________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 137 ] सप्पवहाभामि वि वहपरिणामाउ चेव एयस्स / नियमेण संपराइयवंधो खलु होइ नायबो॥२२६॥ [ सर्पवधाभावेऽपि वधपरिणामादेवैतस्य / नियमेन सांपरायिको बन्धः खलु भवति ज्ञातव्यः॥२२६॥] सर्पवधाभावेऽपि तत्त्वतः वधपरिणामादेवैतस्य व्यापादकस्य नियमेन सांपरायिको बन्धो भवपरंपराहेतुः कर्मयोगः खलु भवति ज्ञातव्य इति / तृतीयं हिंसाभेदमाहमिगवहपरिणामगओ आयण्णं कड्ढिऊण कोदंडं। मुत्तूणमिसं उभओ वहिज्जतं पागडो एम॥२२७॥ [ मृगवधपरिणामगतः आकर्ण आकृष्य कोदण्डम् / मुक्त्वा इधू उभयतः हन्यात् तं प्रकट एषः // 227 // ] मृगवघपरिणामपरिणतः सन्नाकर्णमाकृष्य कोदण्डं धनुमुक्त्वेषु वाणं उभयतो वधेत् हन्यात् द्रव्यतो भावतश्च तं मृगं प्रकट एष हिंसक इति / चतुर्थं भेदमाहउभयाभावे हिंसा धणिमित्त भंगयाणुपुब्वीए / तहवि य दंसिज्जती सीसमइविगोवणमट्ठा // 228 // [ उभयाभावे हिंसा ध्वनिमात्रं भंगकानुपूर्व्या / तथापि च दर्यमाना शिष्यमतिविकोपनाय अदुष्टा // 228 // ]