________________ [ 140 ] सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं / [ बहुतरकर्मोपक्रमभावोऽपि एकान्तिको न. यत् केचित् / बाला अपि च स्तोकायुषःभवन्ति वृद्धा अपि दीर्घायुषः।२३३॥ बहुतरकर्मोपक्रमभावोऽपि बालादिवृद्धादिष्वेकान्तिको न यद्यस्मात्केचन बाला अपि स्तोकायुषो भवन्ति वृद्धा अपि दीर्घायुषस्तथा लोके दर्शनादिति / तम्हा सव्वेसि चिय वहमि पावं अपावभावेहि / भणियमहिगाइभावो परिणामविसेसओ पायं॥२३४॥ [ तस्मात्सर्वेषामेव वधे पापं अपापभावैः / भणितमधिकादिभाव: परिणामविशेषतः प्रायः // 234 // ] यस्मादेवं तस्मात्सर्वेषामेव बालादीनां वधे पापमपापभावैवीतरागैर्भणितं अधिकादिभावस्तस्य पाप्मनः परिणामविशेषतः प्रायो भणित इति वर्तते प्रायोग्रहणं तपस्वीतरादिभेदसंग्रहार्थमिति // सांप्रतमन्यद्वादस्थानकम्संभवइ वहो जेसिं जुज्जइ तेसिं निवित्तिकरणं पि। आवडियाकरणमि य सत्तिनिरोहा फलं तत्थ॥२३५॥ [संभवति वधो येषु युज्यते तेषु निवृत्तिकरणमपि / आपतिताकरणे च शक्तिनिरोधात् फलं तत्र // 235 // ] संभवति वधो येषु कृमिपिपीलिकादिषु युज्यते तेषु