________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [57 ] कानुभवनमिति / प्रदेशबन्धस्त्वात्मप्रदेशैर्योगस्तथा कालेनैव विशिष्टविपाकरहितं वेदनमिति / / ___ उक्तो बन्ध इदानीं संवरमाहआसवनिरोह संवर समिईगुत्ताइएहि नायब्वो। कम्माणणुवायाणं भावत्यो होइ एयस्स // 81 // [आश्रवनिरोधः संवरः समितिगुप्त्यादिभितिव्यः / कर्मणामनुपादानं भावार्थों भवत्येतस्य // 81 // ] आश्रवनिरोधः संवरः। आश्रव उक्त एव / तनिरोधः कात्स्येन निश्चयतः सर्वसंवर उच्यते / शेषो व्यवहारसंवर इति / स समितिगुप्त्यादिभितिव्यः। उक्तं च "स समितिगुप्तिधर्मानुप्रेक्षापरीपहजयचारित्रैः” इत्यादि (तचार्थाधिगमसूत्रम् 9-4) कर्मणामनुपादानं भावार्थों भवत्येतस्य संवरस्य / इह यावानेवांशः कर्मणामनुपादानहेतुर्धर्मादीनां तावानेवेह गृह्यते / शेषस्य तपस्येवान्तर्भावात् तस्य च प्रागुपात्तक्षयनिमित्तत्वादिति / अत्र बहु वक्तव्यं / तत्तु नोच्यते / गमनिकामात्रत्वादारंभस्येति / उक्तः संवर: सांप्रतं निर्जरोच्यतेतवसा उ निज्जरा इह निज्जरणं खवणनासमेगट्ठा / कम्माभावापायणमिह निज्जरमो जिणा बिति 82