________________ [5] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / विशेषणार्थः प्राप्तदर्शना वा अप्राप्तदर्शना वा. सन्तीति विशेषयति / अधिके पुनरुपापुद्गलपरावर्ते संसारे कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः / पुद्गलपरावतों नाम त्रैलोक्यगतपुद्गलानामौदारिकादिप्रकारेण ग्रहणं / उपार्धपुद्गलपरावर्तस्तु किंचिन्यूनोऽर्धपुद्गलपरावर्त इति। - एतद्द्वारोपयोग्ये च वक्तव्यताशेषमाहपायमिह कूरकम्मा भवसिद्धिया वि दाहिणिल्लेसु / नेरइयतिरियमणुया सुरा य ठाणेसु गच्छंति / 73 / [प्राय इह क्रूरकर्माणः भवसिद्धिका अपि दक्षिणेषु / नारकतिर्यङ्मनुष्याः सुराश्च स्थानेषु गच्छन्ति // 73 // ] प्राय इह क्रूरकर्माणः / बाहुल्येनैतदेवमिति दर्शनार्थ प्रायोग्रहणं / भवसिद्धिका अप्येकभवमोक्षयायिनोऽपि दक्षिणेषु नारकतिर्यङ्मनुष्याः सुराश्च स्थानेषु गच्छन्ति / अत एवोक्तं " दाहिणदिसिगामिए किलपक्खिए नेरइए" इत्यादि / एतदुक्तं भवति / नरकभवनद्वीपसमुद्रविमानेषु दक्षिणदिग्भागव्यवस्थितेषु कृष्णपाक्षिका नारकादय उत्पद्यन्त इति / आह भारतादितीर्थकरादिभिर्व्यभिचारः, न, तेषां प्रायोग्रहणेन व्युदासादिति / शुक्लपाक्षिकद्वारानन्तरं सोपक्रमायुरिमाह