________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [23] तीर्थकरगणधरैरिति / त्रयस्त्रिंशत्सागरोपमानि परमा प्रधानायुः कर्मणो बोद्धव्येति // अधुना जघन्यामाह / वेणिस्स य बारस नामग्गोयाण अट्ट उ मुहत्ता। सेसाण जहन्नठिई भिन्नमुहत्तं विणिहिट्ठा // 30 // [वेदनीयस्य च द्वादश नामगोत्रयोरष्ट मुहूर्ताः / शेषाणां जघन्या स्थितिभिन्नमुहूर्त विनिर्दिष्टा // 30 // ] वेदनीयस्य कर्मणो जघन्या स्थितिरिति योगः द्वादशमुहर्ता नामगोत्रकर्मणोरष्टौ मुहूर्ता इत्थं मुहर्तशब्दः प्रत्येकममिसंबध्यते / द्विघटिको मुहूर्तः। शेषाणां ज्ञानावरणादीनां जघन्या स्थितिभिन्नमुहर्त विनिर्दिष्टान्तर्मुहूर्त प्रतिपादितेति / प्रकृतयोजनायाहएवं ठिइयस्स जया घसणघोलणनिमित्तओ कहवि। खविया कोडाकोडी सव्वा इक्क पमुत्तणं // 31 // [एवं स्थितिकस्य यदा घर्षणघूर्णननिमित्ततः कथमपि / क्षपिताः कोटिकोट्यः सर्वा एका प्रमुच्य // 31 // ] एवं स्थितेरस्य कर्मणः यदा यस्मिन्काले घर्षणघूर्णननिमित्ततो नानायोनिषु चित्रसुखदुःखानुभवनेनेत्यर्थः कथमपि केनचित्प्रकारेण क्षपिताः प्रलयं नीताः कोटिकोट्यः सर्वा