________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 139 ] सिय न वहे परिणामो अन्नाणकसत्थभावणाओ य। उभयत्थ तदेव तओ किलिट्ठबंधस्स हेउ ति॥२३१॥ [ स्यान्न वधे परिणामः अज्ञानकुशास्त्रभावनातश्च / उभयत्र तदेव तकः कलिष्टबन्धस्य हेतुरिति // 231 // ] स्यान्न वधे परिणामः कलिष्ट: अज्ञानात् अज्ञानं व्यापादयतः कुशास्त्रभावनातश्च यागादावेतदाशङ्कयाह / उभयत्र तदेवाज्ञानमसौ परिणामः कलिष्टबन्धस्य हेतुरिति सांपरायिकस्येति // जम्हा सो परिणामो अन्नाणादवगमेण नो होइ / तम्हा तयभावत्थी नाणाईसुसइ जइज्जा॥२३२॥ [ यस्मादसौ परिणामः अज्ञानाद्यपगमेन न भवति / तस्मात्तदभावार्थी ज्ञानादिषु सदा यतेत // 232 // ] यस्मादसौ वधपरिणामो * अज्ञानाद्यपगमेन हेतुना न भवति सति / त्वज्ञानादौ भवत्येव वस्तुतस्तस्यैव तद्रूपत्वात्तस्मात्तदभावार्थी वधपरिणामाभावार्थी ज्ञानादिषु सदा यतेत तत्प्रतिपक्षत्वात् इति एवं वस्तुस्थितिमभिधायाधुना परोपन्यस्तहेतोरनेकान्तिकत्वमुद्भावयति / बहुतरकम्मोवक्कमभावो वेगंतिओ न जं केइ / वाला वि य थोवाऊ हवंति वुड्ढा वि दीहाऊ॥२३३॥