________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [59] एयमिह सदहंतो सम्मदिट्टी तओ अ नियमेण / भवनिव्वेयगुणाओ पसमाइगुणासओ होइ॥८४॥ [ एतदिह श्रद्दधानः सम्यग्दृष्टिः तकश्च नियमेन / भवनिर्वेदगुणात् प्रशमादिगुणाश्रयो भवति // 84 // ] एतदनन्तरोदितं जीवाजीवादीह लोके प्रवचने वा श्रद्द. धानः एवमेवेदमित्यान्तिःकरणतया प्रतिपद्यमानः सम्यगदृष्टिरभिधीयते, अविपरीतदर्शनादिति, तकश्च नियमेनासाववश्यंतया भवनिर्वेदगुणात् संसारनिर्वेदगुणेन प्रशमादिगुणाश्रयो भवति उक्तलक्षणानां (53) प्रशमादिगुणानामाधारो भवति / भवति चेत्थंज्ञाने संसारनिर्वेदगुणः। तस्माच प्रशमादयः। प्रतीतमेतदिति अस्यैव व्यतिरेकमाहविवरीयसदहाणे मिच्छाभावाओ नत्थि केइ गुणा। अणभिनिवेसो उ कयाइ होइ सम्मत्तहेऊ वि / 85 / [विपरीतश्रद्दधाने मिथ्याभावान्न सन्ति केचन गुणाः / अनभिनिवेशस्तु कदाचिद्भवति सम्यक्त्वहेतुरपि // 85 // ] विपरीतश्रद्धाने उक्तलक्षणानां जीवादिपदार्थानामन्यथा श्रद्धाने मिथ्याभावान्न सन्ति केचन गुणाः सर्वत्रैव विपर्ययादिति भावः / विपरीतश्रद्धानेऽप्यनभिनिवेशस्तु एवमेवैतदित्यनध्यवसायस्तु कदाचित्कस्मिंश्चित्काले यद्वा कदाचित् न