________________ [60] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / / नियमेनैव भवति सम्यक्त्वहेतुरपि जायते सम्यक्त्वकारणमपि / यथेन्द्रनागादीनामिति / ____ इदं च सम्यक्त्वमतिचाररहितमनुपालनीयमिति / अतस्तानाहसम्मत्तस्सइयारा संका कंखा तहेव वितिगिच्छा। परपासंडपसंसा संथवमाई य नायव्वा // 86 // [सम्यक्त्वस्यातिचाराः शङ्का कांक्षा तथैव विचिकित्सा / परपाषण्डप्रशंसा संस्तवादयश्च ज्ञातव्याः // 86 // ] सम्यक्त्वस्य प्रानिरूपितशब्दार्थस्यातिचारा अतिचर. णानि अतिचारा असदनुष्ठानविशेषाः यैः,सम्यक्त्वमतिचरति विराधयति वा / ते च शंकादयः। तथा चाह / शंका कांक्षा तथैव विचिकित्सा परपाषण्डप्रशंसा संस्तवादयश्च ज्ञातव्याः / आदिशब्दादनुपणास्थिरीकरणादिपरिग्रहः / शंकादीनां स्वरूपं वक्ष्यत्येवेति / संसयकरणं संका कंखा अन्नन्नदंसणग्गाहो / संतमि वि वितिगिच्छा सिज्झिज्जन मे अयं अट्ठो॥ [संशयकरणं शङ्का कांक्षान्योन्यदर्शनग्राहः। सत्यपि विचिकित्सा सिध्येत न मेऽयमर्थः // 87 // ] संशयकरणं शङ्का भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्ति