________________ [ 138 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / उभयाभावे द्रव्यतो भावतश्च वधाभावे हिंसा ध्वनिमात्र न विषयतः भङ्गकानुपूर्व्यायाता तथापि च दर्यमाना शिष्यमतिविकोपनं विनेयबुद्धिविकाशायादुष्टैवेति / इय परिणामा बंधे बालो वुड टुत्ति थोवमियमित्थ। बाले वि सो नतिब्बो कयाइ वुड्ढे वि तिव्वृत्ति / 229 // [एवं परिणामाबन्धे बालो वृद्ध इति स्तोकमिदमत्र / बालेऽपि असौ न तीव्रः कदाचिद् वृद्धेऽपि तीव्र इति।२२९।] इय एवं परिणामाद्वन्धे सति बालो वृद्ध इति स्तोकमिदमत्र हिंसाप्रक्रमे किमिति बालेप्यसौ न तीव्रः परिणामः कदाचिवृद्धेऽपि तीव्र इति जिघांसतामाशयवैचित्र्यादिति / अह परिणामाभावे वहे वि बंधो न पावइ एवं। कह न वहे परिणामो तब्भावे कह य नोबंधो।२३० [अथ परिणामाभावे वधेऽपि वंधो न प्राप्नोत्येवम् / कथं न वधे परिणामः तद्भावे कथ च न बन्धः // 230 // ] अथैवं मन्यसे परिणामाभावे सति वधेऽप्यबंध एव प्राप्नोत्येवं परिणामवादे एतदाशङ्कयाह कथं न वधे परिणामः किं तर्हि भवत्येवादुष्टाशयस्य तत्राप्रवृत्तेः तद्भावे वधपरिणामभावे कथं च वधे न बन्धो बन्ध एवेति //