________________ [ 136 ] . सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / . प्राप्नुयात् म्रियेत प्राणत्यागं कुर्यात् कुलिङ्गी कुत्सितलिङ्गवान् द्वीन्द्रियादिसव:तं योगमासाद्य तथोपयुक्तसाधुव्यापारं प्राप्येति॥ नय तस्स तनिमित्तो बंधो सुहुमो विदेसिओ समए। जम्हा सो अपमत्तो सा उ पमाउ ति निविट्ठा / 224 // [न च तस्य तन्निमित्तः बन्धः सूक्ष्मोऽपि देशितः समये / यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिष्टा // 224 // ] न च तस्य साधोस्तनिमित्तः कुलिङ्गिब्यापत्तिकारणो बन्धः सूक्ष्मोऽपि देशितः समये किमिति यस्मात्सोऽप्रमत्तः सूत्राज्ञया प्रवृत्ते: सा च हिंसा प्रमाद इत्येवं निर्दिष्टा तीर्थकरगणधरैरिति इयं द्रव्यतो हिंसा न भावतः। सांप्रतं भावतो न द्रव्यत इत्युच्यतेमंदपगासे देसे रज्जु किाहिसरिसयं दर्छ। अच्छित्तु तिक्खग्गंवहिज्जतं तप्परीणामो॥२२५॥ ... [ मन्दप्रकाशे देशे रज्जु कृष्णाहिसदृशीं दृष्ट्वा / आकृष्य तीक्ष्णखङ्गं हन्यात् तां तत्परिणामः // 225 // ] मन्दप्रकाशे देशे ध्यामले निम्नादौ रज्जु दर्भादिविकाररूपां कृष्णाहिसदृशी कृष्णसर्पतुल्यां दृष्ट्वा आकृष्य तीक्ष्णखङ्गं वधेत्तां हन्यादित्यर्थः तत्परिणामो वधपरिणाम इति.॥