________________ [2] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / उच्यन्ते / न सूक्ष्मेक्षिका अत्र कार्येति / अथवा विचिकित्सा विद्वद्जुगुप्सा। विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसर्वसङ्गास्तेषां जुगुप्सा निन्दा / तथाहि तेऽस्नानात्प्रस्वेदजलकलिन्नमलिनत्वात् दुर्गन्धवपुषो भवन्ति तानिन्दति / को दोषः स्याद्यदि प्राशुकेन वारिणाङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति / इयमपि न कोर्या / देहस्यैव परमार्थतोऽशुचित्वादिति // परपासंडपसंसा सकाइणमिह वनवाओ उ / तेहिं सह परिचओ जो स संथवो होइ नायब्वो 88 [ परपाषंडप्रशंसा शाक्यादीनामिह वर्णवादस्तु / तैः सह परिचयो यः स संस्तवो भवति ज्ञातव्यः 88 ] परपाषण्डानां सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसेति समासः प्रशंसनं प्रशंसो स्तुतिरित्यर्थः / तथा चाह / शाक्यादीनामिह वर्णवादस्तु / शाक्यो रक्तभिक्षव आदिशब्दात्परिवाजकादिपरिग्रहः / वर्णवादः प्रशंसोच्यते पुण्यभाज एते सुलब्धमेभिर्मानुजं जन्म दयालव एत इत्यादि // तैः परपापण्डैरनन्तरोदितैः सह परिचयो यः स संस्तवो भवति ज्ञातव्यः परपाषण्डसंस्तव इत्यर्थः संस्तव इह संवादजनितः परिचय: संवसनभोजनालापादिलक्षणः परिगृह्यते न स्तवरूपः तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति "असंस्तुतेषु प्रसभं भयेषु" इत्यादौ इति // .