वायाए वा भणेज्जा अज्जं ण ते देमित्ति संति- . णिमित्तं वा उववासं कारावेज्जा सव्वत्थ वि जयणा जहा Page #159 -------------------------------------------------------------------------- ________________ [154 सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / थूलगपाणाइवायस्स अइयारो न भवइ तहा पइयत्वंति।। आह चपरिसुद्धजलग्गहणं दारुधन्नाइयाण तह चैव। गहियाण वि परिभोगो विहीइ तसरक्खणट्ठाए // [परिशुद्धजलग्रहणं दारुधान्यादीनां तथैव च / गृहीतानामपि परिभोगो विधिना सरक्षणार्थम् // 259 // ] परिशुद्धजलग्रहणं वस्त्रपूतत्रसरहितजलग्रहणमित्यर्थः दारुधान्यादीनां च तथैव परिशुद्धानां ग्रहणं अनीलाजीनां दारूणां अकीटविशुद्धस्य धान्यस्य आदिशब्दात्तथाविधोपस्करपरिग्रहः / गृहीतानामपि परिभोगो विधिना कर्तव्यः परिमितप्रत्युपेक्षितादिना किमर्थं त्रसरक्षणार्थ द्वीन्द्रियादिपालनार्थमिति // उक्तं सातिचारं प्रथमाणुव्रतम् अधुना द्वितीयमुच्यते / थूलमुसावायस्स उ विरई दुच्च स पंचहा होइ / कन्नागोभुआलियनासहरणकडसक्खिज्जे // 260 // [ स्थूलमृषावादस्य तु विरतिः द्वितीयं स पञ्चधा भाति / कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि // 260 ] स्थूलमृषावादस्य तु विरतिद्वितीयमणुव्रतमिति गम्यते / मृषावादो हि द्विविधः स्थूलः सूक्ष्मश्च / तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो विपरीतस्त्वितरो न च तेनेहाधिकारः श्रावकधर्माधिकारत्वात्स्थूलस्यैव प्रक्रान्तत्वात् / Page #160 -------------------------------------------------------------------------- ________________ सटीकश्रावक प्रज्ञप्त्याख्यप्रकरणं / [ 155 ] तथा चाह / स पंचहा भवति स स्थूलो मृषावादः पञ्चप्रकारो भवति / कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि / अनृतशब्दः पदत्रये प्रत्येकमभिसंबध्यते / तद्यथा। कन्यानृतमित्यादि तत्र कन्याविषयमनृतं कन्यानृतं अभिन्नकन्यकामेव मिन्नकन्यकां वक्ति विपर्ययो वा / एवं गवानृतं अल्पक्षीरामेव बहुक्षीरां वक्ति विपर्ययो वा / एवं भूम्यनृतं परसत्कामेवात्मसत्कां वक्ति व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारेणैव कस्यचिद्रागाद्यभिभूतो वक्ति अस्येयमाभवतीति / न्यस्यते निक्षिप्यत इति न्यासो रूपकाद्यर्पणं तस्यापहरणं न्यासापहारः अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति उच्यते अपलपतो मृषावाद इति / कूटसाक्षिकं उत्कोचमन्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्तीति वज्जणमिह पुवुत्तं आह कुमाराइगोयरो कह णु। एयग्गहणाउ चिय गहिओ नणु सो वि दिव्यो॥ [वर्जनमिह पूर्वोक्तं आह कुमारादिगोचरः कथं नु। एतद्ग्रहणादेव च गृहीतो ननु सोऽपि दृष्टव्यः // 2611 // वर्जनमिह मृषावादे पूर्वोक्तं " उवउत्तो गुरुमूले " (108) इत्यादिना ग्रन्थेन आह परः कुमारादिगोचरः कथं नु अकुमारं कुमारं ब्रुवतः आदिशब्दाद विधवाद्यनृतपरिग्रहः अतिदुष्टविवक्षासमुद्भवोऽप्येष भवति न तु सूत्रे उपात्तः तदेतत्कथं आचार्य आह एतद्ग्रहणादेव च कन्यानृतादिग्रहणादेव च ननु गृहीतो Page #161 -------------------------------------------------------------------------- ________________ [ 156 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ऽसावपि कुमारादिगोचरो मृषावादो द्रष्टव्यः उपलक्षणत्वादिति॥ पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं। संपुनपालपट्टा परिहरियव्वा पयत्तेणं // 262 // ___ पूर्ववत् ( 257) सहसा अब्भक्खाणं रहसा य सदारमंतभेयं च / मोसोवएसयं कूडलेहकरणं च वज्जिज्जा / 263 / . [ सहसाभ्याख्यानं रहस्येन च स्वदारमंत्रभेदं च / मृषोपदेशं कूटलेखकरणं च वर्जयेत् // 263 // ] सहसानालोच्याभ्याख्यानं सहसाभ्याख्यानं अभ्याख्यानमभिशपनमसदध्यारोपणं तद्यथा "चौरः त्वं पारदारिको वा" इत्यादि / 1 / रहः एकान्तस्तत्र भवं रहस्यं तेन तस्मिन्याभ्या. ख्यानं रहस्यभ्याख्यानं एतदुक्तं भवति एकान्ते मन्त्रयमाणान् वक्त्येते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ते इति / 2 / स्वदारमन्त्रभेदं च स्वकलाविश्रब्धभाषितान्यकथनं चे. त्यर्थः / 3 / मृषोपदेशमसदुपदेशमिदमेवं चैवं च कुर्वित्यादिलक्षणं / 4 / कूटलेखकरणमन्यमुद्राक्षरबिम्बसरूपलेखकरणं च वर्जयेत् / 5 / यत एतानि समाचरन्नतिचरति द्वितीयमणुव्रतमिति // बुद्धीइ निएऊणं भासिज्जा उभयलोगपरिसुद्धं / सपरोभयाण जं खलु न सव्वहा पीडजणगं तु॥ Page #162 -------------------------------------------------------------------------- ________________ सटीकश्रावकज्ञप्त्याख्य प्रकरणं / [ 157 ] [बुद्धथा निरीक्ष्य भाषेत उभयलोकपरिशुद्धम् / स्वपरोभयानां यत् खलु न सर्वथा पीडाजनकं तु // 264 // ] बुद्धया निरीक्ष्य सम्यगालोच्येति भावः भाषेत ब्रूयात् उभयलोकपरिशुद्धं इहलोकपरलोकाविरुद्धं स्वपरोभयानां यत् खलु न सर्वथा पीडाजनकं तत्र स्वपीडाजनकं पिङ्गलस्थपतिवचनवत् परपीडाजनक चौरस्त्वमित्यादि एवमुभयपीडाजनकमपि द्रष्टव्यमिति___ उक्तं द्वितीयाणुव्रतं सांप्रतं तृतीयमाहथलमदत्तादाणे विरई तचंदुहा य तं भणियं। सचित्ताचित्तगयं समामओ वीयरागेहिं // 265 // [ स्थूलादत्तादाने विरतिः तच्च द्विधा च तद् भणितम् / सचित्तोचित्तगतं समासतः वीतरागैः // 265 // ] इहादत्तादानं द्विधा स्थूलं सूक्ष्मं च / तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं / विपरीतमितरत् / तत्र स्थूलादत्तादानविषया विरतिनिवृत्तिस्तृतीयमणुव्रतमिति गम्यते / द्विधा च तददत्तादानं भणितं समासतः संक्षेपेण वीतरागैरर्हद्भिरिति योगः सचित्ता चित्तगतमिति सचित्तादत्तादानं अचित्तादत्तादानं च / तत्र द्विपदादेवस्तुनः क्षेत्रादौ सुन्यस्तदुय॑स्तविस्मृतस्य स्वामिना अदत्तस्य चौर्यबुद्धथा ग्रहणं सचित्तादत्तादानं तथा वस्त्रकनकादेरचित्तादत्तादानमिति / Page #163 -------------------------------------------------------------------------- ________________ [158 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / भेएण लवणघोडगसुवन्नरुप्पाइयं अणेगविहं / वज्जणमिमस्स सम्म पुव्वुत्तेणेव विहिणा उ॥२६६॥ [भेदेन लवणघोटकरूप्यसुवर्णाद्यनेकविधम् / वर्जनमस्य सम्यक् पूर्वोक्तेनैव विधिना // 266 // ] ___ भेदेन विशेषेणादत्तादानं लवणघोटकरूप्यसुवर्णाद्यनेकविधमनेकप्रकारं लघणघोटकग्रहणात्सचित्तपरिग्रहः रूप्यसुवर्णग्रहणादचित्तपरिग्रह इति वर्जनमस्यादत्तादानस्य,सम्यक् पूर्वोक्तेन विधिना उपयुक्तो गुरुमूले (108) इत्यादिनेति / पडिवज्जिऊण य वयं तस्सइयार जहाविहिं नाउं। संपुन्नपालपट्टा परिहरियव्वा पयत्तेणं // 267 // ___ पूर्ववत् (257), अतिचारानाहवज्जिज्जा तेनाहडतकरजोगं विरुद्धरज्जं च / कुडतुलकूडमाणं तप्पडिरूवं च ववहारं // 26 // [वर्जयेत् स्तेनाहृतं तस्करप्रयोग विरुद्धराज्यं च / कूटतुलाकूटमाने तत्प्रतिरूपं च व्यवहारम् // 268 // ] वर्जयेत् स्तेनाहृतं स्तेनाश्चौरास्तैराहृतमानीतं किंचित्कुंकुमादि देशान्तरात् तत्समर्थमिति लोभान गृह्णीयात् / / तथा तस्करप्रयोगं तस्कराश्चौरास्तेषां प्रयोगो हरणक्रियायां प्रेरणमभ्यनुज्ञा हरत यूयमिति तस्करप्रयोगः एनं च वर्जयेत् / 2 / Page #164 -------------------------------------------------------------------------- ________________ - सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [159] विरुद्धराज्यमिति च सूचनाविरुद्धराज्यातिक्रमं च वर्जयेत् विरुद्धनृपयो राज्यं विरुद्धराज्यं तत्रातिक्रमो न हि ताभ्यां तत्र तदागमनमनुज्ञातमिति / 3 / तथा कूटतुलाकूटमाने तुला प्रतीता मानं कुडवादि कूटत्वं न्यूनाधिकत्वं न्यूनया ददाति अधिकया गृह्णाति / 4 / तथा तत्प्रतिरूपव्यवहरणं तेनाधिकृतेन प्रतिरूपं सदृशं तत्प्रतिरूपं तेन व्यवहरणं यद्यत्र घटते व्रीह्यादिघृतादिषु पलश्रीवसादि तस्य तत्र प्रक्षेपेण विक्रयस्तं च वर्जयेत् / 5 / यत एतानि समाचरन्नतिचरति तृतीयाणुव्रतमितिउचियं मुत्तण कलं दवाइकमागयं च उक्करितं / निवडियमवि जाणंतो परस्स संतं न गिन्हिज्जा॥ [ उचितां मुक्त्वा कलां द्रव्यादिक्रमायातं चोत्कर्षम् / निपतितमपि जानानः परस्य सत्कं न गृह्णीयात् / / 269 / / ] उचितां मुक्त्वा कलां पञ्चकशतवृद्वयादिलक्षणां / द्रव्यादिक्रमायातं चोत्कर्ष यदि कथंचित्पूगफलादेः क्रयः संवृत्त इत्यष्टगुणो लाभक: अक्रूराभिसंधिना ग्राह्य एवेत्यर्थः आदिशब्दः स्वभेदप्रख्यापकः तथा निपतितमपि जानानः परस्य सत्कं न गृह्णीयात् प्रयोजनान्तरं चोद्दिश्य समर्पिते प्रतिबुध्यतीत्यादि गृहीत्वा प्रत्यर्पयेदपीति // उक्तं तृतीयाणुव्रतं सांप्रतं चतुर्थमाह Page #165 -------------------------------------------------------------------------- ________________ [160 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / परदारपारचाओ सदारसंतोस मो वि य चउत्थं। दुविहं परदारं खलु उरालवेउविभेएणं // 270 // [ परदारपरित्यागः स्वदारसंतोषोऽपि च चतुर्थम् / विविधं परदारं खलु औदारिकवैक्रियभेदेन // 270 // ] परदारपरित्यागः परकलत्रपरिहारः न वेश्यापरित्यागः स्वदारसंतोषश्च स्वकलत्रसेवनमेव. न वेश्यागमनमपि चतुर्थमित्येतच्चतुर्थमणुव्रतं / परदारमपि द्विविधमौदारिकवैक्रियभेदेन औदारिकं ज्यादिषु वैक्रियं विद्याधर्यादिष्वितिवज्जणमिह पुव्वृत्तं पावमिणं जिणवरेहिं पन्नत्तं। रागाईण नियाणं भवपायवबीयभयाणं // 27 // [ वर्जनमिह पूर्वोक्तं पापमिदं जिनवरैः प्रज्ञप्तम् / रागादीनां निदानं भवपादपबीजभूतानाम् // 271 // ] वर्जनमिह पूर्वोक्तं उपयुक्त इत्यादिना ग्रन्थेन (108 गाथा) किमेतद्वज्यंते इत्याशङ्कयाह पापमिदं परदारासेवनं जिनवरैः प्रज्ञप्तं तीर्थकरगणधरैः प्ररूपितमिति किंविशिष्टं रागादीनां निदानं कारणं किंविशिष्टानां भवपादपबीजभूतानां रागादीनामिति // पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं। संपुन्नपालणट्ठा परिहरियव्वा पयत्तेणं // 272 // Page #166 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [161 ] पूर्ववत् (257), अतीचारानाह / इत्तरियपरिग्गहियापरिगहियागमणणंगकीडं च। परविवाहकरणं कामे तिब्वाभिलासं च // 273 // [इत्वरपरिगृहीतापरिगृहीतागमनानंगक्रीडाश्च / परविवाहकरणं कामे तीवामिलापश्च // 273 // ] इत्वरपरिगृहीतागमनं स्तोककालपरिगृहीतागमनं भाटीप्रदानेन कियन्तमपि कालं स्ववशीकृतवेश्यामैथुनासेवनमित्यर्थः / 1 / अपरिगृहीतागमनं अपरिगृहीता नाम वेश्या अन्यसक्तागृहीतभाटी कुलाङ्गना वा अनाथेति तद्गमनं यथाक्रमं स्वदारसंतोषवत्परदारवर्जिनोरतीचारः / 2 / अनङ्गक्रीडा नाम कुचकशोरुवदनांतरक्रीडा तीव्रकामाभिलाषेण वा परिसमाप्तसुरतस्याप्याहार्यै: स्थूलकादिमिर्योषिदवाच्यप्रदेशासेवननिति / 3 / परविवाहकरणमन्यापत्यस्य कन्याफललिप्सया स्नेहसंबन्धेन वा विवाहकरणं स्वापत्येष्वपि सङ्ख्याभिग्रहो न्याय्य इति / 4 / कामे तीव्राभिलाषश्चेति सूचनात्कामभोगतीव्राभिलाषः कामा शब्दादयः भोगा रसादयः एतेषु तीव्राभिलाषः अत्यन्ततदध्यवसायित्वम् // 5 / एतानि समाचरन्नतिचरति चतुर्थमणुव्रतमिति // वज्जिज्जा मोहकरं परजुवइदंसणाइ सवियारं / एए खु मयणबाणा चरित्तपाणे विणासंति॥२७४॥ Page #167 -------------------------------------------------------------------------- ________________ [162] सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / [वर्जयेत् मोहकरं परयुवतिदर्शनादि सविकारम् / .. एते खलु मदनबाणाः चारित्रप्राणान् विनाशयन्ति 274] वर्जयेन्मोहकरं परयुवतिदर्शनं आदिशब्दात्संभाषणादिपरिग्रहः किंभूतं सविकारं सविभ्रमम् / एते दर्शनादयो यस्मान्मदनबाणाश्चारित्रप्राणान् विनाशयन्तीति / उक्तं च अनिशमशुभसंज्ञाभावनासनिहत्या, कुरुत कुशलपक्षप्राणरक्षां नयज्ञाः। / हृदयमितरथा हि स्त्रीवीलासाभिधाना, मदनशबरबाणश्रेणयः काणयन्ति / / इति उक्तं चतुर्थमणुव्रतमधुना पश्चममाह / सचित्ताचित्तेस इच्छापरिणाममो य पंचमयं / भणियं अणुव्वयं खलु समासओ शंतनाणिहिं / 275 / [सचित्ताचित्तेषु इच्छापरिमाणं च पञ्चमकम् / भणितमणुव्रतं खलु समासतः अनन्तज्ञानिभिः // 275 // ] सचित्ताचित्तेषु द्विपदादिहिरण्यादिषु इन्छायाः परिमागमिच्छापरिमाणं एतावतामूर्ध्वमग्रहणमित्यर्थः / एतत्पश्चममुपन्यासक्रमप्रामाण्याद्भणितमणुव्रतं खलु समासतः सामान्येनानन्तज्ञानिभिस्तीर्थकरैरिति // Page #168 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / [ 163 ] भेएण खित्तवत्थूहिरण्णमाइसु होइ नायव्वं / दुपयाईसु य सम्मं वज्जणमेयस्स पुन्वुत्तं // 276 // [भेदेन क्षेत्रवास्तुहिरण्यादिषु भवति ज्ञातव्यम् / द्विपदादिषु च सम्यक् वर्जनमेतस्य पूर्वोक्तम् / / 276 // ] भेदेन विशेषेण क्षेत्रवास्तुहिरण्यादिषु भवति ज्ञातव्यं, किं इच्छापरिमाणमिति वर्तते, तत्र क्षेत्र सेतु केतु च उभयं च, वास्त्वगारं खातमुच्छ्रितं खातोच्छ्रितं च, हिरण्यं रजतमघटितमादिशब्दाद्धनधान्यादिपरिग्रहः एतदचित्तविषयं द्विपदादिषु चेत्येतत्सचित्तविषयं द्विपदचतुःपदापदादिषु दासीहस्तिवृक्षादिषु सम्यक प्रवचनोक्तेन विधिना वर्जनमेतस्य पञ्चमाणुव्रतविषयस्य पूर्वोक्तं उपयुक्तो गुरुमूले इत्यादिना ग्रन्थेनेति / पडिवज्जिऊण यं वयं तस्सइयारे जहाविहिं नाउं / संपुनपालणट्ठा परिहरियव्वा पयत्तेणं // 277 // पूर्ववत् (257) खित्ताइहिरन्नाईधणाइदुपयाइकुवियगस्स तहा। सम्मं विसुद्धचित्तो न पमाणाइक्कम कुज्जा।।२७८ // [क्षेत्रादेः हिरण्यादेः धनादेः द्विपदादेः कुप्यकस्य तथा। सम्यग्विशुद्धचित्तो न प्रमाणातिक्रमं कुर्यात् // 278 // Page #169 -------------------------------------------------------------------------- ________________ [164] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / क्षेत्रादेरनन्तरोदितस्य तथा हिरण्यादेर्धनादेर्द्विपदादेः कुप्यस्य तथा आसनशयनादेरुपस्करस्य सम्यक् विशुद्धचित्तोनिर्मायोऽप्रमत्तः सन् न प्रमाणातिक्रमं कुर्यादिति // भाविज्ज य संतोसं गहियमियाणिं अजाणमाणेणं। थोवं पुणो न एवं गिहिस्सामोत्ति चिंतिज्जा 279 [भावयेच्च संतोषं गृहीतमिदानीमजानानेन / स्तोकं पुनः न एवं ग्रहीष्यामीति चिन्तयेत् // 279 // ] भावयेच्च संतोष किमनेन वस्तुना परिगृहीतेन तथा गृहीतमिदानीमजानानेन स्तोकमिच्छापरिमाणमिति पुन वमन्यस्मिश्चतुर्मासके ग्रहीष्याभीति न चिन्तयेदतिचार एष इति गाथार्थ / / उक्तान्यणुव्रतानि सांप्रतमेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते / तानि पुनस्त्रीणि भवन्ति / तद्यथा। दिग्वतमुपभोगपरिभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति। तत्राद्यगुणवतस्वरूपाभिषित्सयाहउडढमहे तिरियं पि य दिसासु परिमाणकरणमिह पढम। भणियं गुणव्वयं खलु सावगधम्मम्मि वीरेण॥