________________ [58] सटीकश्राषकप्रज्ञप्त्याख्यप्रकरणं / [ तपसा तु निर्जरा इह निर्जरणं क्षपणं नाश एकार्थाः / कर्माभावापादानमिह निर्जरा जिना ब्रुवते // 82 // ] तपसा तु निर्जरा इह / अनशनादिभेदभिनं तपः तेन प्रागुपात्तस्य कर्मणो निर्जरा भवति / निर्जराशब्दार्थमेवाह / निर्जरणं क्षपणं नाश इत्येकार्थाः पर्यायशब्दा इति / नानादेशजविनेयगणप्रतिपच्यर्थ अज्ञातज्ञापनार्थ चैतेषामुपादानमदुष्टमेव / अस्या एव भावार्थमाह / कर्माभावापादानमिह निर्जरा जिना युवते प्रकटार्थमेतदिति / '' उक्ता निर्जरा इदानीं मोक्षमाहनोसेसकम्मविगमो मुक्खो जीवस्स सुद्धरूवस्स / साइ अपज्जवसाणं अव्वाबाहं अंवत्थाणं // 83 // . [ निःशेषकर्मविगमो मोक्षो जीवस्य शुद्धस्वरूपस्य / साद्यपर्यवसानमव्याबाधमवस्थानम् // 83 // ] निःशेषकर्मविगमो मोक्षः / कृत्स्नकर्मक्षयान्मोक्ष इति वचनात् (तत्त्वार्थाधिगमसूत्रम् 10-1) जीवस्य शुद्धस्वरूपस्य कर्मसंयोगापादितरूपरहितस्येत्यर्थः / साद्यपर्यवसानं अव्याबाधं व्यावाधावर्जितमवस्थानमवस्थितिः जीवस्यासौ मोक्ष इति / साद्यपर्यवसानता चेह व्यक्त्यपेक्षया न तु सामान्येन / मोक्षस्यापि अनादिमचमिति / उक्तं तत्त्वं, अधुना प्रकृतं योजयति