________________ [104 ] सटीकश्रावकज्ञप्त्याख्यप्रकरणं / ता तिव्वरागदोसाभावे बंधो वि पयणुओ तेसि। सम्मोहओ चिय तहा खओविणेगंतमुक्कोसो 158 [ तत्तीव्ररागद्वषाभावे बन्धोऽपि प्रतनुस्तेषाम् / .. सम्मोहत एव तथा क्षयोऽपि नैकान्तोत्कृष्टः // 158 // ] यस्मादेवं तत्तस्मात्तीवरागद्वेषाभावे बन्धोऽपि प्रतनुस्तेषां समवहतानां निमित्तदौर्बल्यात् सम्मोहत एव तथा क्षयोऽपि बन्धस्य नैकान्तोत्कृष्टस्तेषां सम्यग्ज्ञानादिविशिष्टतत्कारणाभावादिति / यथा नोत्कृष्टक्षयस्तथा चाह / जं नेरइओ कम्मं खवेइ बहुआहि वासकोडीहिं। तन्नाणी तिहि गुत्तो खवेइ ऊसासमित्तेण / 159 / [यनारकः कर्म क्षपयति बहवीभिवर्षकोटीभिः / तज्ज्ञानी तिसृभिगुप्तः क्षपयत्युच्छ्वासमात्रेण // 159 // ] यनारकः कर्म क्षपयति बह्वीभिर्वर्षकोटीभिस्तथा दुःखितः सन् क्रियामात्रक्षपणात् तज्ज्ञानी तिसृभिगुप्तिभिगुप्तः क्षपय. त्युच्छ्वासमात्रेण संवेगादिशुभपरिणामस्य तत्क्षयहेतोस्तीवत्वात् // निगमयन्नाहएएण कारणेणं नेरइयाणं पि पावकम्माणं / ' तह दुखियाण वि इहं न तहा बंधो जहा विगमो॥