२८०॥ [ऊर्ध्वमस्तिर्यगपि च दिक्षु परिमाणकरणमिह प्रथमम् / भणितं गुणवतं खलु श्रावकधर्मे वीरेण // 280 // ] Page #170 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [ 165 ] ऊर्ध्वमधस्तियक किं दिक्षु परिमाणमिति / दिशो घनेकप्रकारा वर्णिताः शास्त्रे तत्र सूर्योपलक्षिता पूर्वा शेषाश्च दक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः। तत्रोर्ध्वदिक्परिमाणमूर्ध्वदिग्छतमेतावती दिगूवं पर्वताचारोहणादवगाहनीया न परत इति। एवंभूतमधोदिक्परिमाणं अधोदिग्व्रतं एतावत्यधोदिक् इन्द्रकूपाद्यवतरणादवगाहनीया न परत इति / एवंभूतं तिर्यग्दिक्परिमाणकरणं तिर्यग्दिग्नतं एतावती दिक्पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत इत्येवमात्मकं एतदित्थं त्रिधा दिक्षु परिमाणकरणं इह प्रवचने प्रथममायं सूत्रक्रमप्रामाण्यात् गुणाय व्रतं गुणवतं इत्यस्मिन् हि सत्यवगृहीतक्षेत्रा बहिः स्थावरजंगमप्राणिगोचरो दण्ड: परित्यक्तो भवतीति गुणः श्रावकधर्म इति श्रावकधर्मविषयमेव केन भणितमिति आह वीरेण | . विदारयति यत्कर्म तपसाच विराजते / तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः॥ तेन इति चरमतीर्थकृता गुणव्रतमित्युक्तमतो गुणदर्शनायाह, अथवा गुणव्रताकरणे दोषमाह // ततायगोलकप्पो पमत्तजीवोऽनिवारियप्पसरो। मव्वत्थ किं न कुज्जा पावं तकारणाणुगओ॥२८॥ [तप्तायोगोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः / सर्वत्र किं न कुर्यात् पापं तत्कारणानुगतः // 281 // ] Page #171 -------------------------------------------------------------------------- ________________ [ 166 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तप्तायोगोलकल्पस्तप्तलोहपिण्डसदृशः कोऽसौ प्रमत्तजीवः प्रमादयुक्त आत्मासावनिवारितप्रसरोऽनिवृत्त्या अप्रतिहतप्रमादसामर्थ्यः सन् तथागतेः सर्वत्र क्षेत्रे किं न कुर्यात्कुर्यादेव पापं अपुण्यं तत्कारणानुगतः प्रमादपापकारणानुगत इति // पडिवन्नम्मि यविहिणा इमम्मि तव्वज्जणं गुणो नियमा अइयाररहियपालणभावस्स वि तप्पसइओ // 282 // [प्रतिपन्ने च विधिना अस्मिन् तद्वर्जन गुणो नियमात् / अतिचाररहितपालनभावस्यापि तत्प्रसूतेः // 282 // ) प्रतिपन्ने चाङ्गीकृते च विधिना सूत्रोक्तेन अस्मिन् गुणव्रते तद्वर्जन प्रमादपापवर्जनं गुणो नियमादात्मोपकारोऽवश्यंभावी न चैव मंतव्यं एतदर्थपरिपालनभाव एव ज्यायान् नत्वेतत्प्रतिपत्तिः कथमतिचाररहितपालनभावस्यापि निरतिचारपालनभावस्यापि तत्प्रसूतेर्गुणत्रतादेवोत्पादात्तथाप्रतिपत्तौ हि तथाप्रतिपन्न इति इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह / / उड्ढमहे तिरियं पि न य पमाणाइक्कम सया कुज्जा। तह चेव खित्तबुढिं कहिंचि सइअंतरद्धच // 283 // [ ऊर्ध्वमधस्तियंगपि च न प्रमाणातिक्रमं -सदा कुर्यात् / तथैव क्षेत्रवृद्धि कथंचित् स्मृत्यन्तर्धानं च // 283 // ] Page #172 -------------------------------------------------------------------------- ________________ मटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [167 ] ___ ऊर्ध्वमधस्तियंगपि च न प्रमाणातिक्रमं सदा कुर्यादिति ऊध्वदिक्प्रमाणातिक्रमो यावत्परिमाणं गृहीतं तस्य अतिलंघनं तन्न कुर्यात् / 1 / एवमधोदितिर्यदिक्प्रमाणातिक्रमयोगपि भावनीयं // 2,3 / तथैव क्षेत्रवृद्धिं न कुर्यात् यथेदं अतिचारत्रयं क्षेत्रवृद्धिश्चैकतो योजनशतमभिगृहीतमन्यतो दशयोजनानि ततस्तस्यां दिशि समुत्पन्ने कार्य योजनशतमध्यादपनीयान्येषां दशादियोजनानां तत्रैव स्वबुद्धया प्रक्षेपो वृद्धिकरणमिति / 4 / कथंचित् स्मृत्यन्तर्धानं न कुर्यादिति वर्तते स्मृतेभ्रंशोऽन्तर्धानं स्मृत्यन्तर्धानं किं मया परिगृहीतं कया वा मर्यादयेत्येवमनुस्मरणमित्यर्थः / स्मृतिमूलं हि नियमानुष्ठान तद्भशे तु नियमत एव तद्भश इति अतिचारतेति 5 तत्र वृद्धसंप्रदायः / उड्ढं जं पमाणं गहियं तस्स उवरि पव्ययसिहरे पक्खे वा पक्खी वा मक्कडो वा सावगस्स वत्थं वा आभरणं वा गिहिउ पमाणाहरेगं भूमिं वच्चेज्जा तत्थ से ण कप्पए गंतुं जाहे तं पडियं अन्नेण वा आणियं ताहे कप्पइ एयं पुण अट्ठावयउज्जतादिसु हवेज्जा एवं अहे कुवियाईसु विभासा / तिरियं जं पमाणं गहियं तं तिविहेण वि करणेण णाइक्कमियव्वं / खेत्तवुड्ढी ण कायव्वा सो पुव्वेणं भंडं गहाय गओ जाव तं परिमाणं तओ परेण तं भंडं अग्घइत्ति काउं अवरेण जाणि जोयणाणि ताणि पुव्व दिसाए ण छुभेज्जा सिय वोलीगो होज्जा णियत्तियेव्यं विस्सरीए वाण गंतव्वं Page #173 -------------------------------------------------------------------------- ________________ [168 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / अनो वि न विसज्जियव्वो अणाणाए कोई गओ होज्जा जं विसुमरियखेत्तगएण लद्धं अणाणाहिगएण वा तं ग गिहि. ज्जा / उक्तं सातिचारं प्रथमं गुणवतं अधुना द्वितीयमुच्यतेउवभोगपरीभोगेबीयं परिमाणकरणमो नेयं / अणियमियवाविदोसा न भवंति कयम्मि गुणभावो / [उपभोगपरिभोगयोः द्वितीयं परिमाणकरणं विज्ञेयम् / अनियमितव्यापिदोषाः न भवन्ति कृते गुणभावः।।२८४॥] उपभोगपरिभोगयोरिति उपभोगपरिभोगविषये यत्परिमाणकरणं तदेव द्वितीयं गुणवतं विज्ञेयमिति पदघटना पदाथस्तु उपभुज्यत इत्युपभोगः अशनादिरुपशब्दस्य सकुदर्थत्वा सकृद्भुज्यत इत्यर्थः परिभुज्यत इति परिभोगो वस्त्रादिः पुनः पुनः भुज्यत इति भावः परिशब्दस्याभ्यावृत्त्यर्थत्वादयं चात्मक्रियारूपोऽपि भावतो विषये उपचरितो विषयविषयिणोरभेदोपचारादन्त गो वा उपभोगः उपशब्दस्यान्तर्वचनत्वात् बहिर्मोंगो वा परिभोगः परिशब्दस्य बहिर्वाचकत्वादेतत्परिमाणकरणं एतावदिदं भोक्तव्यमुपभोक्तव्यं वा अतोऽन्यन्नेत्येवरूपं अस्मिन् कृते गुणमाह अनियमिते असंकल्पिते ये व्यापिनस्तद्विषयं व्याप्तुं शीला दोषास्ते न भवन्ति कृतेऽस्मिंस्तद्विरतेरिति गुणभावोऽयमत्र गुण इति / सांप्रतमुफ्भोगादिभेदमाह Page #174 -------------------------------------------------------------------------- ________________ सटीकश्राषकप्रज्ञप्त्याख्यप्रकरणं / [ 169 ] सो दुविहों भोयणओ कम्मयओ चेव होइ नायव्यो। अइयारे वि य इत्थं वुच्छामि पुढो समासेणं // 285 // [स द्विविधः भोजनतो कर्मतश्चैव भवति ज्ञातव्यः / अतिचारानपि च एतयोः वक्ष्ये पृथक् समासेन।।२८५॥] स उपभोगः परिभोगश्च द्विविधो द्विप्रकारः भोजनतो भोजनमाश्रित्य कर्मतश्चैव भवति ज्ञातव्यः कर्म चाङ्गीकृत्येत्यर्थः। तत्र भोजनतः श्रावकेणोत्सर्गतो निरवद्याहारमोजिना भवितव्यं / कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेन विचित्रत्वाच्च देशविरतेश्चित्रोत्रापवाद इत्यत एवेदमेवेदमेवेति वा मूत्रे न नियमितमतिचाराभिधानाच विचित्रस्तद्विधिः स्वधियावसेय इति / ___तथा च वृद्धसंप्रदायः / " भोजनओ सावगो उस्सग्गेण फासुयं एसणियं आहारं आहारज्जा, तस्सासति अणेसणीयमवि सचित्तवज्जं तस्सासति अणंतकायं वहबीयाणि परिह. रज्जा, असणे अल्लगमूलगमंसादि पाणे मंसरसमज्जाइ खाइमे पंचुंबरिंगादि सादिमे महुमाइ एवं परिभोगे वि वत्थाणि थूलधवलप्पमुल्लाणि परिमियाणि परिभुजेज्जा सासणगोवत्थसुचरिओ वरसिभाषा याव देवदूसाइ परिभोगेण वि परिमाणं करेज्जा, कम्मओ वि अकम्मो ण तरइ जीविउं ताहे अञ्चन्तसावज्जाणि परिहरेज्जा इत्थं पि एकसिं चेव जं कीरइ कम्म Page #175 -------------------------------------------------------------------------- ________________ [ 170 1 सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / पहरववहरणादि विवक्खाए तमुवभोगो पुणो पुणो य जं तं पुण परिभोगो त्ति अन्ने पुण कम्मपक्खे उवभोगपरिभोगजोयणं ण करिति उवन्नासोय एयस्सुवभोगपरिभोगकारणभावणंति" इति कृतं प्रसङ्गेन / इहेदमपि चातिचाररहितमनुपालनीयमिति तदभिधित्सयाह / अतिचारानपि चैतयोभोजनकर्मणोर्वक्ष्येऽभिधास्ये पृथक प्रत्येकं समासेन संक्षेपेणेति / तत्र भोजनतोऽभिधित्सयाहसचित्ताहारं खलु तप्पडिबद्धं च वज्जए सम्म / अप्पोलियदुप्पोलियतुच्छोसहिभक्खणं चेव // 286 // [सचित्ताहारं खलु तत्प्रतिबद्धं च वर्जयेत् सम्यक् / अपक्वदुःपक्वतुच्छौषधिभक्षणं चैव // 286 // ] सचित्ताहारं खलु सचेतनं मूलकन्दादिकं तत्प्रतिबद्धं च वृक्षस्थगुन्दपक्वफलादिलक्षणं वर्जयेनिहरेत्सम्यक् प्रवचनोक्तेन विधिना तथा अपक्वदुःपक्वतुच्छौषधिभक्षणं च वर्जयेदिति वर्तते तत्रापक्वाः प्रसिद्धाः दुःपक्वास्त्वस्विनाः तुच्छास्त्वसारा मुद्गफलीप्रभृतय इति। उक्ता भोजनातिचाराः सांप्रतं कर्माश्रित्याहइंगालीवणसाडीभाडीफोडीसु वज्जए कम्मं / वाणिज्जं चेव दंतलक्खरसकेसविसविसयं // 287 // Page #176 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [171 ] [अङ्गारवनशकटभाटकस्फोटनेषु वर्जयेत् कर्म / वाणिज्यं चैव दन्तलाक्षारसकेशविषविषयम् // 287 // ] अङ्गारवनशकटभाटकस्फोटनेषु एतद्विषयं वर्जयेत् कर्म न कुर्यात् / तत्राङ्गारकमागारकरणविक्रयविषया / एवं शेषेष्वप्यक्षरगमनिका कार्या तथा वाणिज्यं चैव दन्तलाक्षारसकेशविषविषयं दन्तादिगोचरं वर्जयेत्परिहरेदिति // एवं खु जंतपीलणकम्मं निल्लंकणं च दवदाणं / सरदहतलायसोसं असईपोसं च वज्जिज्जा॥२८८॥ [एवं खलु यन्त्रपीडनकर्मनिर्लाञ्छनं च दवदानम् / सरोहदतडागशोषं असतीपोषं च वर्जयेत् // 288 // ] एवमेव शास्त्रोक्तेन विधिना यन्त्रपीडनकर्म निला छनं च . कम दवदानं सरोहदतडागशोषं असतीपोषं च वर्जयेदिति गाथाद्वयाक्षरार्थः। भावार्थस्तु वृद्धसंप्रदायादेव अवसेयः। स चायम्- .. ___इंगालकम्मति इंगाले दहिउं विविकणइ तत्थ छण्हं कायाणं वहो तं न कप्पइ / वणकम्मं जो वणं किणइ -पच्छा रुक्खे छिदिउँ मुल्लेण जीवइ एवं पत्तिगाइवि पडिसिद्धा भवंति। साडीकम्मं सागडियत्तणेण जीवइ तत्थ बंधवहाई बहुदोसा। भाडीकम्मं सएण मंडोवक्वरेण भाडएण वहइ परायगं ण कप्पइ अन्नेसिं वा सगडे बइल्लयवेइ एवमाइ ण कप्पइ / फोडीकम्मं उडत्तणं हलेण वा भूमि फाडेउं जीवइ / दंत Page #177 -------------------------------------------------------------------------- ________________ / 172 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। वाणिज्ज पुवं चेव पुलिंदाणं मुलं देइ दंते देज्जाहित्ति पच्छा पुलिंदा हन्थि घाएंति अचिरा सो वाणियओ एतित्ति काउं एवं धीवराणं संखमुल्लं देइ एवमाइ न कप्पइ पुवाणीयं किणइ / लक्खवाणिज्जे वि एए चेव दोसा तत्थ किमिया होति / रसवाणिज्जं कल्लावालगत्तणं तत्थ सुरादिपाणे बहुदोसा मारण-अकोस-वहाई तम्हा न कप्पइ / केसवाणिज्जं दासीओ गहाय अन्नत्थ विकिणइ जत्थ अग्वेति एत्थ वि अणेगे दोसा परवसत्तादयो। विसवाणिज्जं विसविक्कओ सो ण कप्पइ तेण बहूण जीवाण विराहणा / जंतपीलणकम्मं तेल्लियजंतं उच्छुतं चकमादी तं न कप्पइ / निल्लंछणकम्मं वड्ढेउं बल्लहाइ न कप्पइ। दवग्गिदावणयाकम्मं वणदवं देह छेत्तरक्षणनिमित्तं जहा उत्तरावहे पच्छा दड्ढे तरुणमतणं उर्दुइ तत्थ सत्ताणं सयसहस्साण वहो / सरदहतलायसोसणयाकम्मं सर. दहतलागाईणि सोसेइ पच्छा वाविज्जइ एयं ण कप्पइ / असईपोसणयाकम्मं असईओ पोसइ जहा गोल्लविसए जोणिपोसगा दासीण भणियं भाडि गेहंति / ". प्रदर्शन चैतबहुसाक्द्यानां कर्मणामेवंजातीयानां न पुनः परिगणनमिति / उक्तं सातिचारं द्वितीयं गुणवतं सांप्रतं तृतीयमाह। विरई अणत्यदंडे तचौंस चउब्विहो अवज्झाणो। पमायायरियहिसप्पयाणपावोवएसे य // 289 // Page #178 -------------------------------------------------------------------------- ________________ सटीकाधकप्रज्ञप्त्याख्यप्रकरणं / [173 ] [विरतिरनर्थदण्डे तृतीयं स चतुर्विधः अपध्यानः / - प्रमादाचरितः हिंसाप्रदानः पापोपदेशश्च / / 289 / / ] विरतिनिवृत्तिरनर्थदण्डे अनर्थदण्डविषया इह लोकमप्यङ्गीकृत्य निःप्रयोजनभृतोपमर्दनिग्रहविषया तृतीयं गुणव्रतमिति गम्यते स चतुर्विधः सोऽनर्थदण्ड: चतुःप्रकारः / अपध्यान इति अपध्यानाचरितोऽप्रशस्तध्यानेनासेवितः अत्र देवदत्तश्रावककोङ्कणार्य कसाधुप्रभृतयो ज्ञापकम् / प्रमादाचरितो मद्यादिप्रमादेनासेवितः अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्धया भावनीयम् / हिंसाप्रदानम् इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते कारणे कार्योपचारात् तेषां प्रदानं अन्यस्मै क्रोधाभिभूतायाननिभूताय वेति / पापोपदेशश्चेति सूचनात्सूत्रमिति न्यायात्पापकर्मोपदेशः पायं यत्कर्म कृष्यादि तदुपदेशो यथा कृष्यादि कुर्वित्यादि / अनर्थदण्डस्यैव बहुबन्धहेतुतां ख्यापयन्नाहअटेण तं न बंधड़ जमणटेणं तु थेवबहुभावा। अढे कालाईया नियामगा न उ अणट्टाए / 290 [ अर्थेन तत् न बध्नाति यदनथेन स्तोकबहुभावात् / अर्थे कालादयो नियामकाः न त्वनर्थे // 290 // ] . अर्थन कुटुंबादिनिमित्तेन प्रवर्तमानस्तन्न बंधनाति तत्कर्म नादत्ते (अं. 