________________ [ 190 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / भणितो वाग्दुःप्रणिधानातिचारः। सांप्रतं कायप्रणिधानमुररीकृत्याहअनिरिक्खियापमज्जिय थंडिल्ले ठाणमाइ सेवंतो। हिंसाभावे वि न सो कडसामइओ पमायाओ॥३१५। [ अनिरीक्ष्य अप्रमृज्य स्थण्डिले स्थानादि सेवमानः / हिंसाभावेऽपि नामौ कृतसामायिकः प्रमादतः // 315 // अनिरीक्ष्य चक्षुषा अप्रमृज्य च मृदुवस्त्रान्तेन स्थण्डिले कल्पनीयभूभागे स्थानादि कायोत्सर्गनिषीदनादि सेवमानः सन् हिंसाभावेऽपि प्राण्यभावेन कथंचिद्व्यापत्यभावेऽपि नासौ कृतसामायिकः / कुतः प्रमादात्काये दुःप्रणिधानादिति / 3 / प्रतिपादितः कायदुःप्रणिधानमार्गः। सांप्रतं स्मृत्यकरणमधिकृत्याह-- न सरइपमायजुत्तो जो सामइयं कया उ कायव्वं / कयमकयं वा तस्स उ कयं पि विफलं तयं नेयं / 316 // [न स्मरति प्रमादयुक्तः यः सामायिकं कदा तु कर्तव्यम् / कृतमकृतं वा तस्य कृतमपि विफलं तकं ज्ञेयम् // 316u] न स्मरति प्रमादयुक्तः सन् यः सामायिकं कदा तु कर्तव्यं कोऽस्य काल इति कृतमकृतं वा न स्मरति, तस्येत्थं