________________ [ 22 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / मागम इति गम्यते / उत्कृष्टेतरभेदादुत्कृष्टा जघन्या च समाख्यातेति भावः तां स्थितिमहं वक्ष्येऽहमित्यात्मनिर्देशे, वक्ष्येऽभिधास्ये, समासेन संक्षेपेण न तूत्तरप्रकृतिभेदस्थितिप्रतिपादनप्रपश्चनेति / आइल्लाणं तिन्हं चरमस्स य तीस कोडिकोडीओ। अयराण मोहणिज्जस्स सत्तरी होइ विनेया॥२८॥ [ आद्यानां त्रयाणां चरमस्य च त्रिंशत्कोटिकोट्यः / / अतराणां मोहनीयस्य सप्ततिर्भवति विज्ञेया // 28 // ] आद्यानां त्रयाणां ज्ञानावरणदर्शनावरणवेदनीयानां चरमस्य च सूत्रक्रमप्रामाण्यात्पर्यन्तवर्तिनोऽन्तरायस्येति त्रिंशत्सागरोपमकोटिकोटयः अतराणामिति सागरोपमानां मोहनीयस्य सप्ततिर्भवति विज्ञेया सागरोपमकोटिकोट्य इति // नामस्स य गोयस्स य वीसंउक्कोसिया ठिई भणिया। तित्तीससागराइं परमा आउस्स बोद्धव्वा // 29 // [ नाम्नः च गोत्रस्य च विंशतिरुत्कृष्टा स्थितिर्भणिता / त्रयस्त्रिंशत्सागराणि परमा आयुषो बोद्धव्या // 29 // ] नाम्नश्च गोत्रस्य च विंशतिः सागरोपमकोटिकोट्य इति गम्यते उत्कृष्टा स्थितिर्भणिता सर्वोत्तमा स्थितिः प्रतिपादिता