1500) यदनर्थेन यद्विनाप्रयोजनेन प्रवर्तमानः कुतः स्तोकबहुभावात् स्तोकभावेन स्तोकं प्रयोजनं परिमितत्वात् बह्व Page #179 -------------------------------------------------------------------------- ________________ [ 174 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / प्रयोजनं प्रमादापरिमितत्वात् तथा चाह, अर्थे प्रयोजने कालादयो नियामकाः कालाद्यपेक्षं हि कृष्याद्यपि भवति न त्वनर्थाय प्रयोजनमन्तरेणापि प्रवृत्तौ सदा प्रवृत्तेरिति / इदमपि चा तिचाररहितमेवानुपालनीयमिति, अतः तानाहकंदप्पं कुक्कुइयं मोहरियं संजुयाहिगरणं च / उवभोगपरीभोगाइरेयगयं चित्थ वज्जइ / 291 // [कंदर्प कौत्कुच्यं मौवयं संयुक्ताधिकरणं च / उपभोगपरिभोगातिरेकतां चैव वर्जयेत् // 291 // ] इति पदघटना // पदार्थस्तु कंदर्पः कामस्तद्वतुर्विशिष्टो वाक्प्रयोगोऽपिकंदर्प उच्यते रागोद्रेकात्प्रहासमिश्री मोहोद्दीपको नर्मेति भावः / इह च सामाचारी। सावगस्स अट्टहासो न वट्टइ जइ नाम हसियव्वं तउ इसिं चेव हसियव्वं ति // 1 // कौत्कुच्यं कुत्सितसंकोचनादिक्रियायुक्तः कुत्कुचः तस्य भावः कौत्कुच्यं अनेकप्रकारमुखनयनौष्ठकरचरणभूविकारपूर्विका परिहासादिनिका भांडादीनामिव विडंबनक्रियेत्यर्थः। एत्थ सामायारी " तारिसगाणि भासिउं न कप्पंति जारिसेहि लोगस्स हासो उप्पज्जइ एवं गतीए ठाणेण वा ठाइउं ति" // 2 // मौखयं धात्प्रिायोऽसत्यासंबद्धप्रलापित्वमुच्यते "मुहेण वा अरिमाणेइ जहा कुमारामचेणं सो वारहडो विसज्जिओ रनो णिवेदियं ताए जीवियाए वित्ती दिन्ना अन्नदा रुद्वेग Page #180 -------------------------------------------------------------------------- ________________ सटीकाधकप्रज्ञप्त्याख्यप्रकरणं। [ 175 ] मारिओ कुमारामच्चो" // 3 // संयुक्ताधिकरणं अधिक्रियते नरकादिष्वनेनेत्यधिकरणं वास्युदूखलशिलारपुत्रकं गोधूमयंत्रकादिषु संयुक्तमर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः / एत्थ सामायारी " सावगेणं संजुत्ताणि चेव सगडा. ईणि न धरेयवाणि एवं वासीपरसुमाइ विभासा" // 4 // उवभोगपरिभोगाइरेगयत्ति / उपभोगपरिभोगशब्दार्थों निरूपित एव तदतिरेकस्तदधिकभावः, एत्थ वि सामायारी " उवभोगातिरित्तं जइ तेल्लामलए बहुए गेण्हइ तो बहुगा व्हागया वञ्चति तस्स लोलियाए अन्ने वि हागया व्हायंति पच्छा पूयरगआउकायादिवहो होइ एवं पुष्फतंबोलादिसु विभासा एवं न वट्टइ का विही सावगस्स उबभोगे पहाणे घरे ण्हाइयव्वं नत्थि ताहे तेल्लामलएहिं सीसं घसित्ता सव्वे साडविऊण ताहे तलागाईणं तडे निविट्ठो अंजलीहिं व्हाइ एवं जेसु य पुप्फेसु पुष्फकुंथू ताणि परिहरइ " // 5 // उक्तं सातिचारं तृतीयगुणव्रतं गुणव्रतानन्तरं शिक्षापदव्रतान्याह तानि चत्वारि भवन्ति / तद्यथा-सामायिकं देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति। तत्राद्यमाहसिक्खापयं च पढमं सामाइयमेव तं तु नायव्वं / सावज्जेयरजोगाण वज्जणासेवणारूवं // 292 // [शिक्षापदं च प्रथमं सामायिकमेव तत्तु ज्ञातव्यम् / सावद्येतरयोगानां वर्जनासेवनारूपम् / / 292 // Page #181 -------------------------------------------------------------------------- ________________ [ 176 ] सटीकश्रावकाशप्त्यास्यप्रकरणं / शिक्षा परमपदप्रापिका क्रिया तस्याः पदं शिक्षापदं तच्च प्रथममायं सूत्रक्रमप्रामाण्यात्सामायिकमेव समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति आयो लाभः प्राप्तिरिति पर्यायाः समस्यायः समायः समो हि प्रतिक्षणमपूर्वैनिदर्शनचारित्रपर्यायनिरुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपीयुज्यते स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति मामायिकं समाय एव वा भवं सामायिकमिति शब्दार्थः। एतत्स्वरूपमाह-तत्तु सामायिकं ज्ञातव्यं विज्ञेयं स्वरूपतः कीदृ. गिति आह सावद्येतरयोगानां यथासंख्यं वर्जनासेवनरूपमिति तत्रावा. गर्हितं पापं सहावद्येन सावा योगा व्यापाराः तेषां वर्जनारूपं परित्यागरूपमित्यर्थः कालावधिनैवेति गम्यते मा भृत्सावधयोगपरिवर्जनामात्रमपापव्यापारासेवनाशून्यमेव सामायिकमिति अत आह इतरयोगासेवनारूपं निरवद्ययोगप्रतिसेवनारूपं चेति सावद्ययोगपरिवर्जनवनिरवद्ययोगपरिसेवनेऽपि अहर्निशं यत्रः कार्य इति दर्शनार्थमेतदिति / एत्थ पुण सामायारी " सामाइयं सावगेणं कहं कायव्वंति इह सावगो दुविहो इढिपत्तो अणिढिपत्तो य जो सो अणिढिपत्तो सो चेइयघरे साहुसमीवे धरे वा पोसहसालाए वा जत्थ वा वीसमइ अच्छइ वा निव्वावारो सवत्थ करेइ सव्वं चउसु ठाणेसु णियमा कायव्वं चेइयघरे साहुमूले पोसहसालाए घरे आवस्सगं करोति त्ति तत्थ जइ साहुसगासे करेइ तत्थ को Page #182 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 177 ] विही जइ परंपरभयं णत्थि जइ विय केणइ समं विवाओ णत्थि जइ कस्सइ न धरेइ मा तेण अच्छविगच्छिथि कडिढहिइ य धारणगं दठूण गेण्हइ मा भज्जिहिइ जइ वावारंण करेइ ताहे घरे चेव सामाइयं काऊण वच्चइ पंचसमिओ तिगुत्तो इरियाउवउत्तो जहा साहू भासाए सावज्जं परिहरंतो एसणाए कटुं लेटुटुं वा पडिलेहिउँ पमजिउं एवं आयाणे निक्खिवणे खेलसिंघाणए न विगिंचइ विगिचंतो वा पडिलेहेइ पमज्जिय जत्थ चिट्ठइ तत्थ तिगुत्तिणिरोहं करेइ, एयाए विहीए गंता तिविहेण नमिऊण साहुणो पच्छा सामाइयं करेइ, करेमि भंते सामाइयं सावज जोगं पञ्चक्खामि दुविहं तिविहेणं जाव साई पज्जुवासामित्ति काऊण पच्छा इरियावहियं पडिक्कमइ पच्छा आलोएत्ता वंदइ आयरियाइ जहारायणियाए पुणो वि गुरुं वंदित्ता पडिलेहिता निविट्ठो पुच्छइ पढइ वा एवं चेइएसु वि जया सगिहे पोसहसालाए वा तत्थ नवरि गमणं णत्थि / जो इढिपत्तो सो सविड्ढीए एइ तेण जणस्स आढा होइ आढिया य साहुणो सुपुरिसपरिग्गहेणं जइ सो कयसामाइओ एइ ताहे आसहत्थिमाइजणेणय अधिगरणं वडढइ ताहे ण करेइ कयसामाइएण य पाएहिं आगंतव्वं तेण ण करेइ आगओ साहुसमीवे करेइ जइ सो सावगो तो ण कोइ उठेइ अह अहाभद्दओ जइपूया कया 12 Page #183 -------------------------------------------------------------------------- ________________ [ 178 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / होउत्ति भणंति ताहे पुचरइयं आसणं कीरइ आयरिया उडिया य अच्छंति तत्थ उद्रुितमणुढिते दोसा विभासियव्वा पच्छा सो इढिपत्तो सामाइयं करेइ अणेण विहिणा करेमि भंते सामाइयं सावज्जं जोग पञ्चक्खामि दुविहं तिविहेणं जाव णियमं पज्जुवासामित्ति एवं सामाइयं काउं पडिकंतो वंदित्ता पुच्छइ सो य किर सामाइयं करेंतो मउडं अवणेइ कुंडलाणि णाममुदं पुष्फतंबोलं पावारगमाइ वा वोसिरइ एमो विही सामाझ्यस्स"। अत्राहकयसामइओ सो साहुरेव ता इत्तरं न किं सव्वं / वज्जेइ य सावज्ज तिविहेण वि संभवाभावा // 293 // [कृतसामायिकः असौ साधुरेव तस्मादित्वरं न किं सर्वम् / वर्जयति च सावधं त्रिविधेनापि संभवाभावात् // 293 // ] कृतसामायिकः प्रतिपन्नसामायिकः सन्नसौ श्रावको वस्तुतः साधुरेव सावद्ययोगनिवृत्तेर्यस्मादेवं तस्मात्साधुवदेवेत्वरमल्पकालं न किं किं न सर्व निरवशेषं वर्जयति परिहरत्येव सावा सपापं योगमिति गम्यते त्रिविधेनापि मनसा वाचा कायेन चेति / अत्रोच्यते संभवाभावात् श्रावक्रमधिकृत्य त्रिविधेनापि सर्वसावधयोगवर्जनासंभवादिति / असंभवमेवाह Page #184 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 179 ] आरंभाणुमईओ कणगाइसु अग्गहाणिवित्तीओ। भुज्जो परिभोगाओ भेओ एसिं जओ भणिओ।२९४। [आरंभानुमतेः कनकादिषु आग्रहानिवृत्तेः / भूयः परिभोगात् भेदः एतयोः यतः भणितः // 294 // ] आरंभानुमतेः श्रावकस्यारंभेष्वनुमतिरव्यवच्छिन्नैव तथा तेषां प्रवर्तितत्वात् कनकादिषु द्रव्यजातेषु आग्रहानिवृत्तेरात्मीयाभिमानानिवृत्तेरनिवृत्तिश्च भूयः परिभोगादन्यथा सामायिकोत्तरकालमपि तदपरिभोगप्रसङ्गः सर्वथा त्यक्तत्वात् भेदश्चै. तयोः साधुश्रावकयोः यतो भणित उक्तः परममुनिभिरिति / भेदाभिधित्सयाहसिक्खा दुविहा गाहा उववायट्ठिइगईकसाया य। बंधता वेयंता पडिवज्जाइक्कमे पंच // 295 // [शिक्षा द्विविधा गाथा उपपातस्थितिगतिकषायाश्च / बन्धः वेदना प्रतिपत्तिरतिक्रमाः पञ्च // 295 // ] शिक्षाकृतः साधुश्रावकयोर्भेदः सा च द्विविधा ग्रहणासेवनारूपेति वक्ष्यति तथा गाथा भेदिका, सामाइयंमि उ कए इत्यादिरूपेत्ति वक्ष्यत्येव तथोपपातो भेदकः स्थितिमैदिका गतिभैदिका कषायाश्च भेदका बन्धश्च भेदकः वेदना भेदिका प्रतिपत्तिभैदिका अतिक्रमो भेदक इत्येतत् सर्वमेव Page #185 -------------------------------------------------------------------------- ________________ [ 180 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। प्रतिद्वारं स्वयमेव वक्ष्यति ग्रन्थकारः पञ्चाथवा किं चेति पाठान्तरार्थसहितमपि इति द्वारगाथासमुदायार्थः। अधुनाद्यद्वारावयवार्थप्रतिपादनायाहगहणासेवणरूवा सिक्खा भिन्ना य साहुसड्ढाणं। पवयणमाईचऊदसपुव्वंता पढमिया जइणो॥२९६॥ [ग्रहणासेवनरूपा शिक्षा. भिन्ना च साधुश्राद्धयोः / प्रवचनमात्रादिचतुर्दशपूर्वान्ता प्रथमा यतेः // 296 // ] ग्रहणासेवनरूपा शिक्षेति शिक्षाभ्यासः सा द्विप्रकारा ग्रहणरूपासेवनरूपा च भिन्ना चेयं साधुश्रावकयोः अन्यथारूपा साधोरन्यथारूपा श्रावकस्येति / तथा चाष्टप्रवचनमात्रादिचतुदेशपूर्वान्ता प्रथमा यतेरिति ग्रहणशिक्षामधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातरत्रिगुप्तिपश्चसमितिरूपा उत्कृष्टतस्तु बिंदुसारपर्यन्तानि चतुर्दशपूर्वाणि गृहणातीति // पवयणमाईछज्जीवणियंता उभयओ वि इयरस्स। पिडेसणा उ अत्थे इत्ता इयरं पवक्खामि // 297 / / [प्रवचनमातृषड्जीवनिकायान्ता उभयतोऽपि इतरस्य / पिण्डेषणा त्वर्थतः अतः इतरां प्रवक्ष्यामि // 297 // .] प्रवचनमातृषड़जीवनिकायान्ता उभयतोऽपि सूत्रतोऽर्थतश्चेतरस्य श्रावकस्य पिण्डैषणार्थतः न सूत्रत इति एतदुक्तं भवति Page #186 -------------------------------------------------------------------------- ________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [ 181 ] -- श्रावकः सूत्रतोऽर्थतश्च जघन्येन ता एव प्रवचनमातर उत्कृष्टतस्तु षड्जीवनिकायं यावदुभयतोऽर्थतस्तु पिण्डैषणा न तु तामपि सूत्रत इत्येतावद्गृह्णाति / उक्ता ग्रहणशिक्षा, अत ऊर्ध्वमितरामासेवनशिक्षा प्रवक्ष्यामि यथासौ भेदिका एतयोरिति / संपुन्नं परिपालइ सामायारि सदेव साहु ति / ईयरोतकालम्मि वि अपरिन्नाणाइओ नतहा।२९८ [संपूर्णा परिपालयति सामाचारी सदैव साधुरिति / इतरः तत्कालेऽपि अपरिज्ञानादेः न तथा // 298 // ] ___ संपूर्णा' निरवशेषां परिपालयत्यासेवते सामाचारों मुखवस्त्रिकाप्रत्युपेक्षणादिको क्रियां सदैव सर्वकालमेव साधुरित्या जन्म तथाप्रवृत्तेः इतरः श्रावकस्तत्कालेऽपि सामायिकसमयेऽपि अपरिज्ञानादेरपरिज्ञानादभिष्वङ्गानिवृत्त्या असंभवादनभ्यासाचन तथा पालयत्येवमासेवनाशिक्षापि भिन्नैव तयोरिति द्वारं सूत्रप्रामाण्याच विशेष इति गाथेत्युपलक्षिता। तामाहसामाइयम्मि उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइयं कुज्जा // 299 // [सामायिके तु कृते श्रमण इव श्रावको भवति यस्मात / एतेन कारणेन बहुशः सामायिकं कुर्यात् // 299 // ] सामायिके प्राइनिरूपितशब्दार्थे तुशब्दो ऽवधारणार्थः Page #187 -------------------------------------------------------------------------- ________________ [ 182 ] सटीक श्रावकप्रज्ञप्त्याख्य प्रकरणं / सामायिक एव कृते न शेषकालं श्रमण इव साधुरिव श्रावको भवति यस्मादेतेन कारणेन बहुशोऽनेकशः सामायिक कुर्यादिति अत्र श्रमण इवोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागं न तु समुद्र एवेत्यभिप्राय इति / द्वारं उपपातो विशे. षक इत्येतदाहअविराहियसामन्नस्स साहुणो सावगम्स य जहन्नो। सोहंमे उववाओ भणिओ तेलुकदंसीहिं // 30 // [अविराघितश्रामण्यस्य साधोः श्रावकस्य च जधन्यः / सौधर्मे उपपातो भणितः त्रैलोक्यदर्शिभिः // 300 // ] अविराधितश्रामण्यस्य प्रव्रज्यादिवसादारभ्याखण्डितश्रमणभावस्य साधोः श्रावकस्य च अविराधितश्रावकभावस्येति गम्यते जघन्यः सर्वस्तोकः सौधर्मे प्रथमदेवलोके उपपातो भवति जन्म भणित उक्तः त्रैलोक्यदर्शिभिः सर्वज्ञेरिति // उक्कोसेण अणुत्तरअच्चुयकप्पेसु तत्थ तेमि ठिई। तित्तीससागराइं बावीसं चेव उक्कोसा // 30 // [ उत्कृष्टतोऽनुत्तराच्युतकल्पयोः तत्र तयोः स्थितिः / त्रयस्त्रिंशत्सागराणि द्वाविंशतिश्चोत्कृष्टा // 301 // ]. उत्कृष्टतोऽनुत्तराच्युतकल्पयोरिति साधोरनुत्तरविमानेषु श्रावकस्याच्युतकल्प उपपात इति द्वारं / तत्र तयोरिति तत्रानु Page #188 -------------------------------------------------------------------------- ________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [ 183 ] तरविमानाच्युतयोस्तयोःसाधुश्रावकयोःस्थितिविशिष्टप्राणसधारणात्मिका यथासङ्ख्यं त्रयस्त्रिंशत्सागरोपमाणि द्वाविंशतिरित्युस्कृष्टा साधोस्त्रयस्त्रिंशदनुत्तरेषु श्रावकस्य तु द्वाविंशतिरच्युत इति गाथार्थः / पलिओवमप्पुहुत्तं तहेव पलिओवमं च इयरा उ / दुण्हं पि जहासंखं भणियं तेलुक्कदंसीहिं॥३०२॥ [पल्योपमपृथक्त्वं तथैव पल्योपमं चेतरा।। द्वयोरपि यथासंख्यं भणिता त्रैलोक्यदर्शिभिः // 302 // ] पल्योपमपृथक्त्वं तथैव पल्योपमं चेतरा जघन्या सौधर्म एव साधोः पल्योपमपृथक्त्वं स्थितिः द्विप्रभृतिरा नवभ्यः पृथक्त्वं श्रावकस्य तु पल्योपममिति अत एवाह द्वयोरपि साधुश्रावकयोभणिता त्रैलोक्यदर्शिभिः स्थितिर्गम्यते इति द्वारं / तथा गतिभैदिकेत्याह- . पंचसु ववहारेणं जइणो सड्ढस्स चउसु गमणं तु। गइसु चउपंचमासु चउसु य अन्ने जहाकमसो।३०३। [व्यवहारेण पञ्चसु यते: श्राद्धस्य चतसृषु गमनमिति / गतिषु चतुःपंचमासु चतसृषु चान्ये यथाक्रमशः // 303 // व्यवहारेण सामान्यतो लोकस्थितिमङ्गीकृत्य पञ्चसु यतेः साधोः श्रावकस्य चतसृषु गमनमिति / कासु गतिषु नार Page #189 -------------------------------------------------------------------------- ________________ [ 184 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / कतिर्यङ्नरामरसिद्धिरूपासु चउपंचमासु चउसु य अन्ने जहाकमसो अन्ये त्वभिदधति साधोः सुरगतौ मौक्षमतौ च श्रावकस्य चतसृष्वपि भवांतर्गतिष्विति द्वारं। कषायाश्च भेदका इत्याहचरमाण चउन्हें पि ह उदओऽणुदओ व हुज्ज साहस्सा इयरस्स कसायाणं दुवालसट्टाणमुदओ उ // 304 // [चरमाणां चतुर्णामषि उदयोऽनुदयो वा भवेत् साधोः / इतरस्य कषायाणां द्वादशानामष्टानामुदयः तु // 304 // ] संज्वलनानां चतुर्णामपि क्रोधादीनां कषायाणामुदयोऽनु दयो वा भवेत्साधोरदयश्चतुस्त्रिद्वयेकभेदः, अनुदयोऽप्येवं छमस्थवीतरागादेर्भावनीयः / इतरस्य श्रावकस्य कषायाणां द्वादशानामष्टानां चोदय एवेति यदा द्वादशानां तदा अनंतानुबंधिवर्जा गृह्यन्ते एते चाविरतस्य विज्ञेया यदा त्वष्टानां तदानन्तानुबन्ध्यप्रत्याख्यानवर्जा एते च विरताविरतस्येति द्वारं / तथा बन्धश्च भेदक इत्येतदाहमूलपयडीसुजइणो सत्तविहट्टविहछविहिक्कविहं / बंधंति न बंधंति य इयरे उ सत्तविहबंधा॥३०५॥ [मूलप्रकृतिषु यतयः सप्तविधाष्टविधषड़विधेकविधबन्धकाः अबन्धकाश्च भवन्ति इतरे सप्तविधबन्धकाः तु // 305 // ] मूलप्रकृतिषु ज्ञानावरणादिलक्षणासु विषयभृतासु. तस्मि Page #190 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 185] विषय इति के यतय इति साधवः सप्तविधाष्टविधषड़ विधैकविधबंधकाबन्धकाश्च भवंति एतद्भावयिष्यति / इतरे श्रावकाः सप्तविधबन्धकाः तुशब्दादष्टविधबन्धकाश्चायुष्कबन्धकाल इति / एतदेव विवृण्वन्नाहसत्तविहबंधगा हंति पाणिणो आउवज्जियाणं तु / तह सुहमसंपराया छव्विहबंधा विणिहिट्ठा // 306 // [ सप्तविधबन्धका भवन्ति प्राणिनो जीवा आयुर्वर्जितानामेव / तथा सूक्ष्मसंपरायाः षड्विधबन्धका विनिर्दिष्टाः // 306 // ] सप्तविधबन्धका भवन्ति प्राणिनो जीवा आयुर्वर्जितानामेव ज्ञानावरणीयादिप्रकृतीनो सप्तानामिति तथा सूक्ष्मसंपरायाः श्रेणिद्वयमध्यवर्तिनः तथाविधलोभाणुवेदकाः षविधबन्धका विनिर्दिष्टास्तीर्थकृद्भिरिति // मोहाऊवज्जाणं पयडीणं ते उ बंधगा भणिया। उवसंतखीणमोहा केवलिणो एगविहबंधा // 307 // [ मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः / उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः // 307 // ] मोहायुर्वर्जानां प्रकृतीनां ज्ञानावरणादिरूपाणां ते तु सूक्ष्मसंपराया बन्धका भणिता, मोहनीयं न बध्नन्ति निदानाभावात्तस्य किंचिच्छेषमात्रत्वावस्थितावप्यसमर्थत्वात् आयुष्कं न Page #191 -------------------------------------------------------------------------- ________________ [ 186 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / बध्नन्ति तथाविधपरिणामोपात्तस्य वेदनास्थानाभावात् / उपशान्तक्षीणमोहाः श्रेणिद्वयोपरिवर्तिनः उपशान्तक्षीणच्छमस्थवीतरागाः केवलिनश्च सयोगिभवस्था एकविधबन्धका इति / ते पुण दुसमयठिइस्स बंधगा न उण संपरायस्स। सेलेसीपडिवन्ना अबंधगा हुंति नायव्वा // 30 // [ ते पुनद्विसमयस्थितेः बन्धका न पुनः सांपरायिकस्य / शैलेशीप्रतिपन्ना अबन्धका भवन्ति ज्ञातव्याः // 308 // ] ते पुनरुपशान्तमोहादयस्तस्यैकविधस्य द्विसमयस्थितेरीपिथस्य बन्धका न पुनः सांपरायिकस्य पुनर्भवहेतोरिति / शैलेशीप्रतिपन्ना अयोगिकेवलिनोऽबन्धका. भवन्ति ज्ञातव्याः सर्वथा निदानाभावादिति द्वारं / तथा वेदना भेदिकेत्याहअट्टण्हं सत्तण्हं चउण्ह वा वेयगो हवइ साह / कम्मपयडीण इयरो नियमा अट्टण्ह विन्नेओ।३०९। [अष्टानां सप्तानां चतसृणां वा वेदको भवति साधुः / कर्मप्रकृतीनां इतरः नियमादष्टानां विज्ञेयः // 309 // ] अष्टानां सप्तानां चतसृणां वा वेदको भवति साधुः कामां कर्मप्रकृतीनामिति तत्राष्टानां यः कश्चित् सप्तानामुपशान्तक्षीणमोहच्छद्मस्थवीतरागो मोहनीयरहितानां चतसृणामुत्पन्नकेवलो वेदनीयनामगोत्रायुरूपाणां इतरः श्रावको देशविरतिपरिणामवर्ती Page #192 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 187 ] नियमादष्टानां विज्ञेयो वेदक इति द्वारं / प्रतिपत्तिकृतो भेद इति अत्र आहपंच महव्वय साह इयरो इकाइणुव्वए अहवा। सइ सामाइयं साह पडिवज्जइ इत्तरं इयरो॥३१०॥ [पञ्चमहाव्रतानि साधुः इतर एकादीनि अणुव्रतानि अथवा। सकृत् सामायिकं साधुः प्रतिपद्यते इत्वरं इतरः // 310 // ] पञ्च महाव्रतानि प्राणातिपातादिविरमणादीनि संपूर्णान्येव साधुः प्रतिपद्यत इति योगः। इतरः श्रावकः एकादीनि अणुव्रतानि प्रतिपद्यत इत्येकं द्वे त्रीणि चत्वारि पश्च चेति // अथवा सकृत्सामायिकं साधुः प्रतिपद्यते सर्वकालं च धारयति / इत्वरमितरः श्रावकोऽनेकशो न च सदा पालयतीति द्वारं / अतिक्रमो भेदक इति एतदाहइक्कस्सइक्कमे खलु वयस्स सव्वाणइक्कमो जइणो। इयरस्स उ तस्सेव य पाठंतरमो हवा किंच॥३११॥ [एकस्यातिक्रमे खलु सर्वेषामतिक्रमो यतेः। इतरस्य तु तस्यैव पाठान्तरमेवाथवा किंर्च // 311 // ] एकस्यातिक्रमे केनचित्प्रकारेण व्रतस्य सर्वेषामतिक्रमो यतेस्तथाविधैकपरिणामत्वात् / इतरस्य तु श्रावकस्य तस्यैवाधिकृतस्याणुव्रतस्य न शेषाणां विचित्रविरतिपरिणामात् पाठा Page #193 -------------------------------------------------------------------------- ________________ [ 188 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / न्तरमेवाथवा द्वारगाथायां तच्चदं किं च " सव्वं ति भाणिऊणं" इत्यादिग्रन्थान्तरापेक्षमन्यत्रेति। __उक्तमानुषङ्गिकं प्रकृतं प्रस्तुम इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति / तानाहमणवयणकायदुप्पणिहाणं सामाइयम्मि वज्जिज्जा। सइअकरणयं अणवट्टियस्स तह करणयं चेव // 312 // [मनोवाक्कायदुःप्रणिधानं सामायिके वर्जयेत् / स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव // 312 // ] मनोवाकायदुःप्रणिधानं मनोदुष्टचिन्तनादि सामायिके कृते सति वर्जयेत् स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव वर्जयेत् / तत्र स्मृत्यकरणं नाम सामायिकविषया या स्मृतिस्तस्या अनासेवनमिति एकदुक्तं भवति प्रवलप्रमादान्नैव स्मरत्यस्यां वेलायां सामायिकं कर्तव्यं कृतं न कृतमिति वा स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति / सामायिकस्यानवस्थितस्य करणं अनवस्थितमल्पकालं करणानन्तरमेव त्यजति यथाकथचिद्वानवस्थितं करोतीति / एतदेव अतिचारजातं विधिप्रतिषेधाभ्यां स्पष्टयति / 1 सव्वं ति भाणिऊणं विरई खलु जस्स सन्चिया नथि। सो सव्वविरइवाई चुकइ देसं च सव्वं च // Page #194 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [189 ] सामाइयं ति काउं परचितं जो उचिंतई सडढो। अट्टवसट्टोवगओनिरत्थयं तस्स सामइयं / 313 // [सामायिकमिति कृत्वा परचिन्तां यस्तु चिन्तयति श्राद्धः। आर्तवशाहॊपगतः निरर्थकं तस्य सामायिकम् // 313 // ] सामायिकमित्येवं कृत्वा आत्मानं संयम्य परचिन्तां संसारे इतिकर्तव्यताविषयां यस्तु चिन्तयति श्रावकः, आर्तवशार्तश्चस उपगतश्चेति समासः आर्तध्यानसामर्थेनातः उप सामीप्येन गतो भवस्येति भावार्थः निरर्थकं तस्य सामायिकं अनात्मचिन्तावतो निःफलं सामायिकमित्यर्थः / आत्मचिन्ता च सद्वयानरूपेति / 1 / ___ उक्तो मनोदुःप्रणिधानविधिः। सांप्रतं वाग्दुःप्रणिधानमाहकयसामइओ पुल्विं बुद्धीए पेहिऊण भासिज्जा। सइ अणवज्जं वयणं अन्नह सामाइयं न भवे।३१४॥ [कृतसामायिकः पूर्व बुद्धया प्रेक्ष्य भाषेत / सदा निरवद्यं वचनं अन्यथा सामायिकं न भवेत्॥३१४॥] कृतसामायिकः सन् श्रावकः पूर्वमाद्यं बुद्धया प्रेक्ष्यालोच्य भाषेत ब्रूयात् सदा निरवद्यवचनं प्रणालिकयापि न कस्यचित्पीडाजनकं, अन्यथानालोच्य भाषमाणस्य मामायिकं न भवेत् वाग्दुःप्रणिहितत्वादिति / 2 / Page #195 -------------------------------------------------------------------------- ________________ [ 190 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / भणितो वाग्दुःप्रणिधानातिचारः। सांप्रतं कायप्रणिधानमुररीकृत्याहअनिरिक्खियापमज्जिय थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावे वि न सो कडसामइओ पमायाओ॥३१५। [ अनिरीक्ष्य अप्रमृज्य स्थण्डिले स्थानादि सेवमानः / हिंसाभावेऽपि नामौ कृतसामायिकः प्रमादतः // 315 // अनिरीक्ष्य चक्षुषा अप्रमृज्य च मृदुवस्त्रान्तेन स्थण्डिले कल्पनीयभूभागे स्थानादि कायोत्सर्गनिषीदनादि सेवमानः सन् हिंसाभावेऽपि प्राण्यभावेन कथंचिद्व्यापत्यभावेऽपि नासौ कृतसामायिकः / कुतः प्रमादात्काये दुःप्रणिधानादिति / 3 / प्रतिपादितः कायदुःप्रणिधानमार्गः। सांप्रतं स्मृत्यकरणमधिकृत्याह-- न सरइपमायजुत्तो जो सामइयं कया उ कायव्वं / कयमकयं वा तस्स उ कयं पि विफलं तयं नेयं / 316 // [न स्मरति प्रमादयुक्तः यः सामायिकं कदा तु कर्तव्यम् / कृतमकृतं वा तस्य कृतमपि विफलं तकं ज्ञेयम् // 316u] न स्मरति प्रमादयुक्तः सन् यः सामायिकं कदा तु कर्तव्यं कोऽस्य काल इति कृतमकृतं वा न स्मरति, तस्येत्थं Page #196 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [191] भूतस्य कृतमपि सद् विफलं तत् ज्ञेयं स्मृतिमूलत्वाद्धर्मानुष्ठानस्य, तदभावे तदभावात् / 4 / व्याख्यातं स्मृत्यकरणमधुनानवस्थितकरणमाहकाऊण तकखणं चिय पारेइ करेइ वा जहिच्छाए। अणवट्टियसामइयं अणायराओ न तं सुद्धं // 317 // [कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया / अनवस्थितसामायिकं अनादरानं तच्छुद्धम् // 317 / / ] कृत्वा तत्क्षणमेव करणानन्तरमेव पारयति, करोति वा यदृच्छया यथाकथंचिंदेवमनवस्थितं सामायिकमनादरादबहुमानान्नैतच्छुद्धं भवति न निरवद्यमिति // 5 // उक्तं सातिचारं प्रथमं शिक्षापदमधुना द्वितीयमाहदिप्तिवयगहियरस दिसापरिमाणस्सेह पइदिणंजं तु। परिमाणकरणमेयं बीयं सिक्खावयं भणियं / 318 / [दिग्व्रतगृहीतस्य दिग्परिमाणस्य इह प्रतिदिनं यदेव / परिमाणकरणमेतद् द्वितीयं शिक्षापदं भणितम् / / 318 // ] दिग्वतं प्रानिरूपितस्वरूपं तद्गृहीतस्य दिक्परिमाणस्य योजनशतादेर्दीर्घकालिकस्य इह लोके प्रतिदिनं यदेव परिमाणकरणमेतावदेव गन्तव्यं न परत इत्येतद्वितीयं शिक्षापदं Page #197 -------------------------------------------------------------------------- ________________ [ 192 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / भणितमिह प्रवचने इति / प्रतिदिवसग्रहणं प्रतिप्रहराद्युपलक्षणं प्रतिप्रहरं प्रतिघटिकमिति // देसावगासियं नाम सप्पविसनायओऽपमायाअ / आसयसुद्धीइ हिय पालेयध्वं पयत्तेणं // 319 // [ देशावकासिकं नाम सर्पविषज्ञातात् अप्रमादात् / आशयशुद्धया हितं पालयितव्यं प्रयत्नेन // 319 // ] दिग्वतगृहीतदिक्परिमाणैकदेशो देशस्तस्मिन्नवकाशो गमनादिचेष्टास्थानं तेन निवृत्तं देशावकाशिकमिति / नामेति संज्ञा / एतच्च सर्पविषज्ञातात् सर्पोदाहरणेन विषोदाहरणेन च। जहा सप्पस्स पुव्वं बारस जोयणाणि विसओ आसी दिट्ठीए पच्छा विज्जावाइएण ओसारत्तेण जोयणे ठविओ एवं सावगो दिसिव्वयाहिगारे बहुयं अवरज्झियाइओ पच्छा देसावगासिएणं तं पि ओसारइ, अहवा विसदिटुंतो अगएण एगाए अंगुलीए ठवियं एवं विभासा // एवमप्रमादात्प्रतिदिनादिपरिमाणकरणे अप्रमादस्तथा चाशयशुद्धिः चित्तवैमल्यं, ततो हितमिदमिति पालयितव्यं प्रयत्नेनेति / इदमपि चातिचाररहितमनुपालनीयमिति // अतस्तानाहवज्जिज्जा आणयणप्पओगपेसप्पओगयं चेव / सदाणुरूववायं तह बहिया पुग्गलखेवं // 320 // Page #198 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [ 193 ] [वर्जयेत् आनयनप्रयोगं प्रेष्यप्रयोगं चैव। ' शब्दानुपातं रूपानुपातं तथा बहिःपुद्गलक्षेपम् // 320 // ] प्रतिपन्नदेशावकाशिकः सन् वर्जयेत् किं आनयनप्रयोगं प्रेष्यप्रयोगं चैव शब्दानुपातं रूपानुपातं च तथा बहिर्वा पुद्गलक्षेपं वर्जयेदिति पदघटना / भावार्थस्तु इह विशिष्टावधिके भृदेशाभिग्रहे परतः स्वयं गमनायोगाद्योऽन्यः सचित्तादिद्रव्यानयने प्रयुज्यते, संदेशकप्रदानादिना " त्वयेदमानेयम्" इति अयमानयनप्रयोगः // तथा प्रेष्यप्रयोगः बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात् “त्वयावश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमेव" एवंभूतः / 2 / तथा शब्दानुपातः स्वगृहवृत्तिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्ती, तत्र स्वयंगमनायोगाद्वत्तिप्राकारप्रत्यासन्नवर्तिनी बुद्धिपूर्वकमभ्युक्तासितादिकशब्दकरणेन समवसितकान्बोधयतः शब्दानुपातनमुच्चारणं ताडग्येन परकीयश्रवणविवरमनुपतत्यसाविति / 3 / तथा रूपानुपातो गृहीतदेशाबहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थ स्वशरीररूपप्रदर्शनं रूपानुपातः / 4 / तथा बहिः पुद्गलक्षेपोऽभिगृहीतदेशाबहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्रवादिक्षेप: पुद्गलप्रक्षेप इति भावना / 5 / देशावकाशिकमेतदर्थममिगृह्यते मा भूबहिर्गमनागमनादिव्यापारजनित: प्राण्युपमर्द Page #199 -------------------------------------------------------------------------- ________________ [ 194 1 सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / इति स च स्वयं कृतोऽन्येन वा कारित: इति न कश्चित्कले विशेषः प्रत्युत गुणः स्वयं गमन ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वात्तदशुद्धिरिति / व्याख्यातं सातिचारं द्वितीय शिक्षापदमधुना तृतीयमुच्यतेआहारपोसहो खलु सरीरसक्कारपोसहो चेव / बंभव्वावारेसु य तइयं सिक्खावयं नाम // 321 // [ आहारपौषधः खलु शरीरसत्कारपौषधश्चैव / ब्रह्माव्यापारयोश्च तृतीयं शिक्षापदं नाम // 321 // आहारपौषधः खलु शरीरसत्कारपौषधश्चैव ब्रह्माव्यापारयोवेति ब्रह्मचर्यपौषधोऽव्यापारपौषधश्चेति / इह पौषधशब्दः रूढ्या पर्वसु वर्तते / पर्वाणि चाष्टम्यादितिथयः पूरणात्पर्व धर्मोपचयहेतुत्वादिति / तत्राहारः प्रतीतः तद्विषयस्तन्निमित्तो वा पौषधः आहारपौषधः आहारादिनिवृत्तिनिमित्तं धर्मपूरणं पर्वेति भावना / एवं शरीरसत्कारपौषधः / ब्रह्मचर्यपौषधः अत्र चरणीयं चर्य अतो यदित्यस्मादधिकारात् गदमदचरयमचानुपसर्ग इति यत् ब्रह्म कुशलानुष्ठानं यथोक्तं / ब्रह्म वेदो ब्रह्म तपो ब्रह्म ज्ञानं च शाश्वतं / ब्रह्मवत् चर्य चेति समास शेषः पूर्ववत् / तथाव्यापारपौषधः तृतीयं शिक्षावतं नामेति सूच. नात्सूत्रमिति न्यायात्तृतीयं शिक्षापदव्रतमिति एतदेव विशेषेणाह Page #200 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 195 ] देसे सव्वे य दुहा इक्किक्को इत्थ होइ नायब्वो। सामाइए विभासा देसे इयरम्मि नियमेण // 322 // [देशे सर्वस्मिन् च द्विधैव एकैकः अत्र भवति ज्ञातव्यः / सामायिके विभाषा देशे इतरस्मिनियमेन // 322 // ] देश इति देशविषयः सर्व इति सर्व विषयश्च द्विधा द्विप्रकार एकैक आहारपौषधादिरस्त्र प्रवचने भवति ज्ञातव्यः सामायिके विभाषा कदाचित्क्रियते कदाचिन्नेति देशपौषधे, इतरस्मिन् सर्वपौषधे नियमेन सामायिकं अकरणात्मवंचनेति। भावत्थो पुण इमो-आहारपोसहो दुविहो, देसे सव्वे य. देसे अमुगा विगती आयंबिलं वा एक्कसि वा दो वा सव्वे चउविहो आहारो अहोरत्तं पञ्चक्खाओ। सरीरसकारपोसहो न्हाणुव्वट्टणवन्नगविलेवणपुष्फगन्धतंबोलाणं वत्थाहरणपरिचागो य, सो दुविहो देसे सव्वे य, देसे अमुगं सरीरसकारं न करेमि सव्वे सव्वं न करेमि त्ति / बंभचेरपोसहो वि देसे सव्वे य देसे दिवारत्तिं वा एक्कसि वा दो वारे त्ति सव्वे अहोरत्तं बंभचारी भवति / अव्वावारपोसहो वि दुविहो देसे सव्वे य देसे अमुगंमि वावारंमि सव्वे सव्वं वावारं चेव हलसगडघरकम्माइयं ण करेमि / एत्थ जो देसपोसहं करेइ सो सामायिक करेड़ वा ण वा जो सव्वापोसहं करेइ सो नियमा कयसामाइओ जइ ण करे तो णियमा वंचिज्जइ कहिं चेइयघरे साहु Page #201 -------------------------------------------------------------------------- ________________ [ 196 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / मूले वा घरे वा पोसहसालाए वा उम्मुक्कमणिसुवन्नो यदंतो पोत्थगं वा वायंतो धम्मज्झाणं वा झायइ जहा एए साहुगुणा अहमसत्थो मंदभग्गो धारे विभासा / इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति / अत आहअप्पडिदुप्पडिलेहियसिज्जासंथारयविवज्जिज्जा। अपमज्जियदुपमज्जिय तह उच्चाराइभूमिं च / 323 / [अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारको वर्जयेत् / अप्रमार्जितदुष्प्रमार्जितं तथा उच्चारादिभुवमपि / / 323 // ] अप्रत्युपेक्षितदुःप्रत्युपेक्षितशय्यासंस्तारको वर्जयेत् / इह संस्तीर्यते यः प्रतिपन्नपौषधोपवासेन दर्भकुशकम्बलवस्त्रादिः स संस्तारकः शय्या प्रतीता