________________ सटीकथावकप्रज्ञप्त्याख्यमकरणं / [ 145 ] साभ्युपगम्यते तथा च सत्यविशेषत एव निवृत्तिसिद्धिरिति / स्यादेतन सर्वसत्त्वेषु सा अतो नाभ्युपगम्यत इति आह / नारगदेवाईसुं असंभवा समयमाणसिद्धीओ। इत्तु चिय तस्सिद्धी असुहासयवज्जणमदुट्ठा / 243 [ नारकदेवादिष्वसंभवात्समयमानसिद्धेः। अत एव तसिद्धिः अशुभाशयवर्जनमदुष्टा // 243 // ] नारकदेवादिष्वसंभवाद्वयापादनशक्तेनिरुपक्रमायुषस्त इति आदिशब्दाद्देवकुरुनिवास्यादिपरिग्रहः कुत एतदिति चेत् समय : मानसिद्धेरागमप्रामाण्यादिति। एतदाशङ्कयाह / अत एव समयमानसिद्धेः तत्सिद्धिः सर्वप्राणातिपातनिवृत्तिसिद्धिः " सव्वं भंते पाणाइवायं पञ्चक्वामि" इत्यादिवचनप्रामाण्याद् आगमस्याप्यविषयप्रवृतिदुष्टैवेति एतदाशङ्कयाह अशुभाशयवर्जनमिति कृत्वा अदुष्टा तद्वधनिवृत्तिः अन्तःकरणादिसंभवालंबनत्वाचेति वक्ष्यतीति // आवडियाकरणं पिहु न अप्पमायाओ नियमओ अन्न अन्नत्ते तब्भावे वि हंत विहला तई होइ // 244 // [आपतिताकरणमपि नैवाप्रमादानियमतोऽन्यत् / अन्यत्वे तद्भावेऽपि हन्त विफला तका भवति // 244 // ] आपतिताकरणमपि पूर्वपक्षवाद्युपन्यस्तं नाप्रमादानियमतो