________________ [56] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [कायवाङ्मनःक्रियायोगः स आश्रवः शुभः स च / पुण्यस्य मुणितव्यो विपरीतो भवति पापस्य // 79 // ] कायवाङ्मनःक्रियायोगः। क्रिया कर्म व्यापार इत्यनर्थान्तरं युज्यत इति योगः युज्यते वानेन फरणभूतेनात्मा कर्मणेति योगो व्यापार एव स आस्रवः / आस्रवत्यनेन कमत्यास्रवः सरसलिलावाहिस्रोतोवत् / शुभः स चास्रवः पुण्यस्य मुणितव्यो विपरीतो भवति पापस्येति / आत्मनि कर्माणुप्रवेशमात्रहेतुरास्रव इति। . ___ उक्त आस्रवः / सांप्रतं बन्ध उच्यतेसकसायत्ता जीवो जोगे कम्मस्स पुग्गले लेइ। सो बंधो पयइठिईअणुभागपएसभेओ ओ / 80 // [ सकषायत्वाञ्जीवो योग्यान् कर्मणः पुद्गलान् लाति / स बन्धः प्रकृतिस्थित्यनुभागप्रदेशभेद एव // 80 // ] कषायाः क्रोधादयः सह कषायैः सकषायः तद्भावः तस्मात् सकषायत्वाज्जीवो योग्यानुचितान् कर्मणः ज्ञानावरणादेः पुद्गलान् परमाणून लात्यादत्ते गृह्णातीत्यनान्तरं स वन्धः / योऽसौ तथास्थित्या त्वादानविशेषः स बन्ध इत्युच्यते / स च प्रकृतिस्थित्यनुभावप्रदेशभेद एव भवति / प्रकृतिबन्धो ज्ञानावरणादिप्रकृतिरूपः। स्थितिबन्धोऽस्यैव जघन्येतरा स्थितिः / अनुभावबन्धो यस्य यथायत्यां विपा