अप्रत्युपेक्षणं गोचरापन्नस्य शय्यादेः चक्षुषानिरीक्षणं दुष्टमुद्धान्तचेतसः प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ च शय्यासंस्तारको चेति समासः शय्यैव वा संस्तारक इति / एवमन्यत्रापि अक्षरगमनिका कार्येति / उपलक्षणं च शय्यासंस्तारकावुपयोगिनः पीढफलकादेरपि / एत्थं सामायारी कडपोसहो णो अप्पडिलेहिय सेज्जं दुरुहइ संथारगं वा दुरुहइ पोसहसालं वा सेवइ दब्भवत्थं वा. सुद्धवत्थं वा भूमीए संथारेइ काइयभूमीउ वा आगओ पुणरवि पडिलेहइ अनहातियारो एवं पीढफलगादिसु वि विभासा / Page #202 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञात्याख्यप्रकरणं / [ 197 ] तथा अप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकावेव / इहाप्रमाजनं शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति दुष्टमविधिना प्रमाजनं शेष भावितमेव / एवमुच्चारप्रस्रवणभुवमपि उच्चारप्रस्रवणंनिष्ठयूतस्वेदमलाद्युपलक्षणं शेष भावितमेव / गाहातह चेव य उज्जुत्तो विहीइ इह पोसहम्मि वज्जिज्जा। सम्मं च अणणुपालणमाहाराईसु सव्वेसु // 324 // [ तथैव च उद्युक्तः विधिना इह पौषधे वर्जयेत् / सम्यगननुपालनं च आहारादिषु सर्वेषु // 324 // ] तथैव च यर्थानन्तरोदितमुद्युक्तो विधिना प्रवचनोक्तक्रियया निःप्रकम्पेन मनसा इह पोषधे पौषधविषयं वर्जयेत् किं सम्यगननुपालनं चेति क्क आहारादिषु सर्वेषु सर्वाहारादिविषयमिति गाथाक्षरार्थः। एत्थ भावणा-कयपोसहो अथिरचित्तो आहारे ताव सव्वं देसं वा पत्थेइ बीयदिवसे पारणगस्स वा अप्पणोढाए आढत्ति करेइ कारवेइ वा इमं इमं वत्ति करेह / न वट्टइ सरीरसकारे सरीरमुबट्टेइ दाढियाउ केसे वा रोमाइं वा सिंगारामिप्पाएण संठवेइ दाहे वा सरीरं सिंचइ एवं सव्वाणि सरीरविभूसाकारणाणि परिहरइ / बंभचेरे इहलोइए वा परलोइए भोगे पत्थेइ संवाहेइ वा अहवा सदफरिसरसरूवगंधे वा अभिलसइ कइया बंभचेरपोसहो पूरिहिइ चइयामो बंभचेरेणंति / अव्वावारे साव Page #203 -------------------------------------------------------------------------- ________________ [ 198 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / ज्जाणि वावारेइ कयमकयं वा चिंतेइ एवं पंचातियारसुद्धो अणुपालेयव्वोत्ति गाथाद्वयभावार्थः। उक्तं सातिचारं तृतीयं शिक्षापदव्रतमधुना चतुर्थमुच्यतेनायागयाण अन्नाइयाण तह चेव कप्पणिज्जाणं / देसद्धसद्धसक्कारकमजुयं. परमभत्तीए // 325 // [न्यायागतानां अन्नादीनां तथा चैव कल्पनीयानाम् / देशकालश्रद्धासत्कारक्रमयुक्तं परमभक्त्या // 325 // ] न्यायागतानामिति, न्यायो द्विजक्षत्रियविशूद्राणां स्ववृत्त्यनुष्ठानं स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेनेदृशन्यायेनागतानां प्राप्तानामनेनान्यायागतानां प्रतिषेधमाह / अन्नादीनां द्रव्याणां आदिग्रहणात्पानवखपात्रौषधभेषजादिपरिग्रहः अनेनापि हिरण्यादिव्यवच्छेदमाह / कल्पनीयानामिति उद्गमादिदोषपरिवर्जितानां अनेनाकल्पनीयानां निषेधमाह / देशकालश्रद्धासत्कारक्रमयुक्तं नानाव्रीहिकोद्रवकगुगोधूमादिनिष्पत्तिभाग्देशः, सुभिक्षदुर्भिक्षादिः कालः, विशुद्धचित्तपरिणामः श्रद्धा, अभ्युत्थानासनदानवंदनाद्यनुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह / परमया प्रधानया भक्त्या इत्यनेन फलप्राप्तौ भक्तिकृतमतिशयमाहेति // Page #204 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 199] आयाणुग्गहबुद्धीइ संजयाणं जमित्थ दाणं तु / एवं जिणेहि भणियं गिहीण सिक्खावयं चरिमं३२६ [आत्मानुग्रहबुद्धया संयतेभ्यः यदत्र दानं तु। एतद् जिनैः भणितं गृहिणां शिक्षाप्रदं चरमम् // 326 // ] आत्मानुग्रहबुद्धया न पुनर्यत्यनुग्रहबुद्धयेति तथाहि आत्मपरानुग्रहपरा एव यतयः / संयता मूलोत्तरगुणसंपन्नाः साधवस्तेभ्यो दानमिति एतज्जिनस्तीर्थकरैर्भणितं गृहिणः श्रावकस्य शिक्षापदमिति शिक्षापदव्रतं चरमं अतिथिसंविभागाभिधानं इह भोजनार्थ भोजनकालोपस्थाय्यतिथिरुच्यते / आत्मार्थनिप्पादिताहारस्य गृहिणो व्रती साधुरेवातिथिः। यत उक्तं तिथिः पर्वोत्सवाः सर्वे त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः // .. तस्य संविभागो अतिथिसंविभागः संविभागग्रहणात्पश्चाकर्मादिपरिहारमाहेति / ' ___एत्थ सामायारी-सावगेण पोसहं पारंतेण नियमा साहूणमदाउं न पारेयव्वं दाउं पारेयव् / अन्नया पुण अनियमो दाउं वा पारेइ पारिए वा देइ त्ति तम्हा पुव्वं साहूणं दाउं पच्छा पारेयव्वं कहं जाहे देसकालो ताहे अप्पणो सरीरस्स विभूसं काउं साहुपडिस्सयं गंतुं णिमंतेइ भिक्खं गेहह त्ति / साहूणं का पडिवत्ती ताहे अन्नो पडलयं अन्नो मुहणंतगं Page #205 -------------------------------------------------------------------------- ________________ [ 200 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। अन्नो भायणं पडिलेहेइ मा अंतराइयदोसा ठवणा दोसो य भविस्सन्ति / सो जइ पढमाए पोरिसीए णिमंतेइ अत्थि णमोकारसहियाइत्ता तो गच्छइ अह नत्थि न गच्छइ तं ठवियव्वं होइ जइ घणं लगेज्जा ताहे गेण्हइ संविक्ताविज्जइ जो व उग्घाडाए पोरसीए पारेइ पारणाइत्तो अन्नो वा तस्स दिज्जइ सामन्नेणं नाए कहिए पच्छा तेण सावगेण समं गम्मइ संघाडगो वच्चइ एगो न वट्टइ पट्टवेउं साहू पुरओ सावगो मग्गओ घरं णेऊण आसणेण उवणिमंतिज्जइ. जइ णिविट्ठो लट्ठयं अह ण णिविसति तहा वि विणओ पयत्तो ताहे भत्तपाणं देइ सयं चेव अहवा भाणं धरेइ भज्जा से देइ अहव ठिओ अच्छइ जहा दिन्नं साहुवि सावसेसं दव्वं गेहइ पच्छाकम्मपरिहरणट्ठा दाउं वंदिऊण विसज्जेइ विसज्जित्ता अणुगच्छइ पच्छा सयं भुंजइ जं तं किर. साहुण ण दिन्नं तं सावगेण न भोत्तव्वं / जइ पुण साहू णत्थि ताहे देसकालवेलाए दिसालोओ कायव्यो विसुद्धभावेण चिंतियव्वं साहुणो जइ होता नाम नित्थारिओ होतो विभासा / इदमपि शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति एतदाहसचित्तनिक्खिवणयं वज्जे सचित्तपिहणयं चेव / कालाइक्कमदाणं परववएसं च मच्छरियं // 327 // 1 एष पाठोऽशुद्ध इव प्रतिभाति परं दृष्टादशेष्वेतादृश एव / Page #206 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 201] [सचित्तनिक्षेपणं वर्जयेत् सचित्तपिधानं चैव / . कालातिक्रमदानं परव्यपदेशं मात्सर्य च // ] विवर्जयेत् तत्र सचित्तनिक्षेपणं सचित्तेषु व्रीह्यादिषु निक्षेपणमन्नादेरदेयबुद्धया मातृस्थानतः / 1 // एवं सचित्तपिधानं सचित्तेन फलादिना पिधानं स्थगनमिति समासः भावार्थः प्राग्वत् / 2 / कालातिक्रम इति कालस्यातिक्रमः कालातिक्रमः उचितो यो भिक्षाकालः साधूनां तमतिक्रम्य उल्लंध्य भुक्ते तदा च किं तेन लब्धेनापि कालातिक्रांतत्वात्तस्य उक्तं च / काले दिन्नस्स पहेणयस्स अग्यो ण तीरए काउं / तस्सेवकाले परिणामियस्स गिण्हंतया नत्थि / / परव्यपदेश इति आत्मव्यतिरिक्तो योऽन्यः स परस्तव्यपदेश इति समास: साधोः पौषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यत: श्रावकोऽभिधत्ते परकीयमिदमिति नात्मीयमतो न ददामि किंचिद्याचितो वाभिधत्ते विद्यमान एवामुकस्येदमस्ति तत्र गत्वा मार्गय तद्यूयमिति / 4 / मात्सर्यमित्ति याचितः कुप्यते सदपि न ददाति परोन्नतिवैमनस्यं च मात्सर्यमिति "तेन तावद्रमकेण याचितेन दत्तं, किमहं ततोऽपि न्यूनः" इति मात्सर्यादाति कषायकलुषितेन वा चित्तेन ददतो मात्सर्यमिति / 5 / / उक्तं च सातिचारं चतुर्थ शिक्षापदव्रतं अधुनैषामणुत्र-. Page #207 -------------------------------------------------------------------------- ________________ [ 202 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तादिनां यानि यावत्कथिकानि यानि चेत्वराणि तदेतदाहइत्थ उ समणोवासगधम्मे अणुव्वयगुणव्वयाइं च / आवकहियाइ सिक्खावयाइं पुण इत्तराई ति।३२८। [अत्र तु श्रमणोपासकधर्मे अनुव्रतानि गुणव्रतानि च / यावत्कथिकानि शिक्षाब्रतानि पुनरित्वराणीति // 328 // ] अत्र पुनः श्रमणोपासकधर्म तुशब्दः पुनःशब्दार्थः स चावधारणे अत्रैव न शाक्याद्युपासकधर्मे तत्र सम्यक्त्वाभावेन अणुव्रतायभावात् उपास्ते इत्युपासकः सेवकः इत्यर्थः श्रमणानामुपासकस्तस्य धर्म इति समासः अणुव्रतानि गुणव्रतानि चेति पश्चाणुव्रतानि प्रतिपादितम्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव यावत्कथिकानीति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि न तु नियोगतो यावज्जीवमेवेति गुग्यो व्याचक्षते प्रतिचातुर्मासकमपि तद्ग्रहणं वृद्धपरंपरायाततया सामाचार्युपलब्धः शिक्षापदव्रतानि पुनरित्वराणि शिक्षा अभ्यासस्तस्याः पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि इत्वराणीति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावका शिके पुनः पुनरुच्चार्यते इति भावना पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति। श्रावकधर्म च प्रत्याख्यानभेदानां सप्तचत्वारिंशदधिकं भङ्गशतं भवति चित्रत्वाद्देशविरतेः, तदाह Page #208 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [203 ]. सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं / तं च विहिणा इमेणं भावेयव्वं पयत्तेणं // 329 // [सप्तचत्वारिंशदधिकं भङ्गशतं गृहिप्रत्याख्यानभेदपरिमाणं / तच्च विधिना अनेन भावयितव्यं प्रयत्नेन // 329 // ] सप्तचत्वारिंशदधिकं शतं गृहिप्रत्याख्यानभेदानां परिमाणमियत्ता तच्च विधिना अनेन वक्ष्यमाणेन भावयितव्यं प्रयत्नेनावहितचेतोमिरिति / विधिमाहतिन्नि तिया तिनि दुया तिन्निकिक्काय हंति जोगेसु। ति दु एक्कं ति दु एक्कं ति दु एक्कचेव करणाइं॥ [त्रयस्त्रिकाः त्रयो द्विकाः त्रय एककाश्च भवन्ति योगेषु / त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि // 330 // ]1 त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाश्च भवन्ति योगेषु कायवाग्मनोव्यापारलक्षणेषु त्रीणि द्वयमेकं 3 चैव करणानि मनोवाकायलक्षणानीति पदघटना / भावार्थस्तु स्थापनया निर्दिश्यते सा चेयं : 9 One MS. of the original text adds the following Page #209 -------------------------------------------------------------------------- ________________ [ 204 ] सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं / गाथा-पढमे लब्भड इको सेसेसु पएसु तिय तिय तिय ति। दो नव तिय दो नवगा तिगुणिय सीयालभंगसयं // योगाः |3|33/222|1|1|1| करणानि 3 | 2 | 1 | 3 | 2 | 1 | 3.21 1 / 3/3/3/9/9 3/9/9 कात्र भावना-न करेइ न कारवेइ करंतंपि अन्नं न समणुजाणइ मणेणं वायाए कारण एको भेओ 31 / इयाणि बिइओ ण करेइ न कारवेइ करतंपि अन्नं न समणुजाणइ मणेणं वायाए एको 3, मणेणं काएण 2, तहा वायाए कारण 3, बीओ मूलभेओ गओ / 2 / इयाणि तइयओ, ण करेइ ण करावेइ करतं पि अन्नं न समणुजाणइ मणेणं 3, वायाए 3, कारणं // 3 // इदानीं चतुर्थः न करेइ न कारवेइ मणेणं वायाए काएणं 1, ण करेइ करतं पि नाणुजाणइ है, ण कारवेइ करतं पि नाणुजाणइ तइओ चउत्थो मूलभेओ / 4 / इदानीं पंचमो, न करेइ न कारवेइ मणेणं वायाए एको 3, न करेइ करतं नाणुजाणइ 33, ण कारवेइ करतं नाणुजाणइ 3, एए तिनि वि भंगा मणेणं वायाए लद्धा; अन्ने वि तिनि मणेणं काएण य एवमेव लभंति 1.556 तहा अवरे वि वायाए कारण य लभंति 571858 एवमेव एते सव्वे नव, पंचमोऽप्युक्तो मूलभेदः / 5 / इयाणि छट्ठो, ण करेइ ण कारवेइ. मणेणं एको 1, तहा ण करेइ करतं पि नाणुजाणइ मणेणं , ण कार Page #210 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 205 ] वेइ करतं नाणुजाणइ मनसैव तृतीयः 3, एवं वायाए 4.5 कारण य 1674 सव्वे नव, उक्तो षष्ठो मूलभेदः / / इदानों सप्तमोऽभिधीयते, ण करेइ मणेणं वायाए कारण य एक्को 38 एवं ण कारवेइ मणाईहिं 3, करंतं णाणुजाणइ अ / 7 / इदानीमष्टमो भण्यते न करेइ मणेण वायाए एको 11, तहा मणेण कारण य , तहा वायाए कारण य ३१एवं न करावेइ 43 करतं नाणुजाणइ 1994 सच्चे विणव / 8 / इदानीं नवमो भण्यते न करेइ. मणेणं 3, न कारवेइ 92, करतं नाणुजाणइ ॐ एवं वायाए वि 445566; कारण वि 84. सव्वे. वि नव नवमों मूलभेदः / 9 / आगतगुणनेदानों क्रियते // . . लद्धफलमाणमेयं भंगाउ भवंति अउणपन्नासं / तीयाणागयसंपयगुणियं कालेण होइ इमं // सीयोलं भंगसयं कह कालतिएण होई गुणणाउ / तीयस्स पडिक्कमणं पच्चुप्पन्नस्स संवरणम् // पच्चक्खाणं व तहा होइ य एस्सस्स एस गुणणाओ। कालतिएण य भणियं जिणगणहरवायगेहिं च // इति उक्तभङ्गकानामाद्यभङ्गस्वरूपाभिधित्सयाह / न करइ न करावेइ य करंतमन्नपि नाणुजापेइ / मणवयकायेणिकको एवं सेसा वि जाणिज्जा॥३३१ Page #211 -------------------------------------------------------------------------- ________________ [ 206 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [न करोति न कारयति कुर्वन्तमन्यमपि नानुजानाति / मनोवाक्कायैः एकः एवं शेषानपि जानीयात् // 331 // ] न करोति स्वयं न कारयत्यन्यैः कुर्वन्तमन्यमपि स्वनिमित्तं स्वयमेव नानुजानाति कथं मनोवाकायैमनसा वाचा कायेन चेत्येवमेको विकल्पः, एवं शेषानपि द्वथादीन् जानीयात् यथोक्तान् प्रागिति / अत्राहन करेईचाइतियं गिहिणो कह होइ देसविरयस्स / भन्नइ विसयस्स बहिं पडिसेहो अणुमईए वि॥३३२॥ [न करोति इत्यादित्रिकं गृहिणः कथं भवति देशविरतस्य / भण्यते विषयाबहिः प्रतिषेधो अनुमतेरपि // 332 // ] न करोतीत्यादित्रिकं अनन्तरोक्तं गृहिणः श्रावकस्य कथं भवति देशविरतस्य विरताविरतस्य सावधयोगेष्वनुमतेरव्यवच्छिन्नत्वात् , नैव भवतीत्यभिप्रायः एवं चोदकाभिप्रायमाशक्य गुरुराह, भण्यते तत्र प्रतिवचनं विषयाद्वहि: प्रतिषेधोऽनुमतेरपि, यत आगतं भाण्डाद्यपि न गृह्णातीत्यादाविति, अत्रैवं व्यवस्थिते सतिकेई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं / तं न जओ निदिटुं पन्नत्तीए विसेसेउं // 333 // [ केचन भणन्ति गृहिणः त्रिविधं त्रिविधेन नास्ति संवरणम् / ___ तन्न यतो निर्दिष्टं प्रज्ञप्तौ विशिष्य // 333 // ] Page #212 -------------------------------------------------------------------------- ________________ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं / [207] केचनाहन्मतानुसारिण एवापरिणतसिद्धान्ता भणन्ति, किं गृहिणः त्रिविधं न करोतीत्यादि त्रिविधेन मनसेत्यादिना नास्ति संवरणं न विद्यते प्रत्याख्यानं तन्न तदेतदयुक्तं, किमिति यतो निर्दिष्टं प्रज्ञप्तौ भगवत्यां विशेषः (विशिष्य !) अविषये “तिविहं पि" इत्यादिनेत्याह / ता कह निज्जुत्तीए णुमतिनिसेहु त्ति से सविसयम्मि। सामन्ने वानस्थ उ तिविहं तिविहेण को दोसो॥