________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [47 ] विग्गहगइमावन्ना केवलिणो समुहया अजोगी य / सिद्धा य अणाहारा सेसा आहारगा जीवा // 6 // [विग्रहगतिमापन्नाः केवलिनः समवहता अयोगिनश्च / सिद्धाश्चानाहारकाः शेषा आहारका जीवाः // 6 // ] विग्रहगतिमापन्ना अपान्तरालगतिवृत्तय इत्यर्थः। केवलिनः समवहताः समुद्घातं गताः। अयोगिनश्च केवलिन एव शैलेश्यवस्थायामिति / सिद्धाश्च मुक्तिभाजः। एतेऽनाहारका ओजाद्याहाराणामन्यतमेनाप्यमी नाहारयन्तीत्यर्थः / शेषा उक्तविलक्षणा आहारका जीवा ओजलोमप्रक्षेपाहाराणां यथासंभवं येन केनचिदाहारेणेति / तेऽपि यावन्तं कालमनाहारकाः तांस्तथाभिधातुकाम आहएगाइ तिनिसमया तिन्नेवऽन्तोमुत्तमित्तं च / साई अपज्जवसियं कालमणाहारगा कमसो॥६९॥ [ एकाद्यांस्त्रीन्समयान् त्रीनेव अन्तर्मुहूर्तमानं च। साद्यपर्यवसितं कालमनाहारकाः क्रमशः // 69 // ] एकाद्यांस्त्रीन्समयान् विग्रहगतिमापना अनाहारकाः / उक्तं च "एकं द्वौ वानाहारकः" इति (तत्त्वार्थाधिगमः सूत्रं 2-31) वाशब्दात्रिसमयग्रहः / त्रीनेव समयाननाहा रकाः समुद्घाते केवलिनः / यथोक्तम्