________________ सटीकश्रीवकप्रज्ञप्त्याख्यप्रकरणं / [ 135 ] [ केचित् बालादिवधे बहुतरकर्मण उपक्रमादेव / . मन्यन्ते पापमधिकं वृद्धादिषु विपर्यासम् // 221 // ] केचिद्वादिनो बालादिवधे बालकुमारयुवव्यापादने बहुतरकर्मण उपक्रमणात्कारणान्मन्यन्ते पापमधिकं / वृद्धादिषु विपर्यासं स्तोकतरस्य कर्मण उपक्रमादिति / अत्रोत्तरमाहएयं पि न जुत्तिखमं जं परिणामाउ पावमिह वुत्तं / दवाइभेयभिन्ना तह हिंसा वन्निया समए / 222 // [ एतदपि न युक्तिक्षमं यन्परिणामात्पापमिहोक्तम् / द्रव्यादिभेद भिन्ना तथा हिंसा वर्णिता समये // 222 // ] एतदपि न युक्तिक्षमं यद्यस्मात्परिणामात्पापमिहोक्तं स च न नियतो बालवृद्धादिषु कलिष्टेतररूपो द्रव्यादिभेदभिन्ना तथा हिंसा वर्णिता समये यथोक्तं “दव्वउ णामेगे हिंसा ण भावउ" इत्यादि प्रथमहिंसाभेदमाह / उच्चालियंमि पाए इरियासमियस्स संकमट्ठाए / वावज्जिज्ज कुलिंगी मरिज्जतं जोगमासज्ज।२२३॥ [ उच्चालिते पादे ईर्यासमितस्य संक्रमार्थम् / व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य // 223 // ] उच्चालिते उत्क्षिप्ते पादे संक्रमार्थं गमनार्थमिति योगः ईर्यासमितस्योपयुक्तस्य साधोः किं व्यापद्येत महतीं वेदना