________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [189 ] सामाइयं ति काउं परचितं जो उचिंतई सडढो। अट्टवसट्टोवगओनिरत्थयं तस्स सामइयं / 313 // [सामायिकमिति कृत्वा परचिन्तां यस्तु चिन्तयति श्राद्धः। आर्तवशाहॊपगतः निरर्थकं तस्य सामायिकम् // 313 // ] सामायिकमित्येवं कृत्वा आत्मानं संयम्य परचिन्तां संसारे इतिकर्तव्यताविषयां यस्तु चिन्तयति श्रावकः, आर्तवशार्तश्चस उपगतश्चेति समासः आर्तध्यानसामर्थेनातः उप सामीप्येन गतो भवस्येति भावार्थः निरर्थकं तस्य सामायिकं अनात्मचिन्तावतो निःफलं सामायिकमित्यर्थः / आत्मचिन्ता च सद्वयानरूपेति / 1 / ___ उक्तो मनोदुःप्रणिधानविधिः। सांप्रतं वाग्दुःप्रणिधानमाहकयसामइओ पुल्विं बुद्धीए पेहिऊण भासिज्जा। सइ अणवज्जं वयणं अन्नह सामाइयं न भवे।३१४॥ [कृतसामायिकः पूर्व बुद्धया प्रेक्ष्य भाषेत / सदा निरवद्यं वचनं अन्यथा सामायिकं न भवेत्॥३१४॥] कृतसामायिकः सन् श्रावकः पूर्वमाद्यं बुद्धया प्रेक्ष्यालोच्य भाषेत ब्रूयात् सदा निरवद्यवचनं प्रणालिकयापि न कस्यचित्पीडाजनकं, अन्यथानालोच्य भाषमाणस्य मामायिकं न भवेत् वाग्दुःप्रणिहितत्वादिति / 2 /