________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [ 55 ] धम्माधम्मागासा पुग्गल चउहा अजीव मो एए। गइठिइअवगाहेहिं फासाईहि च गम्मति // 78 // [धर्माधर्माकाशाः पुद्गलाश्चतुर्धा अजीवा एवैते / गतिस्थित्यवगाहैः स्पर्शादिभिश्च गम्यन्ते // 78 // ] तत्र धर्माधर्माकाशा गतिस्थित्यवगाहैर्गम्यन्ते / पुद्गलाश्च स्पर्शादिभिः / असमासकरणं धर्मादीनां त्रयाणामप्यमूर्तत्वेन भिन्नज्ञातीयख्यापनार्थम् / इत्येष गाथाक्षरार्थः। भावार्थस्तु धर्मादिग्रहणेन पदैकदेशेऽपि पदप्रयोगदर्शनाद्धर्मास्तिकायादयो गृह्यन्ते / स्वरूपं चैतेषां जीवानां पुद्गलानां च गत्युपष्टम्भकारणम् / धर्मास्तिकायो ज्ञानस्य दीपश्चक्षुष्मतो यथा // 1 // जीवानां पुदगलानां च स्थित्युपष्टम्भकारणम् / अधर्मः पुरुषस्येव तिष्ठासोरवनिस्समा // 2 // जीवानां पुद्गलानां च धर्माधर्मास्तिकाययोः / बादरापां घटो यद्वदाकाशमवकाशदम् // 3 // स्पर्शरसगन्धवर्णशब्दा मूर्तस्वभावकाः / संघातभेदनिष्पन्नाः पुद्गला जिनदेशिताः // 4 // इति कृतं विस्तरेण / उक्ता अजीवाः सांप्रतमास्रवद्वारमाहकायवयमणोकिरियाजोगो सो आसवो सुहो सो अ। पुनस्स मुणेयव्वो विवरीओ होइ पावस्स // 79 //