________________ [ 186 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / बध्नन्ति तथाविधपरिणामोपात्तस्य वेदनास्थानाभावात् / उपशान्तक्षीणमोहाः श्रेणिद्वयोपरिवर्तिनः उपशान्तक्षीणच्छमस्थवीतरागाः केवलिनश्च सयोगिभवस्था एकविधबन्धका इति / ते पुण दुसमयठिइस्स बंधगा न उण संपरायस्स। सेलेसीपडिवन्ना अबंधगा हुंति नायव्वा // 30 // [ ते पुनद्विसमयस्थितेः बन्धका न पुनः सांपरायिकस्य / शैलेशीप्रतिपन्ना अबन्धका भवन्ति ज्ञातव्याः // 308 // ] ते पुनरुपशान्तमोहादयस्तस्यैकविधस्य द्विसमयस्थितेरीपिथस्य बन्धका न पुनः सांपरायिकस्य पुनर्भवहेतोरिति / शैलेशीप्रतिपन्ना अयोगिकेवलिनोऽबन्धका. भवन्ति ज्ञातव्याः सर्वथा निदानाभावादिति द्वारं / तथा वेदना भेदिकेत्याहअट्टण्हं सत्तण्हं चउण्ह वा वेयगो हवइ साह / कम्मपयडीण इयरो नियमा अट्टण्ह विन्नेओ।३०९। [अष्टानां सप्तानां चतसृणां वा वेदको भवति साधुः / कर्मप्रकृतीनां इतरः नियमादष्टानां विज्ञेयः // 309 // ] अष्टानां सप्तानां चतसृणां वा वेदको भवति साधुः कामां कर्मप्रकृतीनामिति तत्राष्टानां यः कश्चित् सप्तानामुपशान्तक्षीणमोहच्छद्मस्थवीतरागो मोहनीयरहितानां चतसृणामुत्पन्नकेवलो वेदनीयनामगोत्रायुरूपाणां इतरः श्रावको देशविरतिपरिणामवर्ती