________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [141] निवृत्तिकरणमपि विषयाप्रवृत्तेः आपतिताकरणे च पर्युपस्थितानासेवने च सति शक्तिनिरोधात्फलं तत्र युज्यत इति वर्तते अविषयशक्त्यभावयोस्तु कुतः फलमिति / तथा चाहनो अविसए पवित्ती तन्निवित्तिइ अचरणपाणिस्स / झसनायधम्मतुल्ल तत्थ फलमबहुमयं केइ // 236 // [ नोऽविषये प्रवृत्तिः तन्निवृत्त्या अचरणपाणेः / झपज्ञातधर्मतुल्यं तत्र फलमबहुमतं केचित् // 236 // ] नोऽविषये नारकादौ प्रवृत्तिर्वधक्रियायास्ततश्च तनिवृत्त्या अविषयप्रवृत्तिनिवृत्यो अचरणपाणेः छिन्नगोदुकरस्यx झपज्ञा. तधर्मतुल्यं छिन्नगोदुकरस्य मत्स्यनाशे धर्म इत्येवं कल्पं तत्र निवृत्तौ फलं अबहुमतं विदुषामश्लाघ्य केचन मन्यन्त इत्येष पूर्वपक्षः / अत्रोत्तरमाह। संभवति वधो येष्वित्युक्तं अथ कोऽयं संभव इति / किं ताव तब्बहु चिय उयाह कालंतरेण वहणं तु। किंवावहु ति किं वा सत्ती को संभवो एत्थ // 237 // [किं तावत्तद्वध एव उताहो कालान्तरेण हननमेव / किं वा अवधः किं वा शक्तिः कः संभवः अत्र // 237 // ] 4 सर्वेषूपलब्धपुस्तकादशैषु एतादृशमेवेति नास्माकं मनीषोन्मेषोऽत्र /