________________ सटीकधीवकप्रज्ञप्त्याख्यप्रकरणं / [19] सेसा उ तिरियमणया लद्धिं पप्पोववायकाले य / उभओ वि अ भइअव्वा पज्जत्तियरेत्तिजिणवयणं॥ [ शेषास्तु तिर्यङ्मनुष्या लब्धि प्राप्योपपातकाले च / उभयतोऽपि भाज्याः पर्याप्तेतरे इति जिनवचनम् // 71 // ] शेषास्तु तिर्यङ्मनुष्याः संमूर्छनजाः सङ्खथेयवर्षायुषश्च गर्भजाः / किं लब्धि प्राप्य पर्याप्तकलब्धिमधिकृत्य उपपातकाले चोत्पद्यमानावस्थायां च / किं / उभयतोऽपि भाज्या विकल्पनीयाः पर्याप्तका इतरे वापर्याप्तकाः। एतदुक्तं भवति / लब्धितोऽपि पर्याप्ता अपर्याप्तका अपि भवन्ति / उपपातावस्थायां त्वपर्याप्तका एव / इति जिनवचनं इत्येष आगम इति / ___ व्याख्यातं पर्याप्तकद्वारं तदनन्तरं शुकलपाक्षिकद्वारमाहजेसिमवड्ढोपुग्गलपरियट्टो सेसओ उ संसारो। ते सुक्कपक्खिआ खलु अहिए पुण किन्हपक्खिया॥ [ येषामपार्धपुद्गलपरावर्त एव शेषः संसारः / ते शुक्लपाक्षिकाः खलु अधिक पुनः कृष्णपाक्षिकाः // 72 // ] येषामपापुद्गलपरावर्त एव शेषः संसारस्तत ऊर्च सेत्स्यन्ति ते शुक्लपाक्षिकाः क्षीणप्रायसंसाराः खलुशब्दो