________________ [64] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ नश्यत्यनया नियमात्तत्त्वाभिनिवेशो मो सुक्रिया च / ततश्च बन्धदोषः तस्मादेनां विवर्जयेत् // 90 // ] नश्यत्यनया शंकया हेतुभूतया अस्यां वा सत्यां नियमानियमेनावश्यंतया तत्वाभिनिवेशः सम्यक्त्वाध्यवसाय: श्रद्धाभावादनुभवसिद्धमेतत् / मो इति पूरणार्थों निपातः / सुक्रिया च शोभना चात्यन्तोपयोगप्रधाना क्रियो च, नश्यति श्रद्धाभावात् एतदपि अनुभवसिद्धमेव / ततश्च तस्माच तत्त्वाभिनिवेशसुक्रियानाशात् बन्धदोष: कर्मबन्धापराधः / यस्मादेवं तस्मादेनां शङ्कां विवर्जयेत् / ततश्च मुमुक्षुणा व्यपगतशङ्केन सता मतिदौर्बल्यात्संशयास्पदमपि जिनवचनं सत्यमेव प्रतिपत्तव्यं सर्वज्ञाभिहितत्वात्तदन्यपदार्थवदिति / ___ उक्त: पारलौकिको दोषः / अधुनहलौकिकमाहइह लोगम्मि वि दिट्ठो संकाए चेव दारुणो दोसो। अविसयविसयाए खलु पेयापेया उदाहरणं // 91 // [ इह लोकेऽपि दृष्टः शङ्काया एव दारुणो दोषः / अविषयविषयायाः खलु पेयापेयावुदाहरणम् // 91 // ] इह लोकेऽप्यास्तां तावत्परलोक इति दृष्ट उपलब्धः शङ्काया एव सकाशाद्दारुणो दोषः रौद्रोऽपराधः / किमविशेषणशङ्कायाः / नेत्याह / अविषयविषयायाः खलु / खलु