________________ [ 188 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / न्तरमेवाथवा द्वारगाथायां तच्चदं किं च " सव्वं ति भाणिऊणं" इत्यादिग्रन्थान्तरापेक्षमन्यत्रेति। __उक्तमानुषङ्गिकं प्रकृतं प्रस्तुम इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति / तानाहमणवयणकायदुप्पणिहाणं सामाइयम्मि वज्जिज्जा। सइअकरणयं अणवट्टियस्स तह करणयं चेव // 312 // [मनोवाक्कायदुःप्रणिधानं सामायिके वर्जयेत् / स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव // 312 // ] मनोवाकायदुःप्रणिधानं मनोदुष्टचिन्तनादि सामायिके कृते सति वर्जयेत् स्मृत्यकरणतां अनवस्थितस्य तथा करणं चैव वर्जयेत् / तत्र स्मृत्यकरणं नाम सामायिकविषया या स्मृतिस्तस्या अनासेवनमिति एकदुक्तं भवति प्रवलप्रमादान्नैव स्मरत्यस्यां वेलायां सामायिकं कर्तव्यं कृतं न कृतमिति वा स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति / सामायिकस्यानवस्थितस्य करणं अनवस्थितमल्पकालं करणानन्तरमेव त्यजति यथाकथचिद्वानवस्थितं करोतीति / एतदेव अतिचारजातं विधिप्रतिषेधाभ्यां स्पष्टयति / 1 सव्वं ति भाणिऊणं विरई खलु जस्स सन्चिया नथि। सो सव्वविरइवाई चुकइ देसं च सव्वं च //