३३४॥ [तत्कथं नियुक्तौ अनुमतिनिषेध इति स स्वविषये / सामान्ये वा अन्यत्र तु त्रिविधं त्रिविधेन को दोषः३३४] यद्येवं तत्कथं नियुक्ती प्रत्याख्यानसंज्ञितायां अनुमतिनिषेध इति " दुविहं तिविहेण पढमउ" इत्यादिवचनेन / अत्रोच्यते / स स्वविषये यत्रानुमतिरस्ति तत्र तनिषेधः सामान्ये वा प्रत्याख्याने स इति, अन्यत्र तु विशेषे स्वयंभूरमणजलधिमत्स्यादौ त्रिविधं त्रिविधेन कुर्वतः को दोषो, न कश्चिदिति / परिहारान्तरमाहपुत्ताइसंतइनिमित्तमित्तमेगारसिं पवन्नस्स / जपंति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि३३५ [पुत्रादिसन्ततिनिमित्तमात्रम् एकादशी प्रपन्नस्य / जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि 335] Page #213 -------------------------------------------------------------------------- ________________ [208 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / पुत्रादिसन्ततिनिमित्तमात्रं प्रव्रजितोऽस्य पितेत्येवं विज्ञाय परिभवन्ति केचन तत्सुतं अप्रबजिते तु न एतावद्भिश्चाहोभिरसौ मानुपीभवत्येवेति तत ऊर्ध्व गुणमुपलभ्य एतन्निमित्तं प्रविबजिपुरपि कश्चित्पर्यन्तवर्तिनीमुपासकप्रतिमां प्रतिपद्यत इति तदाह एकादशी प्रपन्नस्य श्रवणभूताभिधानामुपासकप्रतिमामाश्रितस्य जल्पन्ति केचन गृहिणो दीक्षाभिमुखस्य त्रिविधमपि प्रत्याख्यानमिति / आह कहं पुण मणसा करणं कारावणं अणुमई य। जह वइतणुजोगेहिं करणाई तह भवे मणसा॥३३६॥ [आह कथं पुनर्मनसा करणं कारणं अनुमतिश्च / यथा वाक्तनुयोगाभ्यां करणादयः तथा भवेत् मनसा३३६] आह चोदकः कथं पुनर्मनसा करणं कारणमनुमतिश्चान्तर्व्यापारत्वेन परैरनुपलक्ष्यमाणत्वादनुपपत्तिरित्यभिप्रायः / गुरुराह / यथा वाक्तनुयोगाभ्यां करणादयः करणकारणानुमोदनानि तथा भवेद् मनसापिति कथमित्याह / तयहीणत्ता वयतणुकरणाईण अहवा उ मणकरणं / सावज्जजोगमणणं पन्नत्तं वीयरागेहिं // 337 // [तदधीनत्वात् वाक्तनुकरणादीनां अथवा तु- मनःकरणं / सावद्ययोगमननं प्रज्ञप्तं वीतरागैः // 337 // ] Page #214 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [209] तदधीनत्वादिति मनोयोगाधीनत्वात् वाक्तनुकरणादीनां तेन ह्यालोच्य वाचा कायेन वा करोति कारयति चेत्यादि अभिसंधिमन्तरेण प्रायस्तदनुपपत्तेः / प्रकारान्तरं चाह / अथवा मनःकरणं किं सावधयोगमननं करोम्यहं एतदिति सपापव्यापारचिन्तनं प्रज्ञप्तं वीतरागैरिति // कारवणं पुण मणसा चिंतेइ करेउ एस सावज्ज / चिंतेई य कए पुण सुटठुकयं अणुमई होइ॥३३८॥ [कारवणं पुनर्मनसा चिन्तयति करोतु एष सावद्यम् / चिन्तयति च कृते पुनः सुष्टुकृतमनुमतिर्भवति // 338 // ] कारवणं पुनर्मनसा चिन्तयति करोतु एष सावा असावपि चेङ्गितज्ञोऽभिप्रायात्प्रवर्तत एव, चिन्तयति च कृते पुनः सुष्ठुकृतमनुमतिर्भवति मानसी अभिप्रायज्ञो विजानात्यपीति / ___ उक्तः प्रत्याख्यानावधिरधुना श्रावकस्यैव निवासादिविपयां सामाचारों प्रतिपादयन्नाहनिवसिज्ज तत्थ सड्ढो साहणं जत्थ होइ संपाओ। चेइयघराइ जत्थ य तयन्नसाहम्मिया चेव // 339 // ... [निवसेत्तत्र श्राद्धः साधूनां यत्र भवति संपातः / चैत्यगृहाणि च यस्मिन् तदन्यसाधर्मिकाश्चैव // 339 // ] 14 . Page #215 -------------------------------------------------------------------------- ________________ [ 210 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / निवसेत्तत्र नगरादौ श्रावकः साधूनां यत्र भवति संपातः संपतनं संपातः आगमनमित्यर्थः / चैत्यगृहाणि च यस्मिंस्तदन्या साधर्मिकाश्चैव श्रावकादय इति गाथासमासार्थः / अधुना प्रतिद्वारं गुणा उच्यन्ते तत्र साधुसंपाते गुणानाहसाहण वंदणेणं नासइ पावं असंकिया भावा। फासुयदाणे निज्जर उवग्गहो नाणमाईणं // 34 // [साधूनां वन्दनेन नश्यति पापं अशंकिता भावाः / प्रासुकदाने निर्जरा उपग्रहो ज्ञानादीनाम् // 340 // ] साधूनां वन्दनेन करणभूतेन किं नश्यति पापं गुणेषु बहुमानात्तथा अशङ्किता भावास्तत्समीपे श्रवणात् प्रासुकदाने निर्जरा कुतः उपग्रहो ज्ञानादीनां ज्ञानादिमन्त एव साधव इति / उक्ताः साधुसंपाते गुणाः। चैत्यगृहे गुणानाहमिच्छादंसणमहणं सम्मदसणविसुद्धिहउं च / चिइवंदणाइ विहिणा पत्नत्तं वीयरागेहिं // 341 // [मिथ्यादर्शनमथनं सम्यग्दर्शनविशुद्धिहेतु च / चैत्यवन्दनादि विधिना प्रज्ञप्तं वीतरागैः // 341 // ] मिथ्यादर्शनमथनं मिथ्यादर्शनं विपरीतपदार्थश्रद्धानरूपं मथ्यते विलोड्यते येन तत्तथा न केवलमपायनिबन्धनकदर्थनमेव किन्तु कल्याणकारणोपकारि चेत्याह सम्यग्दर्शनविशुद्धि Page #216 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / . [211 ] हेतु च सम्यगंविपरीतं तत्वार्थश्रद्धानलक्षणं दर्शनं सम्यग्दर्शनं मोक्षादिसोपानं तद्विशुद्धिकरणं च किं तच्चैत्यवन्दनादि आदिशब्दात्पूजादिपरिग्रहः विधिना सूत्रोक्तेन प्रज्ञप्तं प्ररूपितं वीतरागैरहद्भिः स्थाने शुभाध्यवसायप्रवृत्तरेतच्च चैत्यगृहे सति भवतीति गाथार्थः / उक्ताश्चैत्यगृहगुणाः सांप्रतं समानधार्मिकगुणानाहसाहम्मियथिरकरणं वच्छल्ले सासणस्स सारो ति / मग्गसहायत्तणओ तहा अणाओ य धम्माओ॥३४२। [ साधर्मिकस्थिरीकरणं वात्सल्ये शासनस्य सार इति / मार्गसहायत्वात्तथा अनाशश्च धर्मात् // 342 // ] समानधामिकस्थिरीकरणमिति यदि कश्चित्कथंचिद्धर्मात् प्रच्यवते ततस्तं स्थिरीकरोति महांश्वायं गुणः तथा वात्सल्ये क्रियमाणे शासनस्य सार इति सार आसेवितो भवति उक्तं च" जिणसासणस्स सारो" इत्यादि सति च तस्मिन् वात्सल्यमिति तथा तेन तेनोपबृंहणादिना प्रकारेण सम्यग्दर्शनादिलक्षणमार्गसहायत्वादनाशश्च भवति कुतो धर्मात्तत एवेति गाथार्थः। उक्ताः समानधार्मिकगुणा सांप्रतं तत्र निवसतो विधि 1 (अ) सार आसेवितो भवति उक्त जिणसासणस्स सारो इत्यादि। (ब) सारश्च सेवेतो भवता उत्तापगागण भासण सरो इत्यादि। Page #217 -------------------------------------------------------------------------- ________________ [ 212 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। रुच्यते तत्रापि च प्रायो भावसुप्ताः श्रावकाः ये प्राप्यापि जिनमतं गार्हस्थमनुपालयन्त्यतो निद्रावबोधद्वारेणाहनवकारेण विबोहो अणुसरणं सावओ वयाइंमि / जोगो चिइवंदणमो पचक्खाणं च विहिपुव्वं / 343 / [नमस्कारेण विवोधः अनुस्मरणं श्रावकः व्रतादौ / __ योग: चैत्यवन्दनं प्रत्याख्यानं च विधिपूर्वकम् // 343 // ] नमस्कारेण विवोध इति सुप्तोत्थितेन नमस्कारः पठितव्यः तथानुस्मरणं कर्तव्यं श्रावकोऽहमिति व्रतादौ विषये ततो योगः कायिकादिः चैत्यवन्दनमिति प्रयत्नेन चैत्यवन्दनं कर्तव्यं ततो गुर्वादीनभिवन्द्य प्रत्याख्यानं च विधिपूर्वकं सम्यगाकारशुद्धं ग्राह्यमिति / गोसे सयमेव इमं काउं तो चेइयाण पूयाई। साहुसगासे कुज्जा पञ्चक्खाणं अहागहियं॥३४४॥ [प्रत्युषसि स्वयमेव इदं कृत्वा तत: चैत्यानां पूजादीनि / साधुसकाशे कुर्यात्प्रत्याख्यानं यथागृहीतम् // 344 // ] गोसे प्रत्युषसि स्वयमेवेदं कृत्वा गृहादौ ततश्चैत्यानां पूजादीनि संमार्जनोपलेपपुष्पधूपादिसंपादनादि कुर्यात्ततः साधुसकाशे कुर्यात्कि प्रत्याख्यानं यथागृहीतमिति / . Page #218 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 213 ] ___ अत्र केचिदनधिगतसम्यगागमा ब्रुवत इति चोदकमुखेन तदभिप्रायमाहपूयाए कायवहो पडिकुट्ठो सो अ नेव पुज्जाणं / उवगारिणि त्ति तो सा नो कायव्व त्ति चोएइ॥३४५॥ [पूजायां कायवधः, प्रतिक्रुष्टः स च, नैव पूज्यानाम् / उपकारिणी इति तत् सा न कर्तव्या इति चोदयति 345] पूजायां भगवतोऽपि किल क्रियमाणायां कायवधो भवति पृथिव्याधुपमर्दमन्तरेण तदनुपपत्तेः, प्रतिक्रुष्टः स च कायवधः "सव्वे जीवा न हूंतव्वे" त्यादि वचनात् किं च न च पूज्यानामहतां तच्चैत्यानां वा उपकारिणी पूजा अर्हतां कृतकृत्यत्वात् तचैत्यानामचेतनत्वात् इतिशब्दो यस्मादर्थे यस्मादेवं ततस्तस्मादेव पूजा न कर्तव्येति चोदक इति अत्राहआह गुरू पूयाए कायवहो होइ जइ वि हु जिणाणं। तह वि तई कायव्वा परिणामविसुद्धिहेऊओ॥३४६॥ [आह गुरुः पूजायां कायवधः भवत्येव यद्यपि जिनानाम् / तथापि सा कर्तव्या परिणामविशुद्धिहेतुत्वात् // 346 // ] आह गुरुरित्युक्तवानाचार्यः पूजायां क्रियमाणायां कायअधः पृथिव्याधुपमर्दो यद्यपि भवत्येव जिनानां रागादिजेत 1. कायवहो जइ वि होइ उ जिणाणं / Page #219 -------------------------------------------------------------------------- ________________ [ 214 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / णामित्यनेन तस्याः सम्यग्विषयमाह / तथाप्यसौ पूजा कर्तव्यैव कुतः परिणामविशुद्धिहेतुत्वादिति न चायं हेतुरसिद्ध इति परिहरतिभणियं च कवनायं दव्वत्थवगोयरं इहं सुत्ते / निययारंभपवत्ताजंचगिही तेण कायव्वा॥३४७॥ [ भणितं च कूपज्ञातं द्रव्यस्तवगोचरं इह सूत्रे / नियतारम्भप्रवृत्ता यच्च गृहिणः तेन कर्तव्या / / 347 // ] भणितं च प्रतिपादितं च कूपज्ञातं कूपोदाहरणं किं विषयमित्याह द्रव्यस्तवगोचरं द्रव्यस्तवविषयं इह सूत्रे जिनागमे "दबत्थए कूवदिद्रुतो" इति वचनात् , तृडपनोदार्थ कूपखननेऽधिकतरपिपासाश्रमादिसंभवेऽप्युद्भवति तत एव काचिच्छिरा यदुदकाच्छेषकालमपि तृडाद्यपगम इति एवं द्रव्यस्तवप्रवृत्तौ सत्यपि पृथिव्याधुपमर्दे पूज्यत्वाद्भगवत उपायत्वात्तत्पूजाकरणस्य श्रद्धावतः समुपजायते तथाविधः शुभः परिणामो यतोऽशेषकर्मक्षपणमपीति / उपपत्त्यन्तरमाह / नियतारम्भप्रवृत्ता यच्च गृहिण इत्यनवरतमेव प्रायस्तेषु तेषु परलोकप्रतिकूलेष्वारम्भेषु प्रवृत्तिदर्शनात् तेन कर्तव्या पूजा कायवधेऽपि उक्तवदुपकारसम्भवात् तावन्ती वेलामधिकतराधिकरणाभावादिति / यदुक्तं न च पूज्यानामुपकारिणीत्येतत्परिजिहीर्षयाह Page #220 -------------------------------------------------------------------------- ________________ सटीकाधकप्रज्ञप्त्याख्यप्रकरणं। [ 215 ] उवगाराभावंमि वि पुज्जाणं पूयगस्स उवगारो। मंताइसरणजलणाइसेवणे जइ तहेहं पि // 348 // [ उपकाराभावेऽपि पूज्यानां पूजकस्य उपकारः / मंत्रादिस्मरणज्वलनादिसेवने यथा तथेहापि // 348 // ] उक्तन्यायादुपकाराभावेऽपि पूज्यानामर्हदादीनां पूजकस्य पूजाकर्तुरुपकोरः / दृष्टान्तमाह / मन्त्रादिस्मरणज्वलनादिसेवने यथेति तथाहि मन्त्रे स्मर्यमाणे न कश्चित्तस्योपकारोऽथ च स्मर्तुभवत्येवं ज्वलने सेव्यमाने न कश्चित्तस्योपकारोऽथ च तत्सेवकस्य भवति शीतोपनोदादिदर्शनात् आदिशब्दाचिन्तामण्यादिपरिग्रहः तथेहापीति यद्यहंदादीनां नोपकारः तथापि पूजकस्य शुभाध्यवसायादिर्भवति तथोपलब्धेरिति / किं चदेहाइनिमित्तं पिं हु जे कायवहमि तह पयट्रति / जिणपूयाकायवहंमि तेसिं पडिसेहणं मोहो // 349 // [देहादिनिमित्तमपि ये खलु कायवधे तथा प्रवर्तन्ते / जिनपूजाकायवधे तेषां प्रतिषेधनं मोहः // 349 // ] देहादिनिमित्तमष्यसारशरीरहेतोरपीत्यर्थः ये कायवधे पृथिव्याधुपमर्दे तथा प्रवर्तते तथेति झटिति कृत्वा जिनपूजाकाय 1 शरीरार्थमपि। Page #221 -------------------------------------------------------------------------- ________________ [ 216 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / वधे तेषां प्रतिषेधनं मोहो अज्ञानं न हि ततो भगवत्पूजा न शोभनेति निगमयन्नाहसुत्तभणिएण विहिणा गिहिणा निव्वाणमिच्छमाणेण। लोगुत्तमाण पूया निच चिय होइ कायव्वा॥३५०॥ [सूत्रभणितेन विधिना गृहिणा निर्वाणमिच्छता / लोकोत्तमानां पूजा नित्यमेव भवति कर्तव्या // 350 // ] सूत्रभणितेनागमोक्तेन विधिना यतनालक्षणेन गृहिणा श्रावकेन निर्वाणमिच्छता मोक्षमभिलषता लोकोत्तमानामर्हदादीनां पूजा अभ्यर्थनादिरूपा नित्यमेव भवति कर्तव्या ततश्च न युक्तः प्रतिषेध इति। . अवसितमानुषङ्गिकं सांप्रतं यदुक्तं साधुसकाशे कुर्यात्प्र. त्याख्यानं यथागृहीतमित्यत्र तत्करणे गुणमाहगुरुमक्खिओ उ धम्मो संपुनविही कयाइ य विसेसो। तित्थयराण य आणा साहुसमीवंमि वोसिरउ॥३५१॥ [गुरुसाक्षिक एव धर्मः संपूर्णविधिः कदाचिच्च विशेषः / तीर्थकराणां च आज्ञा साधुसमीपे व्युत्सृजतः // 351 / / ] गुरुसाक्षिक एव धर्म इत्यतः स्वयं गृहीतमपि तत्सकाशे ग्राह्यमिति तथा संपूर्णविधिरित्थमेव भवतीत्यभिप्रायः कदाचिच्च विशेषः प्रागप्रत्याख्यातमपि किंचित्साधुसकाशे संवेगे Page #222 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [217 ] प्रत्याख्यातीति तीर्थकराणां चाज्ञा संपादिता भवतीत्येते गुणाः साधुसमीपे व्युत्सृजतः प्रत्याख्यानं कुर्वत इति सामाचारीशेषमाह / सुणिऊण तओ धम्मं अहाविहारं च पुच्छिउमिसीणं। काऊण य करणिज्जं भावम्मि तहा ससत्तीए॥३५२॥ [श्रुत्वा ततो धर्म यथाविहारं च पृष्ट्वा ऋषीणाम् / कृत्वा च करणीयं भावे तथा स्वशक्त्या // 352 // ] श्रुत्वा ततो धर्म क्षान्त्यादिलक्षणं साधुसकाशे इति गम्यते यथाविहारं च तथाविधचेष्टारूपं पृष्ट्वा ऋषीणां संबन्धिनं, कृत्वा च करणीयं ऋषीणामेव संबन्धि भाव इत्यस्तितायां करणीयस्य स्वशक्त्या स्वविभवाद्यौचित्येनेति / / तत्तो अणिंदियं खलु काऊण जहोचियं अणुटाणं। भुत्तण जहा विहिणा पञ्चकखाणं च काऊण॥३५३॥ [ततः अनिंद्यं खलु कृत्वा यथोचितमनुष्ठानम् / भुक्त्वा यथाविधिना प्रत्याख्यानं च कृत्वा // 353 // ] ततस्तदनन्तरमनिन्यं खलु इहलोकपरलोकानिन्द्यमेव कृत्वा यथोचितमनुष्ठानं यथा वाणिज्यादि तथा भुक्त्वा यथाविधिना अतिथिसंविभागसंपादनादिना प्रत्याख्यानं च कृत्वा तदनन्तरमेव पुनर्भोगेऽपि ग्रन्थिसहितादीनि / Page #223 -------------------------------------------------------------------------- ________________ [ 218 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सेविज्ज तओ साहू करिज्ज पूयं च वीयरागाणं। चिइवंदण सगिहागम पइरिक मि य तुयटिज्जा। [ सेवेत ततः साधून कुर्यात्पूजां च वीतरागाणाम् / चैत्यवन्दनं स्वगृहागमनं तथा एकान्ते त्वग्वर्तनम् 354 ] सेवेत ततः साधुन् पर्युपासनविधिना कुर्यात् पूजां च वीतरागाणां स्वविभवौचित्येनं ततश्चेत्यवन्दनं कुर्यात् ततः स्वगृहागमनं तथैकान्ते तु त्वग्वर्तनं कुर्यात्स्वपेदिति / कथमित्याह उस्सग्गबंभयारी परिमाणकडो उ नियमओ चेव। सरिऊण वीयरागेसुत्तविबुद्धो विचिंतिज्जा॥३५५॥ [उत्सर्गतः ब्रह्मचारी कृतपरिमाणस्तु नियमादेव च / स्मृत्वा वीतरागान् सुप्तविबुद्धः विचिन्तयेत् // 355 / / ] उत्सर्गतः प्रथमकल्पेन ब्रह्मचारी आसेवनं प्रति कृतपरिमाणस्तु नियमादेव आसेवनपरिमाणाकरणे महामोहदोषात् तथा स्मृत्वा वीतरागान् सुप्तविबुद्धः सन् विचिन्तयेद्वक्ष्यमाणमिति / भएसु जंगमत्तं तेसु वि पंचेन्दियत्तमुक्कोसं / तेसु वि अ माणुसत्त मणुयत्तेआरिओ देसो॥