________________ [142 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / किं तावत्तद्वध एव तेषां व्यापाद्यमानानां वधस्तद्वधः क्रियारूप एव उताहो कालान्तरेण हननं जिघांसनमेवं वा किं अवधो अव्यापादनमित्यर्थः किं वा शक्तिः व्योपादकस्य व्यापाद्यविषया कः संभवोत्र प्रत्रम इति सर्वेऽप्यमी पक्षा दुष्टाः / तथा चाहजइ ताव तव्वह च्चिय अलं निवित्तीइ अविसयाए / कालतरवहणंमि वि किं तीए नियमभंगाओ॥२३८॥ [ यदि तावत्तद्वध एव अलं निवृत्त्या अविषययैव / कालान्तरहननेऽपि किं तया नियमभंगात् // 238 // ] यदि तावत्तद्वध एव तेषां व्यापाद्यमानवधक्रियव संभव इति अत्र दोषमाह अलं निवृत्त्या न किंचिद्वधनिवृत्त्याविषययेति हेतुः निमित्तकारणहेतुषु सर्वासां प्रायो दर्शनमिति वचनात् अविषयत्वं च वधक्रियाया एव संभवत्वात्संभवे च सति निवृत्यभ्युपगमात् ततश्च वधक्रियानियमभावे अविषया वधनिवृत्तिरिति / कालान्तरहननेऽपि नियमतः संभवेऽभ्युपगम्यमाने किं तया निवृत्त्या न किंचिदित्यर्थः कुत इत्याह नियमभङ्गात् संभव एव सति निवृत्यभ्युपगमः संभवश्च कालान्तरहननमेवेति नियमभङ्ग इति / चरमविकल्पद्वयाभिधित्सयाह अवहे विनो पमाणं सुट्ट्यरं अविसओ य विसओ से। सत्ती उ कज्जगम्मा सइ तंमि किं पुणो तीए / 239 //