________________ सटीक श्रावकप्रज्ञप्त्यात्यप्रकरणं / [53] इति / उच्यते / बोध्युपधिश्रुतलिङ्गकृतो विशेषः तथाहि स्वयंबुद्धा बाह्यप्रत्ययमन्तरेणै व बुध्यन्ते प्रत्येकबुद्धास्तु न तद्विरहेण, श्रूयते च बाह्यप्रत्ययवृषभादिसयव्यपेक्षा करकंड्वादीनां प्रत्येकबुद्धानां बोधिरिति / उपधिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः / स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः प्रत्येकबुद्धानां नियमतो भवत्येव / लिङ्गप्रतिपत्तिः स्वयंबुद्धानामाचार्यसविधावपि भवति प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण // बुद्धबोधिता इति बुद्धबोधितसिद्धाः बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते // स्वान्यगृहिलिङ्गा इति स्वलिङ्गसिद्धा अन्यलिगसिद्धा गृहिलिङ्गसिद्धा। तत्र स्वलिङ्गसिद्धा द्रव्यलिङ्गं प्रति रजोहरणगोच्छकधारिणः / अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गसिद्धाः। गृहिलिङ्गसिद्धा मरुदेवीप्रभृतय इति // इत्थीपुरिसनपुंसग एगाणेग तह समयभिन्ना य। एसो जीवसमासो इतो इयरं पवक्खामि // 77 // [स्त्रीपुरुषनपुंसका एकानेके तथा समयभिन्नाश्च / एष जीवसमासोऽत इतरं प्रवक्ष्यामि // 77 // ] ___ एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः केचित् पुँलिगसिद्धाः केचिन्नपुंसकलिङ्गसिद्धाः। आह किं तीर्थकरा अपि स्त्रीलिङ्गसिद्धा भवन्ति / भवन्तीत्याह / यत उक्तं