३५६॥ [भूतेषु जंगमत्वं तेष्वपि पश्चेन्द्रियत्वमुत्कृष्टम् / तेष्वपि च मानुषत्वं मनुजत्वे आर्यों देशः // 356 // ] Page #224 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [219 ] भूतेषु प्राणिषु जंगमत्वं द्वीन्द्रियादित्वं तेष्वपि पश्चेन्द्रियत्वमुत्कृष्टं प्रधानं तेष्वपि पञ्चन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते मनुजत्वे आर्यों देश उत्कृष्ट इति / देसे कुलं पहाणं कुले पहाणे य जाइ उक्कोसा / तीइविरूवसमिद्धी रूवे य बलं पहाणयरं॥३५७॥ [देशे कुलं प्रधान कुले प्रधाने च जातिरुत्कृष्टा / तस्यामपि रूपसमृद्धिः रूपे च बलं प्रधानतरम् // 357 // ] देशे आर्ये कुलं प्रधानं उग्रादि, कुले प्रधाने च जातिरुत्कृष्टा मातृसमुत्था तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा सकलाङ्गनिष्पत्तिरित्यर्थः रूपे च सति बलं प्रधानतरं सामर्थ्य मिति / होइ बले वि य जीयं जीए वि पहाणयं तु विन्नाणं। विनाणे सम्मत्तं सम्मत्ते सीलसंपत्ती // 358 // ___भवति बलेऽपि च जीवितं प्रधानतरमिति योगः, जीवि तेऽपि च प्रधानतरं विज्ञानं विज्ञाने सम्यक्त्वं क्रिया पूर्ववत् सम्यक्त्वे शीलसंप्राप्तिः प्रधानतरेति। सीले खाइयभावो खाइयभावे य केवलं नाणं / केवलिए पडिपुन्ने पत्ते परमक्खरे मुक्खो॥३५९॥ शीले क्षायिकभावः प्रधानः क्षायिकभावे च केवलज्ञानं, Page #225 -------------------------------------------------------------------------- ________________ [ 220 / सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / प्रतिपक्षयोजना सर्वत्र कार्येति कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरे मोक्ष इति / न य संसारम्मि सुहं जाइजरामरणदुक्खगहियस्स। जीवस्स अत्थि जम्हा तम्हा मुक्खो उवादेओ३६० [न च संसारे सुखं जातिजरामरणदुःखगृहीतस्य / जीवस्यास्ति यस्मादेवं तस्मान्मोक्ष उपादेयः // 360 / / ] किंविशिष्ट इत्याहजच्चाइदोसरहिओ अव्वाबाहसुहसंगओ इत्थ / तस्साहणसामग्गी पत्ता य मए बह इन्हिं // 361 // [जात्यादिदोषरहितोऽव्याबाधसुखसंगतोत्र (संसारे) तत्साधनसामग्री प्राप्ता च मया बह्वदानीम् // 361 // ] ता इत्थ जं न पत्तं तयत्थमेवुज्जमं करेमित्ति। विबुहजणनिदिएणं किं संसाराणुबंधेणं // 362 // [ तदत्र (सामग्रयां) यन्न प्राप्तं तदर्थमेवोद्यमं करोमीति / विबुधजननिन्दितेन किं संसारानुबन्धेन // 362 // ] इति निगदसिद्धो गाथात्रयार्थः इत्थं चिन्तनफलमाहवेरग्गं कम्मक्खय विसुद्धनाणं च चरणपरिणामो। थिरया आउ य बोही इय चिताए गुणा हुँति।३६३। Page #226 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [221 ] [वैराग्यं कर्मक्षयः विशुद्धज्ञानं च चरणपरिणामः / . स्थिरता आयुः च बोधिः इत्थं चिन्तायां गुणा भवन्ति॥३६३॥] इत्थं चिन्तयतो वैराग्यं भवत्यनुभवसिद्धमेवैतत् तथा कर्मक्षयः तत्त्वचिन्तनेन प्रतिपक्षत्वात् विशुद्धज्ञानं च निवन्धनहानेः चरणपरिणामः प्रशस्ताध्यवसायत्वात् स्थिरता धर्मे प्रतिपक्षासारदर्शनात् आयुरिति कदाचित्परभवायुष्कबन्धस्ततस्तच्छुभत्वासर्व कल्याण बोधिरित्थं तत्वभावनाभ्यासादेवं चिन्तायां क्रियमाणायां गुणा भवन्त्येवं चिन्तया वेति / गोसम्मि पुवभणिओ नवकारेणं विबोहमाईओ। इत्थ विही गमणम्मि य समासओ संपवक्खामि।३६४॥ ___ गोसे (प्रत्युषसि ) पूर्वभणितो नमस्कारेण विबोधादिः। अत्र विधिः (इति) गमने च समासतः संप्रवक्ष्यामि // विधि, मिति। अहिगरणखामणं खलु चैइयसाहणं वंदणं चेव। संदेसम्मि विभासा जइगिहिगुणदोसविक्खाए।३६५। [अधिकरणक्षामणं खलु चैत्यसाधूनां वन्दनमेव च / संदेशे विभाषा यतिगृहिगुणदोषापेक्षया // 365 // ] अधिकरणक्षामणं खलु माभूत्तत्र मरणादौ वैरानुबन्ध इति, तथा चैत्यसाधूनामेव च वन्दनं नियमतः कुर्यात् गुणदर्शनात, Page #227 -------------------------------------------------------------------------- ________________ [ 222 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / संदेशे विभाषा यतिगृहिगुणदोषापेक्षयेति यतेः संदेशको नीयते न सावधो गृहस्थस्य इति चैत्यसाधूनां वन्दनं चेति यदुक्तं तद्विस्फारयति / साहूण सावगाण य सामायारी विहारकाल मि / जत्थरिथ चेइयाइं वंदावंति तहिं संघ // 366 // [साधूनां श्रावकानां च सामाचारी विहरणकाले / यत्र सन्ति चैत्यानि वन्दयन्ति तत्र संघम् // 366 // ] साधूनां श्रावकाणां चोक्तशब्दार्थानां (2,) सामाचारी व्यवस्था कदा विहरणकाले विहरणसमये किंविशिष्टेत्याह यत्र स्थाने सन्ति चैत्यानि वन्दयन्ति तत्र संघ चतुर्विधमपि प्रणिधानं कृत्वा स्वयमेव वदन्त इति / पढमं तओ य पच्छा वंदंति सयं सिया ण वेल ति। पढम चिय पणिहाणं करंति संघमि उवउत्ता॥३६७॥ [प्रथमं ततश्च पश्चात् वन्दन्ते स्वयं स्यान्न वेला इति / प्रथममेव प्रणिधानं कुर्वन्ति संघे उपयुक्ताः // 367 // ] प्रथम मिति पूर्वमेव सर्छ वन्दयन्ति तत: पच्छात्सङ्घवन्दनोत्तरकालं वंदन्ते स्वयमात्मना आत्मनिमित्तमिति स्यान्न वेलेति स्तेनादिभयसार्थगमनादौ तत्रापि प्रथममेव वन्दने प्रणि Page #228 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 223 ] धानं कुर्वन्ति संघविषयमुपयुक्ताः संघं प्रत्येतद्वन्दनं संघोऽयं वन्दत इति / पच्छा कयपणिहाणा विहरंता साहूमाइ दट्टण / जंपंति अमुगठाणे देवे व दाविया तुम्भे // 368 // [पश्चात् कृतप्रणिधाना विहरन्तः साध्वादीन्दृष्ट्वा / जल्पन्ति अमुकस्थाने देवान् वंदिता यूयम् // 36 // ] पश्चात्तदुत्तरकालं कृतप्रणिधानाः सन्तस्तदर्थस्य संपादितत्वाद्विहरन्तः सन्तः साध्वादीन् दृष्ट्वा साधु साध्वी श्रावकं श्राविकां वा जल्पन्ति व्यक्तं च भणन्ति किं अमुकस्थाने मथुरादौ देवान्वन्दिता यूयमिति / ते वि य कयंजलिउडा सद्धासंवेगपुलइयसरीरा। अवणामिउत्तमंगा तं बहु मन्नति सुहझाणा॥३६९॥ [तेऽपि च कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीराः। अवनामित्तोत्तमांगाः तद् बहु मन्यन्ते शुभध्यानाः 369] तेऽपि च साध्वादयः कृताञ्जलिपुटा रचितकरपुटाअलयः श्रद्धासंवेगपुलकितशरीराः श्रद्धाप्रधानसंवेगतो रोमाञ्चितवपुषो ऽवनामितोत्तमाङ्गाः सन्तस्तद्वन्दनं बहु मन्यन्ते शुभध्यानाः प्रशस्ताभ्यवसाया इत्युभयोः फलमाह / Page #229 -------------------------------------------------------------------------- ________________ [ 224 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / तेसि पणिहाणाओ इयरेसिं पि य सुभाउ झाणाओ। पुन्नं जिणेहिं भणियं नो संकमउ त्ति ते मेरा॥३७०॥ [तेषां प्रणिधानात् इतरेषामपि च शुभाद्ध्यानात् / पुण्यं जिनैणितं न संक्रमतः इति अतो मर्यादा // 370 // ] तेषामाद्यानां वन्दननिवेदकानां प्रणिधानात्तथाविधकुशलचित्तादितरेषामपि च वन्द्यमानानां शुभध्यानात्तच्छ्रवणप्रवृत्त्या पुण्यं जिनर्भणितं अहंद्भिक्तं न च संक्रमत इति न निवेदकपुण्यं निवेद्यसंक्रमेण यतश्चैवमतो मर्यादेयमवश्यं कार्येति / विपर्यये दोषमाह। जे पुणऽकयपणिहाणा वंदित्ता नेव वा निवेयंति। पञ्चक्खमुसावाई पावा हु जिणेहिं ते भणिया।३७१। [ये पुनरकृतप्रणिधाना बंदित्वा नैव वा निवेदयन्ति / प्रत्यक्षमृषावादिनः पापा एव जिनैः ते भणिताः // 371 // ] ये पुनरनाभोगादितो अकृतप्रणिधाना वदित्वा नैव वा वन्दित्वा निवेदयन्ति अमुकस्थाने देवान्वन्दिता यूयमिति प्रत्यक्षमृषावादिनोऽकृतनिवेदनात्पापा एव जिनस्ते भणिता मृषावादित्वादेवेति / जे वि य कयंजलिउडा सद्धासंवेगपुलइयसरीरा। बहु मन्नंति न सम्मं वंदणगं तेवि पाव ति॥३७२।। - - Page #230 -------------------------------------------------------------------------- ________________ सटीकाधकप्रज्ञप्त्याख्यप्रकरणं / [ 225 ] [येऽपि च कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीराः। * बहु मन्यन्ते न सम्यग्वन्दनकं तेऽपि पापा इति 372] येऽपि च साध्वादयो निवेदिते सति कृताअलिपुटाः श्रद्धासंवेगपुलकितशरीरा इति पूर्ववन्न बहु मन्यन्ते न सम्यक् वन्दनकं कुर्वन्ति तेऽपि पापा गुणवति स्थानेऽवज्ञाकरणादिति / कचिद्वेलाभावेऽपि विधिमाहजइ वि न वंदणवेला तेणाइभएण चेइए तहवि / दट्टणं पणिहाणं नवकारेणावि संघमि // 373 // [यद्यपि न वन्दनवेला स्तेनादिभयेषु चैत्यानि तथापि / दृष्ट्वा प्रणिधानं नमस्कारेणापि संघे // 373 // ] यद्यपि क्वचिच्छ्न्यादौ न वन्दनवेला स्तेनश्वापदादिभयेषु चैत्यानि तथापि * दृष्ट्वा अवलोकननिबन्धनमपि प्रणिधानं . नमस्कारेणापि संघ इति सङ्घविषयं कार्यमिति / तमि य कए समाणे वंदावणगं निवेइयवति / तयभावंमि पमादा दोसो भणिओ जिणिंदेहि 374 [तस्मिन्नपि कृते सति वन्दनं निवेदयितव्यमिति / तदभावे प्रमादात् दोषः भणितः जिनेन्द्रैः // 374 // ] तस्मिन्नपि एवंभूते प्रणिधाने कृते सति वन्दनं निवेदयितव्यमेव वस्तुतः संपादितत्वात्तदभावे तथाविधप्रणिधाना Page #231 -------------------------------------------------------------------------- ________________ [ 226 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / करणे प्रमादाढेतोर्दोषो भणितो जिनेन्द्र विभागायातशक्यकुशलाप्रवृत्तेरिति / उपसंहरन्नाहएवं सामायारिं नाऊण विहीइ जे पउंजंति / ते हुति इत्थ कुसला सेसा सव्वे अकुसला उ॥३७५॥ [एतां सामाचारी ज्ञात्वा विधिना ये प्रयुंजते / ते भवन्त्यत्र कुशलाः शेषाः सर्वे अकुशला एव // 375 // ] एतामनन्तरोदितां सामाचारों व्यवस्थां. ज्ञात्वा विधिना ये प्रयुंजते यथावद्ये कुर्वन्तीत्यर्थः ते भवन्त्यत्र विहरणविधौ कुशलाः शेषा अशुकला एवानिपुणा एव न चेयमयुक्ता सदिष्टवन्दनकथनतीर्थस्नपनादिदर्शनादिति / श्रावकस्यैव विधिशेषमाहअन्ने अभिग्गहा खलु निरईयारेण हुति कायव्वा। पडिमादओ विय तहा विसेसकरणिज्जजोगाओ३७६ [अन्ये चाभिग्रहाः खलु निरतिचारेण भवन्ति कर्तव्याः / प्रतिमादयोऽपि च तथा विशेषकरणीययोगात् // 376 / / ] अन्ये चाभिग्रहाः खलु अनेकरूपा लोचकृतघृतप्रदानादयः निरतिचारेण सम्यक् भवन्ति कर्तव्या आसेवनीया इति प्रतिमादयोऽपि च तथा शेषकरणीययोगा इति प्रतिमा दर्शनादिरूपा यथोक्तं "दंसणवये "त्यादि आदिशब्दादनित्यादिभा Page #232 -------------------------------------------------------------------------- ________________ सटीकीवकप्रज्ञप्त्याख्यप्रकरणं / [ 227 ] - वनापरिग्रह इति / एवं च विहरिऊणं दिक्खाभाव मि चरणमोहाओ। पत्तंमि चरमकाले करिज्ज कालं अहाकमसो 377 // [ एवं च विहृत्य दीक्षाभावे चरणमोहात् / प्राप्ते चरमकाले कुर्यात्कालं यथाक्रमशः // 377 // ] एवं यथोक्तविधिना विहृत्य नियतानियतेषु क्षेत्रेषु कालं नीत्वा दीक्षाभाव इति प्रव्रज्याभावे सति चरणमोहादिति चारित्रमोहनीयात्कर्मणः प्राप्ते चरमकाले क्षीणप्राये आयुषि सतीत्यर्थः कुर्यात्कालं यथाक्रमशो यथाक्रमेण परिकर्मादिनेति / भणिया अपच्छिमा मारणंतिया वीयरागदोसेहि। संलेहणाझोसणमो आराहणयं पवक्खामि॥३७८॥ [ भणिता अपश्चिमा मारणान्तिकी वीतरागदोषैः / संलेखनाजोषणा आराधना तां प्रवक्ष्यामि // 378 // ] .. भणिता चोक्ता च कैर्वीतरागद्वेषैरर्हद्भिरिति योगः का अपच्छिमा मारणान्तिकी संलेखना जोषणाराधनेति / पश्चिमैवानिष्टाशयपरिहारायापश्चिमा मरणं प्राणपरित्यागलक्षणं इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न तद्गृह्यते किं तर्हि सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच-इति टञ् , संलिख्यतेऽनया शरीरकषाया Page #233 -------------------------------------------------------------------------- ________________ [ 228 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / दीति संलेखना तपोविशेषलक्षणा तस्या जोषणं सेवनं मो इति निपातस्तत्काललाध्यत्वप्रदर्शनार्थः तस्या आराधना अखण्डना कालस्य करणमित्यर्थः तां प्रवक्ष्यामीति / एत्थ सामायारी आसेवियगिहिधम्मेण किल सावगेण पच्छा णिकमियव्वं एवं सावगधम्मो उज्जमिओ होइ ण सकइ ताहे भत्तपञ्चक्खाणकाले संथारगसमणेण होयव्वं ति ण सकइ ताहे अणसणं कायव्वंति विभासा / अत्राह- .. काऊण विगिट्टतवं जहासमाहीइ वियडणं दाउं। उज्जालियं अणुव्वय तिचउद्धाहारवोसिरणं / 379 // [कृत्वा विकृष्टतपः यथासमाधि विकटनां दत्वा / उज्ज्वाल्य अणुव्रतानि त्रिविधचतुर्विधाहारव्युत्सर्जनम् 379] कृत्वा विकृष्टतपः षष्ठाष्टमादि यथासमाधिना शुभपरिणामपातविरहेण तथा विकटनामालोचनां दत्वा उज्ज्वाल्य पुनः प्रतिपत्त्या निर्मलतराणि कृत्वा अणुव्रतानि प्रसिद्धान्यणुव्रतग्रहणं गुणव्रतायुपलक्षणमिति त्रिविधचतुविधाहारव्युत्सर्जनमिति कदाचित्रिविधाहारपरित्याग करोति कदाचिच्चतुर्विधाहारमिति / ___ अत्र प्रागुक्तमेव लेशतः सम्यगनवगच्छन्नाहचरमावत्थाइ तहा सव्वारं करियानिवित्तीए। पव्वज्जाचे तओन पवज्जइ केण कज्जेण।३८०॥ Page #234 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 229] [चरमावस्थायां तथा सर्वारम्भक्रियानिवृत्तेः / प्रवज्यामेव चासौ न प्रतिपद्यते केन कार्येण // 380 // ] चरमावस्थायां मरणावस्थायामित्यर्थः तथा तेन प्रकारेणाहारपरित्यागादिनापि सर्वारम्भक्रियानिवृत्तेः कारणात्प्रवज्यामेवासौ श्रावको न प्रतिपद्यते केन कार्येण केन हेतुना इत्यत्रोच्यते / चरणपरिणामविरहा नारंभादप्पवित्तिमित्तो सो। तज्जुत्तवसग्गसहाण जं न भणिओ तिरिक्खाणं॥ [चरणपरिणामविरहात् नारम्भाद्यप्रवृत्तिमात्रोऽसौ / तद्युक्तोपसर्गसहानां यन भणितस्तिरश्वामिति // 381 // ] चरणपरिणामविरहादित्युक्तमेव स एव तथानिवृत्तस्य किं न भवतीत्याशङ्कयाह नारम्भाद्यप्रवृत्तिमात्रोऽसौ चरणपरिणाम इति कुतस्तद्युक्तोपसर्गसहानां यन्न भणितस्तिरश्वामिति तथाह्यारंभाद्यप्रवृत्तियुक्तानामपि पिपीलिकाद्युपसर्गसहानां चण्डकोशिकादीनां न चारित्रपरिणामः अतोऽयमन्य एवात्यन्तप्रशस्तोऽचिन्त्यचिन्तामणिकल्प इति पुनरपि केषांचिन्मतमाशंक्यते / केई भणंति एसा संलेहणा मो दुवालसविहंमि / भणिया गिहत्थधम्मे न जओ तो संजए तीए॥ Page #235 -------------------------------------------------------------------------- ________________ [ 230 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ केचन भणंति एषा संलेखना द्वादशविधे / भणिता गृहस्थधर्मे न यतः ततः संयतः तस्याम् // 382 // ] केचनागीतार्था भणन्ति एषा अनन्तरोदिता संलेखना द्वादशविधे पंचाणुव्रतादिरूपे भणिता गृहस्थधर्मे श्रावकधर्म इत्यर्थः न यतस्ततस्तस्मात्कारणात्संयतः प्रवजित एव तस्यामिति / अत्रोच्यते न भणितेत्यसिद्धम् / भणिया तयणंतरमो जीव तस्सेस बारसविहो उ / एसा य चरमकाले इत्तरिया चेव ता ण पुढो॥ [ भणिता तदनन्तरमेव जीवत एष द्वादशविधः / एषा च चरमकाले इत्वरा चेयमेवं तस्मान्न पृथक् // 383 // ] भणिता तदनन्तरमेव द्वादशविधश्रावकधर्मानन्तरमेव तन्मध्य एवाभणने कारणमाह / जीवत एष द्वादश विधः प्रदीर्घकालपरिपालनीयः, एषा संलेखना चरमकाले क्षीणप्राये आयुषि सति क्रियते इत्वरा चेयमल्पकालावस्थायिनी यस्मा. देवं यस्मान पृथगियं श्रावकधर्मादिति / उपपत्यन्तरमाहजं चाइयारसुत्तं समणोवासगपुरस्सरं भणियं / तम्हा न इमीइ जई परिणामा + चेव अवि य गिही। + सुत्तंतरयो / Page #236 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञ त्याख्यप्रकरणं / [ 231 ] [ यच्चातिचारसूत्रं श्रमणोपासकपुरस्सरं भणितम् / / तस्मानास्यां यतिः परिणामादेव अपि च गृही॥३८४॥] यच्च यस्माच्च अतिचारसूत्रमस्याः श्रमणोपासकपुरःसरं भणितमागमे तच्चेदं "इमीए समणोवासएणं इमे पंचइयारा जाणियन्वा न समायरियव्वा तं जहा इहलोगासंसप्पओगेत्यादि" तस्मानास्यां संलेखनायां यतिरसौ श्रावकः अपि च गृहीत संबन्धः किं तु श्रावक एवेत्यर्थः कुत इत्याह परिणामादेव तस्यामपि देशविरतिपरिणामसंभवादनशनप्रतिपत्तावपीषन्ममत्वापरित्यागोपलब्धेः सर्वविरतिपरिणामस्य दुरापत्वात्सति तु तस्मिन् स्यात् यतिरिति * सूत्रान्तरतश्च यत उक्तं सूत्रकृतांगे इत्यादीति / इयमपि चातिचाररहिता सम्यक्पालनीयेति तानाहइहपरलोगासंसप्पओग तह जीयमरणभोगेसु / वज्जिज्जा भाविज्ज य असुहं संसारपरिणाम। [ इहपरलोकाशंसाप्रयोगौ तथा जीवितमरणभोगेषु / वर्जयेत् भावयेचाशुभं संसारपरिणामम् // 385 // ] इह लोको मनुष्यलोकः तस्मिन्नाशंसाभिलाषः तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति / 1 / एवं परलोकाशंसाप्रयोगः परलोको देवलोकः / 2 / एवं जीविताशंसाप्रयोगः जीवितं प्राणधारणं तत्राभिलाषप्रयोगः “यदि Page #237 -------------------------------------------------------------------------- ________________ [ 232 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / बहुकालं जीवेयम्" इति / इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनाद्बहुपरिवारदर्शनाच्च लोकश्लाघाश्रवणाचवं मन्यते " जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिवर्तते / 3 / मरणाशंसाप्रयोगः न कश्चित्तं प्रतिपन्नानशनं गवेषते सपर्यायामाद्रियते न कश्चिच्छलाघते ततस्तस्यैवंविधचित्तपरिणामो भवति " यदि शीघ्र म्रियेऽहं अपुण्यकर्मेति मरणाशंसा / 4 / कामभोगाशंसाप्रयोगः जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः सुभगो रूपवानित्यादि एतद्वर्जयेद्भावयेच्चाशुभं जन्मपरिणामादिरूपं संसारपरिणाममिति तथा / 5 / जिणभासियधम्मगुणे अव्वाबाहं च तप्फलं परमं / एवं उ भावणाओ जायइ पिचा वि बोहि ति॥ [जिनभाषितधर्मगुणान् अव्याबाधं च तत्फलं परमम् / एवं तु भावनातो जायते प्रेत्यापि बोधिरिति // 386 // ] जिनभाषितधर्मगुणानिति क्षान्त्यादिगुणान् भावयेदव्याबाधं च मोक्षसुखं च तत्फलं क्षान्त्यादिकार्य परमं प्रधान भावयेदेवमेव भावनातः चेतोभ्यासातिशयेन जायते प्रेत्यापि जन्मान्तरेऽपि बोधिधर्मप्राप्तिरिति / Page #238 -------------------------------------------------------------------------- ________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं। [233 ] कुसुमेहि वासियाणं तिलाण तिल्ल पि जायइ सुयंधं। एतोवमा हु बोही पन्नत्ता वीयरागेहिं // 387 // [कुसुमैः वासितानां तिलानां तैलमपि जायते सुगन्धि / एतदुपमैव बोधिः प्रज्ञप्ता वीतरागैः // 387 // ] - कुसुमैर्मालतीकुसुमादिभिर्वासितानां भावितानां तिलानां तैलमपि जायते सुगन्धि तद्गन्धवदित्यर्थः एतदुपमैव बोधिरिति अनेनोक्तप्रकारेणोपमा यस्याः सा तथा प्रज्ञप्ता वीतरागैरर्हद्भिरिति / कुसुमसमा अभासा जिणधम्मस्सेह हुति नायव्वा। तिलतुल्ला पुण जीवा तिल्लसमो पिच तब्भावो॥ [ कुसुमसमा अभ्यासा जिनधर्मस्य इह भवन्ति ज्ञातव्याः / तिलतुल्याः पुनर्जीवाः तैलसमा प्रेत्य तद्भावः // 388 // ] कुसुमसमाः कुसुमतुल्या अभ्यासा जिनधर्मस्य क्षान्त्यादेरिह जन्मनि भवन्ति ज्ञातव्याः तिलतुल्याः पुनर्जीवा भाव्यमानत्वात् तैलसमः प्रेत्य तद्भावो जन्मान्तरे बोधिभाव इति। बोधिफलमाहइय अप्परिवडियगुणाणुभावओ बंधहासभावाओ। पुब्विल्लस्स य खयओ सासयसुक्खो धुवो मुक्खो॥ Page #239 -------------------------------------------------------------------------- ________________ [ 234 ] सटीकश्रावक प्रज्ञप्त्याख्यप्रकरणं / [ एवं अप्रतिपतितगुणानुभावतः बन्धासभावात् / प्राक्तनस्य च क्षयात् शाश्वतसौख्यो ध्रुवो मोक्षः॥३८९॥] एवमुक्तेन प्रकारेण अप्रतिपतितगुणानुभावतः सततसमवस्थितगुणसामर्थ्येन बन्धहासात्यायो बन्धाभावादित्यर्थः प्राक्तनस्य च बन्धस्य क्षयात्तेनैव सामर्थ्येन एवमुभयथा बन्धा भावे शाश्वतसौख्यो ध्रुवो मोक्षोऽवश्यंभावीति / एतदेव सूत्रान्तरेण भावयन्नाहसमत्तंमि य लद्धे पलियपहुत्तेण सावओ हुज्जा। चरणोवसमक्खयाणं सागरसंखंतरा हंति // 390 // [सम्यक्त्वे च लब्धे पल्योपमपृथक्त्वेन श्रावको भवति / चरणोपशमक्षयाणां सागराणि संख्येयान्यन्तरं भवन्ति // ] सम्यक्त्वे च लब्धे तत्वतः पल्योपमपृथक्त्वेन श्रावको भवति एतदुक्तं भवति यावति कर्मण्यपगते सम्यक्त्वं लभ्यते तावतो भूयः पल्योपमपृथक्त्वेऽपगते देशविरतो भवति पृथ. क्त्वं द्विःप्रभृतिरानवभ्य इति क्लिष्टेतरविशेषाच्च द्वयादिभेद इति चरणोपशमक्षयाणामिति चारित्रोपशमश्रेणिक्षपकश्रेणीनां सागराणीति सागरोपमाणि संख्येयान्यन्तरं भवन्ति एतदुक्तं भवति यावति कर्मणि क्षीणे देशविरतिरवाप्यते तावतः पुनरपि संख्येयेषु सागरोपमेष्वपगतेषु चारित्रं सर्वविरतिरूपमवाप्यते एवं श्रेणिद्वये भावनीयमिति / Page #240 -------------------------------------------------------------------------- ________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [235 ] एवं अप्परिवडिए संमत्ते देवमणुयजंमेसु / अन्नयरसेढिवज्जं एगभवेणं च सव्वाइं // 391 // [एवमप्रतिपतिते सम्यक्त्वे देवमनुजजन्मसु / अन्यतरश्रेणिवर्जमेकभवेनैव सर्वाणि // 391 // ] एवमप्रतिपतिते सम्यक्त्वे सति देवमनुजजन्मसु चारित्रादेर्लाभः उक्तपरिणामविशेषतः पुनस्तथाविधकर्मविरहादन्यतरश्रेणिवर्जमेकभवेनैव सर्वाण्यवानोति सम्यक्त्वादीनीति / यदुक्तं शाश्वतसौख्यो मोक्ष इति तत्प्रतिपादयन्नाहरागाईणमभावा जम्माईणं असंभवाओ य / अव्वाबाहाओ खलु सासयसुक्खं तु सिद्धाणं॥ [गगादीनामभावात् जन्मादीनामसंभवाच / अव्याबाधातः खलु, शाश्वतसौख्यं तु सिद्धानाम् // 392 // ] रागादीनामभावाज्जन्मादीनामसंभवाच्च / तथा अव्याबाधातः खलु शाश्वतसौख्यमेव सिद्धानां इति गाथाक्षरार्थः / भावार्थमाहरागो दोसो मोहो दोसाभिस्संगमाइलिंग त्ति / अइसंकिलेसरूवा हेऊ वि य संकिलेसस्स / 393 / .[ रागो द्वेषो मोहो दोषा अभिष्वङ्गादिलिङ्गा इति / ___ अतिसंक्लेशरूपा हेतवोऽपि च संक्लेशस्य // 393 // Page #241 -------------------------------------------------------------------------- ________________ [ 236 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / रागो द्वेषो मोहो दोषा अभिष्वङ्गादिलिङ्गा इति अभिध्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणो मोह इति / अतिसंक्लेशरूपास्तथानुभवोपलब्धेः हेतयोऽपि च संक्ले. शस्य क्लिष्टकर्मबन्धनिबन्धनत्वादिति / एएहभिभूआणं संसारीणं कुओ सुहं किंचि। जम्मजरामरणजलं भवजलहिं परियडताणं।३९४॥ [एभिः अभिभूतानां संसारिणां कुतः सौख्यं किंचित् / जन्मजरामरणजलं भवजलधिं पर्यटताम् // 394 // ] एभी रागादिभिरभिभूतानामस्वतन्त्रीकृतानां संसारिणां सत्वानां कुतः सुखं किंचिन्न किंचिदित्यर्थः किविशिष्टानां जन्मजरामरणजलं भवजलधि संसारार्णवं पर्यटतां भ्रमतामिति / एतदभावे सुखमाह- . रागाइविरहओ जंसुक्खं जीवस्स तं जिणो मुणइ। न हि सन्निवायगहिओ जाणइ तदभावजं सात।३९५ [ रागादिविरहतो यत्सौख्यं जीवस्य तजिनो मुणति / न हि सन्निपातगृहीतः जानाति तदभावजं सातम् // 395 // ] रागादिविरहतो रागद्वेषमोहाभावेन यत्सौख्यं जीवस्य संक्लेशवर्जितं तज्जिनो मुणति अर्हन्नव सम्यग्विजानाति नान्यः किमिति चेन्न हि यस्मात्सन्निपातगृहीतः सत्येव तस्मिन् Page #242 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / / [ 237 ] जानाति तदभावजं सन्निपाताभावोत्पन्नं सातं सौख्यमिति अतो गैगादिविरहात्सिद्धानां सौख्यमिति स्थितं जन्मादीनामभावाचेति यथोक्तं तथावस्थाप्यते तत्रापि जन्मायभावमेवाहदडढमि जहा बीए न होइ पुण अंकुरस्स उप्पत्ती। तह चेव कम्मबीए भवंकुरस्सावि पडिकुट्टा / 396 / [दग्धे यथा बीजे न भवति पुनः अंकुरस्योत्पत्तिः। तथैव कर्मबीजे भवांकुरस्यापि प्रतिकुष्टा // 396 // ] दग्धे यथा बीजे शाल्यादौ न भवति पुनरङ्कुरस्यो. त्पत्तिः शाल्यादिरूपस्य तथैव कर्मबीजे दग्धे सति भवांकुरस्याप्युत्पत्तिः प्रतिकुष्टा निमित्ताभावादिति / जंमाभावे न जरा न य मरणं न य भयं न संसारो। एएसिमभावाओ कहं न सुक्खं परं तेसिं // 397 // [ जन्माभावे न जरा न च मरणं न च भयं न संसारः / एतेषामभावात्कथं न सौख्यं परं तेषाम् / / 397 // ] जन्माभावे न जरा वयोहानिलक्षणा आश्रयाभावान्न च मरणं प्राणत्यागरूपं तदभावादेव न च भयमिहलोकादिभेदं निबन्धनाभावान्न च संसारः कारणाभावादेव एतेषां जन्मादीनामभावात्कथं न सौख्यं परं तेषां सिद्धानां किन्तु सौख्यमेव जन्मादीनामेव दुःखरूपत्वादिति अव्याबाधमिति यदुक्तं तदाह Page #243 -------------------------------------------------------------------------- ________________ [ 238 ] __ सटीक श्रावकज्ञप्त्याख्य प्रकरणं / अव्वाबाहाउ चिय सयलिदियविसयभोगपज्जते। उस्सुकविणिवत्तीइ संसारसुहं व सद्धेयं // 398 // [अव्याबाधत एव सकलेन्द्रियविषयभोगपर्यन्ते / औत्सुक्यविनिवृत्तेः संसारसुखमिव श्रद्धेयम् / / 398 // ] अव्यावधित एव अव्यावाधादेव सकलेन्द्रियविषयभोगपर्यन्ते अशेषचक्षुरादीन्द्रियप्रकृष्टरूपादिविषयानुभवचरमकाले औत्सुक्यविनिवृत्तेरभिलाषव्यावृत्तेः कारणात्संसारसुखमिव श्रद्धेयं तस्यापि तवतो विषयोपभोगतस्तदौत्सुक्य विनिवृत्तिरूपवात्तदर्थं भोगक्रियाप्रवृत्तेरिति / उक्तं च वेणुवीणामृदंगादिनादयुक्तेन हारिणा / श्लाध्यस्मरकथाबद्धगीतेन स्तिमितं सदा // 1 // कुट्टिमादौ विचित्राणि दृष्ट्वा रूपाण्यनुत्सुकः / लोचनानन्ददायीनि लीलावन्ति स्वकानि हि // 2 // अंबरागुरुकर्पूरधूपगन्धान्वितस्ततः / पटवासादिगन्धांश्च व्यक्तमाघ्राय निस्पृहः // 3 // नानारससमायुक्तं भुक्त्वान्नमिह मात्रया / पीत्वोदकं च तृप्तात्मा स्वादयन् स्वादिमं शुभम् // 4 // मृदुतूलीसमाक्रान्तदिल्यपर्यकसंस्थितः।। सहसांभोदसंशब्दं श्रुतेर्भयधनं भृशम् // 5 // इष्टभार्यापरिष्वक्तः तद्रतान्तेऽथवा नरः। . सर्वेन्द्रियार्थसंप्राप्त्या सर्वबाधानिवृत्तिजम् // 6 // Page #244 -------------------------------------------------------------------------- ________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 239 ] यद्वेदयति संहृद्यं प्रशान्तेनान्तरात्मना / मुक्तात्मनस्ततोऽनन्तं सुखमाहुर्मनीषिणः॥७॥ इत्यादीति संसारसुखमप्यौत्सुक्यविनिवृत्तिरूपमेवेत्युक्तमिह विशेषमाहइयमित्तरा निवित्ती सा पुण आवकहिया मुणेयव्वा। भावा पुणो वि नेयं एगतेणं तई नियमा॥३९९॥ [ इयं इत्वरा निवृत्तिः सा पुनः यावन्कथिका मुणितव्या / भावाः पुनरपि नेयं एकान्तेन असौ नियमात् // 399 // ] इयमिन्द्रियविषयभोगपर्यन्तकालभाविनी इत्वरा अल्पकालावस्थायिनी निवृत्तिरोन्सुक्यव्यावृत्तिः सा पुनः सिद्धानां संबन्धिनी औत्सुक्यविनिवृत्तिविकथिका सार्वकालिकी मुणितव्या ज्ञेया पुनरप्रवृत्तेस्तथाभावात्पुनरपि प्रवृत्तेः भूयोऽपि नेयमिन्द्रियविषयभोगपर्यन्तकालभाविनी एकान्तेन सर्वथा निवृत्तिरेवौत्सुक्यस्य बीजाभावेन पुनस्तत्प्रवृत्यभावात् असौ सिद्धानां संबन्धिनी औत्सुक्यविनिवृत्तिः नियमादेकान्तेन * निवृत्तिरेव ततश्च महदेतत्सुखमिति / उपसंहरन्नाहइय अणुहवजुत्तीहेउसंगयं हंदि निट्ठियट्ठाणं / अस्थि सुहं सद्धेयं तह जिणचंदागमाओ य / 400 / [ एवं अनुभवयुक्तिहेतुसंगतं हंदि निष्ठितार्थानाम् / अस्ति सुखं श्रद्धेयं तथा जिनचन्द्रागमाच्च // 400 // ] . इय एवमुक्तेन प्रकारेणानुभवयुक्तिहेतुसंगतमिति अत्रानु Page #245 -------------------------------------------------------------------------- ________________ [ 240 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / भवसंवेदनं युक्तिरुपपत्तिहेतुरन्वयव्यतिरेकलक्षणः एभिर्घटमानकं हंदीत्युपप्रदर्शने एवं गृहाण नानिष्ठितार्थानां सिद्धानामस्ति सुखं विद्यते सातं श्रद्धेयं प्रतिपत्तव्यं तथा जिनचन्द्रागमाच्चाहद्वचनाद्वेति / अधुना आचार्योऽनुद्धतत्वमात्मनो दर्शयन्नाह अथवा प्रकरणविहितार्थ विशिष्टश्रमणपर्यायप्राप्यं सक्रियया सर्वेषामासन्नीकृत्यात्मनोऽपराधस्थानमाशंक्याहजं उद्धियं सुयाओ पुवाचरियकयमहव समईए। खमियब्वं सुयहरेहि तहेव सुयदेवयाए य / 401 // [यदुद्धतं सूत्रात् पूर्वाचार्यकृतं अथवा स्वमत्या / क्षतव्यं श्रुतधरैः तथैव श्रुतदेवतया च // 401 // ] ___ यदुद्धतं सूत्रात्सूत्रकृतादेः कालान्तरप्राप्यं पूर्वाचार्यकृतं का यदुद्धतं अथवा स्वमत्या तत्क्षन्तव्यं श्रुतधरैस्तथैव श्रुतदेवतया च क्षन्तव्यमिति वर्तते / इति दिक्प्रदा नाम श्रावकप्रज्ञप्तिटीका समाप्ता। कृतिरियं सिताम्बराचार्यस्य जिनभट्टपादसत्कस्याचार्यहरिभद्रस्येति / इति सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणम् // 1 All Mss of the original text end thus, " श्री उमास्वातिवाचककृता सावयपन्नत्ती सम्मत्ता" // Page #246 -------------------------------------------------------------------------- ________________ 家家不要不要事事業革家 પૂજ્ય મુનિરાજ શ્રી રાજેન્દ્રવિજયજી મ૦ નાં અન્ય પ્રકાશનો કે (1) ચૈતન્યવંતા ચમકાર sk (2) સાધનાનાં પાન * (3) તરણિનાં તેજ * (4) સાધુતાની સૌરભ (5) જીવન જાગૃતિ ** (6) જીવન મંગલ * (7) હીરાનો હાર | (8) જીવન ઝંકાર (9) બહુરના વસુંધરા (10) દિવ્ય દર્પણ (11) તૃષ્ણા અને તૃપ્તિ (12) પુષ્પ અને પરાગ (13) ધાર તલવારની -: પ્રાપ્તિસ્થાન :સંસ્કાર સાહિત્ય સદન. મંત્રી : પૂનમચંદ ના. દેશી સદર બજાર ડીસા [ બ. કા. ] આ નિશાનીવાળો પુસ્તકા ટાફમાં નથી.. ભરત પ્રિન્ટરી, દાણાપીઠ પાછળ-પાલીતાણા.