________________ [144 ] सटीकश्राषकप्रज्ञप्त्याख्यप्रकरणं / [ व्यापाद्यते कश्चित् हतेऽपि मनुष्येऽन्यमनुष्येण / अहतेऽपि च सिंहादौ दृश्यते हननं अपि व्यभिचारात् / 241] व्यापाद्यते कश्चिदेव हतेऽपि मनुष्ये सकृत् अन्यमनुष्येण तथा लोके दर्शनात् अतो यज्जातीयस्तु हतस्तज्जातीयेषु संभवस्तस्येति नैकान्तः तेनैव अन्यमनुष्येणैव व्यापादनात् तथा अहतेऽपि च सिंहादौ आजन्म दृश्यते हननं कादाचित्कमिति व्यभिचार इति / / नियमो न संभवो इह हंतव्वा किंतु सत्तिमित्तंतु। सा जेण कज्जगम्मा तयभावे किं न सेसेसु / 242 / [नियमो न संभव इह हन्तव्याः किंतु शक्तिमात्रमेव / सा येन कार्यगम्या तदभावे किं न शेषेषु // 242 // ] नियमो न संभव इहावश्यंता न संभव इहोच्यते यदुत यज्जातीय एको हतस्तज्जातीयाः सर्वेऽपि हन्तव्या यज्जातीयस्तु न हतस्तज्जातीया न हन्तव्या एव किन्तु शक्तिमात्रमेव तज्जातीयेतरेषु व्यापादनशक्तिमात्रमेव संभवः / तत्कथं दोषोऽनन्तरोदितो नैवेत्यभिप्राय इति एतदाशङ्कयाह / सा येन कार्यगम्येति सा शक्तिर्यस्मात्कार्यगम्या वर्तते अतो दोष इति वधमन्तरेण तदपरिज्ञानात् सति च तस्मिन् कि तयेत्यभिहितमेवैतत् / अथ सा कार्यमन्तरेणाप्यभ्युपगम्यते इति एतदाशङ्कयाह / तदभावे कार्याभावे किं न शेषेषु सत्वेषु