________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [103 ] नेरइयाण वि तह देहवेयणातिसयभावओ पायं / नाईवसंकिलेसो समोहयाणं व विन्नेओ // 156 // [ नारकानामपि तथा देहवेदनातिशयभावतः प्रायः / नातीवसंक्लेशः समवहतानामिव विज्ञेयः // 156 // ] नारकानामप्युदाहरणतयोपन्यस्तानां तथा तेन प्रकारेण नरकवेदनीयकर्मोदयजनितेन देहवेदनातिशयभावतः शरीरवेदनायास्तीवभावेन प्रायो बाहुल्येन नातीवसंकलेशः क्रूरादिपरिणामलक्षणः समवहतानामिव विज्ञेयः वेदनातिशयेनान्त:करणव्यापाराभिभवादिति / एतदेवाहइत्थ वि समोहया मूढचेयणा वेयणाणुभवखिन्ना। तंमित्तचित्तकिरिया न संकिलिस्संति अन्नत्थ।१५७ [अत्रापि समवहता मूढचेतना वेदनानुभवखिन्नाः। . तन्मात्रचित्तक्रिया न संकलिश्यन्ते अन्यत्र // 157 // ] अत्रापि तिर्यग्लोके समवहता वेदनासमुद्घातेनावस्थान्तरमुपनीता मूढचेतना विशिष्टस्वव्यापाराक्षमचैतन्या वेदनानुभवखिन्नाः तीव्रवेदनासंवेदनेन श्रान्ताः तन्मात्रचित्तक्रिया वेदनानुभवमात्रचित्तव्यापारा न संकलिश्यन्ते न रागादिपरिणाम यान्ति अन्यत्र स्त्र्यादौ तत्रैव निरोधादिति /