________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [63] अधुना शंकादीनामतिचारतामाह / संकाए मालिन्नं जायइ चित्तस्सपञ्चओ अ जिणे। सम्मत्ताणुचिओ खलु इइ अइआरो भवे संका।८९। [शंकाय मालिन्यं जायते चित्तस्य अप्रत्ययश्च जिने / सम्यक्त्वानुचितः खलु इति अतिचारो भवति शङ्का // 89 // ] शङ्कायामुक्तलक्षणायां सत्यां मालिन्यं जायतेऽवबोधश्रद्धाप्रकाशमगीकृत्य ध्यामलत्वं जायते / कस्य चित्तस्यान्तः करणस्याप्रत्ययश्च अविश्वासश्च क्व जिनेऽर्हति जायत इति वर्तते / न ह्याप्ततया प्रतिपन्नवचने संशयसमुद्भवः सम्यक्त्वानुचितः खलु अयं च भगवत्यप्रत्ययः सम्यक्त्वानुचित एव / न हि सम्यक्त्वमालिन्यं तदभावमन्तरेणैव भवति / इत्येवमनेन प्रकारेग अतिचारो भवति शङ्का सम्यक्त्वस्येति प्रक्रमाद्गम्यते / अतिचारश्चेह परिणामविशेषान्नयमतभेदेन वा सत्येतस्मिन् तस्य स्खलनमात्रं तदभावो वा ग्राह्यः / तथा चान्यैरप्युक्तं / एकस्मिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः / मिथ्या च दर्शन तत्स चादिहेतुर्भवगतीनाम् // इति प्रतिपादितं शङ्काया अतिचारत्वम् / अधुना दोषमाहनासइ इमीइ नियमा तत्ताभिनिवेस मो सुकिरिया या तत्तो अ बंधदोसो तम्हा एयं विवज्जिज्जा।९०।