________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / कायादिष्वत्यंन्तगहनेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु संशय इत्यर्थः / किमेवं स्यान्नैवमिति / सो पुनर्दिभेदा। देशसबभेदात् / देशशङ्का देशविषया यथा किमयमात्मासङ्ख्येयप्रदेशात्मकः स्यादथ निःप्रदेशो निरवयवः स्यादिति / सर्वशङ्का पुनः सकलास्तिकायबात एव किमेवं स्यान्नैवमिति // कांक्षान्योन्यदर्शनग्राहः / सुगतादिप्रणीतेषु दर्शनेषु ग्राहोऽभिलाप इति / सा पुनर्बिभेदा देशसर्वभेदात् / देशविषया एकमेव सौगतं दर्शनमाकांक्षति चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरिति अतो घटमानकमिदं न दुरापेतमिति / सर्वकांक्षा तु सर्वदर्शनान्येव कांक्षति अहिंसाप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादमतानीह लोके च नात्यन्तकलेशप्रतिपादनपराणि अतः शोभनान्येवेति // सत्यपि विचिकित्सा सिध्येत, न मेऽयमर्थ इति / अयमत्र भावार्थः / विचिकित्सा मतिविभ्रमो युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति संमोहः / किमस्य महतस्तपःकलेशायासस्य सिकताकणकवलकल्पस्य कनकावल्पादेरायत्यां मम फलसंपद्भविष्यति किं वा नेति / उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृपीवलानाम् / न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयम् / शंका हि सकला सकलपदार्थभाक्त्वेन द्रव्यगुणविषया / इयं तु क्रियाविषयैव / तत्वतस्तु सर्व एते प्रायो भिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणाम विशेषाः सम्यक्त्वातिचारा