________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 105 ] [ एतेन कारणेन नारकाणामपि पापकर्मणाम् / / तथा दुःखितानामपीह न तथा वन्धो यथा विगमः१६० ] एतेनानन्तरोदितेन कारणेन नारकाणामपि पापकर्मणां तथा तेन प्रकारेण दुःखितानामपीह विचारे न तथा बन्धो यथा विगमः प्राया रौद्रध्यानाभावादिति / अह उ तहाभावपि हुकुणइ वहंतो न अन्नहा जेण। ता काय वो खु तओ नो तप्पडिवक्खबंधाओ // [ अथ तु तथाभावमपि करोति नमेव नान्यथा येन / तत्कर्तव्य एव तको नो तत्प्रतिपक्षबन्धात् // 161 // ] अथैवं मन्यसे तथाभावमपि सम्मोहभावमपि प्रतनुबन्धेन कर्मक्षयहेतुं करोति. घ्नन्नेव व्यापादयमेव नान्यथा येन कार न तत्तस्मात्कर्तव्य एव तको वध इत्याशङ्कयाह नो नैतदेवं तत्प्रतिपक्षबन्धाद्वधप्रतिपक्षोऽवधस्तस्माद्बन्धादन्यथावधात्तत्क्षयानुपपत्तिरविरोधादिति / एवं त्र मुत्तबंधादओ इहं पुव्ववन्निया दोसा / अणिवारणिज्जपसरा अब्भुवगयबाहगा नियमा॥ [ एवं च मुक्तबन्धादय इह पूर्ववर्णिता दोषाः। अनिवारितप्रसरा अभ्युपगमवाधका नियमेन // 162 // ] एवं चावधाबन्धापत्तौ मुक्तबन्धादय इह पूर्ववर्णिता दोषा