________________ [2] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / मुत्ता अणेगभेया तित्थतित्थयरतदियरा चेव / सयपत्तेयविबुद्धा बुहबोहिय सन्नगिहिलिंगे // 76 // [मुक्ता अनेकभेदाः तीर्थतीर्थकरतदितरे चैव / स्वयंप्रत्येकबुद्धा बुधबोधिताः स्वान्यगृहिलिङ्गाः // 76 // ] मुक्ताश्च सिद्धाः ते चानेकभेदा अनेकप्रकाराः / तीर्थतीर्थकरतदितरे चेति, अनेन सूचनात्सूत्रमिति कृत्वा तीर्थसिद्धा अतीर्थसिद्धास्तीर्थकरसिद्धा अतीर्थकरसिद्धाश्च गृह्यन्ते / तत्र तीर्थ सिद्धास्तीर्थसिद्धाः। तीर्थ पुनश्चातुर्वर्णः श्रमणसंघः प्रथमगणधरो वा / तथा चोक्तं " तित्थं भंते तित्थं तित्थगरे तित्थं गोयमा अरहं ताव नियमा तित्थंकरे तित्थं पुण चाउव्वन्नो समणसंघो पढमगणधरो वा" इत्यादि / ततश्च तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः // अतीर्थे सिद्धा अतीर्थसिद्धास्तीर्थान्तरसिद्धा इत्यर्थः / श्रूयते च “जिणंतरे साहुवोच्छेउत्ति" तत्रापि जातिस्मरणादिना अवाप्तापवर्गमार्गाः सिध्यन्ति एवं, मरुदेवीप्रभृतयो वा अतीर्थसिद्धास्तदा तीर्थस्यानुत्पन्नत्वात् // तीर्थकरसिद्धास्तीर्थकरा एव // अतीर्थकरसिद्धा अन्ये सामान्यकेवलिनः // स्वयंप्रत्येकबुद्धा इत्यनेन स्वयंबुद्धसिद्धाः प्रत्येकबुद्धसिद्धाश्च गृह्यन्ते / तत्र स्वयंबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः। प्रत्येकबुद्धसिद्धाः प्रत्येकबुद्धास्सन्तो ये सिद्धा इति / अथ स्वयंबुद्धप्रत्येकबुद्धयोः कः प्रतिविशेष