________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [143 ] [ अवधेऽपि न प्रमाणं सुठुतरं अविषयश्च विषयः तस्याः / . शक्तिस्तु कार्यगम्या सति तस्मिन् किं पुनस्तया / 239 / ] अवधेऽपि न प्रमाणं यद्यवधः संभवः इत्यत्रापि प्रमाणं न ज्ञायते एतेषामस्मादवध इति सुठुतरं अतितरां अविषयश्च विषयः से तस्या निवृत्तेः अविषयत्वं तु तेषां वधासंभवात् अवधस्यैव संभवत्वात् अस्मिंश्च सति निवृत्त्यभ्युपगमादिति / शक्तिस्तु कार्यगम्या वघशक्तिरपि संभवो न युज्यते यतोऽसौ कार्यगम्यैवेति न वधमन्तरेण ज्ञायते सति च तस्मिन्वधे किं पुनस्तया निवृत्त्या तस्य संपादितत्वादेवेति / संभवमधिकृत्य पक्षान्तरमाहजज्जाईओअहओ तज्जाईएसु संभवो तस्स / तेसु सफला निवित्तीन जुत्तमेयं पि वभिचारा 240 / [ यज्जातीय एव हतः तज्जातीयेषु संभवस्तस्य / तेषु सफला निवृत्तिः न युक्तमेतदपि व्यभिचारात् / 240] यज्जातीय एव हतः स्यात् कृम्यादिस्तज्जातीयेषु संभवस्तस्य वधस्य अतस्तेषु सफला निवृत्तिः सविषयत्वादिति एतदाशङ्कयाह / न युक्तमेतदपि व्यभिचारात् व्यभिचारमेवाहवावाइज्जइ कोई हए वि मणुयंमि अन्नमणुएणं / अहए वि य सीहाओ दीसइ वहणं पि वभिचारा।२४१