________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 187 ] नियमादष्टानां विज्ञेयो वेदक इति द्वारं / प्रतिपत्तिकृतो भेद इति अत्र आहपंच महव्वय साह इयरो इकाइणुव्वए अहवा। सइ सामाइयं साह पडिवज्जइ इत्तरं इयरो॥३१०॥ [पञ्चमहाव्रतानि साधुः इतर एकादीनि अणुव्रतानि अथवा। सकृत् सामायिकं साधुः प्रतिपद्यते इत्वरं इतरः // 310 // ] पञ्च महाव्रतानि प्राणातिपातादिविरमणादीनि संपूर्णान्येव साधुः प्रतिपद्यत इति योगः। इतरः श्रावकः एकादीनि अणुव्रतानि प्रतिपद्यत इत्येकं द्वे त्रीणि चत्वारि पश्च चेति // अथवा सकृत्सामायिकं साधुः प्रतिपद्यते सर्वकालं च धारयति / इत्वरमितरः श्रावकोऽनेकशो न च सदा पालयतीति द्वारं / अतिक्रमो भेदक इति एतदाहइक्कस्सइक्कमे खलु वयस्स सव्वाणइक्कमो जइणो। इयरस्स उ तस्सेव य पाठंतरमो हवा किंच॥३११॥ [एकस्यातिक्रमे खलु सर्वेषामतिक्रमो यतेः। इतरस्य तु तस्यैव पाठान्तरमेवाथवा किंर्च // 311 // ] एकस्यातिक्रमे केनचित्प्रकारेण व्रतस्य सर्वेषामतिक्रमो यतेस्तथाविधैकपरिणामत्वात् / इतरस्य तु श्रावकस्य तस्यैवाधिकृतस्याणुव्रतस्य न शेषाणां विचित्रविरतिपरिणामात् पाठा