________________ [54] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / सिद्धप्राभृते " सव्वत्थोवा तित्थगरिसिद्धा तित्थगरितित्थे नोतित्थसिद्धा असङ्खयेयगुणा तित्थगरितित्थे णोतित्थंगरिसिद्धा उ असङ्खयेयगुणा उ तित्थगरितित्थे णोतित्थगरसिद्धा असङ्ख्येयगुणा" इति / न नपुंसकलिङ्गे सिद्धाः / प्रत्येकबुद्धास्तु पुंलिङ्गा एव / / एकानेक इति / एकसिद्धा अनेकसिद्धाः। तत्रैकसिद्धा एकस्मिन्समये एक एव सिद्धः / अनेकसिद्धा एकस्मिन्समये व्यादयो यावदष्टशतं सिद्धमिति / उक्तं च बत्तीसा अडयाला सट्टी बावत्तरी य बोघव्वा / चुलसीई छन्नउइ दुरहिय अठुत्तरसयं च // 1 // तथा समयभिन्नाश्चेति / प्रथमसमयसिद्धा अप्रथमसमयसिद्धा इत्यादि। तत्र अप्रथमसमयसिद्धाः परम्पर सिद्धिविशेषणप्रथमसमयवर्तिनः सिद्धत्वद्वितीयसमयवर्तिन इत्यर्थः ब्यादिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते / यद्वा सामान्येन xप्रथमसमय सिद्धाभिधानं विशेषतो द्विसमयादिसिद्धाभिधानमिति // आह तीर्थातीर्थसिद्धभेदद्वय एवान्तर्भावादलं शेषभेदैरिति, न आद्यभेदद्वयादेवोत्तरभेदाप्रतिपत्तेः शिष्यमतिविकाशार्थश्च शाखारम्भ इति / एष उक्तलक्षणो जीवसमासो जीवसंक्षेप उक्त इति वाक्यशेषः / अत ऊर्ध्वमजीवसमासं प्रवक्ष्यामीति गाथार्थः॥ * सिद्ध. 4 (प्रथमसमयवर्तिनः सिद्धाभिधानं )