________________ [106 ] सटीकश्रावकप्रज्ञप्त्याख्य प्रकरणं / अनिवारितप्रसराः अभ्युपगमवाधका वधात्कर्मक्षय इत्यङ्गीकृतविरोधिनो नियमेन अवश्यतयेति / उपसंहरन्नाहइय एवं पुवावरलोगविरोहाइदोससयकलियं / मुद्धजणविम्हयकरं मिच्छत्तमलं पसंगेणं / 163 / [इति एवं पूर्वापरलोकविरोधादिदोषशतकलितम् / मुग्धजनविस्मयकरं मिथ्यात्वमलं प्रसङ्गेन // 163 // ] इय एवमेतत्पूर्वापरलोकविगेधादिदोषशतकलितं मुग्धजनविस्मयकर संसारमोचकमतं मिथ्यात्वं अलं पर्याप्त प्रसङ्गेनेति / / अधुनान्यद्वादस्थानकमाहअन्ने आगंतुगदोससंभवा बिंति वहनिवित्तीओ। दोण्ह वि जणाण पावं समयंमि अदिट्ठपरमत्था // [अन्ये आगन्तुकदोषसंभवात् ब्रुवते वधनिवृत्तेः / द्वयोरपि जनयोः पापं समये अदृष्टपरमार्थाः // 164 // ] अन्ये वादिनः आगन्तुकदोषसंभवात्कारणात् बुवते किं वधनिवृत्तेः सकाशाद्वयोरपि जनयोः प्रत्याख्यात्प्रत्याख्यापयित्रोः पापं समये आममे अदृष्टपरमार्था अनुपलब्धभावार्था इति // ___ आगन्तुकदोषसंभवमाह