________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / देवा नेरइया वा असंखवासाउआ य तिरिमणया। उत्तमपुरिसा य तहा चरमसरीरा य निरुवकमा 74 / [देवा नारकाच असंख्येयवर्षायुषश्च तिर्यङ्मनुष्याः / उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः // 74 // ] देवा नारकाश्चैते सामान्येनैव / असङ्ख्येयवर्षायुषश्च तिर्यमनुष्या एतेन सङ्ख्ययवर्षायुषां व्यवच्छेदः। उत्तमपुरुषाश्चक्रवर्त्यादयो गृह्यन्ते / चरमशरीराश्चाविशेषेणैव तीर्थकरादयः। निरुपक्रमा इत्येते निरुपक्रमायुष एव अकालमरणरहिता इति / सेसा संसारत्था भइया सोवक्कमा व इयरे वा। सोवक्कमनिरुवक्कमभेओ भणिओ समासेणं / 75 / [ शेषाः संसारस्था भाज्याः सोपक्रमा वा इतरे वा / सोपक्रमनिरुपक्रमभेदो भणितः समासेन // 75 // ] शेषाः संसारस्था अनन्तरोदितव्यतिरिक्ताः सङ्खयेयवर्षायुष अनुत्तमपुरुषा अचरमशरीराश्च / एते भाज्या विकल्पनीयाः / कथं सोपक्रमा वा इतरे वा कदाचित्सोपक्रमाः कदाचिनिरुपक्रमा उभयमप्येतेषु संभवतीति सोपक्रमनिरुपक्रमभेदो भणितः समासेन संक्षेपेण / न तु कर्मभूमजादिविभागविस्तरेणेति / उक्तं सोपक्रमद्वारं तदभिधानाच्च संसारिणो जीवाः / सांप्रतं मुक्तानभिधित्सुराह