________________ [ 48 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / कार्मणशरीरयोगी चतुर्थक पञ्चमे तृतीये च / समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् // 1 // (प्रशमरति 275-276) अन्तर्मुहूतं चानाहारका अयोगिकेवलिनः तत ऊर्ध्वमयोगिकेवलित्वाभावादपवर्गप्राप्तेः। साद्यपर्यवसितं कालमनाहारकाः सिद्धा व्यक्त्यपेक्षया तेषां सादित्वादपर्यवसितत्वाच्च / अत एवाह क्रमश एवंभूतेनैव क्रमेणेति गाथार्थः / व्याख्यातमाहारकद्वारं सांप्रतं पर्याप्तकद्वारमाह / नारयदेवा तिरिमणुय गब्भया जे असंखवासाऊ। एए य अपज्जत्ता उववाए चेव बोद्धव्वा // 7 // [ नारकदेवाः तिर्यङ्मनुष्या गर्भजा येऽसंख्येयवर्षायुषः / एते चापर्याप्ता उपपात एव बोद्धव्याः // 70 // ] नारकाश्च देवाश्च नारकदेवास्तथा तिर्यमनुष्याः तिर्यश्वश्च मनुष्याश्चेति विग्रहः गर्भजा गर्भव्युत्क्रान्तिकाः, संमूर्च्छिमव्यवच्छेदार्थमेतत् / ते च सङ्खयेयवर्षायुषोऽपि भवन्ति तद्व्यवच्छेदार्थमाह / येऽसङ्ख्येयवर्षायुष इति / एते चापर्याप्ता आहारशरीरेन्द्रियप्राणापानभाषामनःपर्याप्तिभी रहिता -उपपात एव उत्पद्यमानावस्थायामेव बोद्धव्या विज्ञेया न तूत्तरकालं पर्याप्ता लन्धितोऽपीति /